________________ जमालि 1410 - अभिधानराजेन्द्रः - भाग 4 जमालि तद्ग्राहयितुं प्रवृत्ता, ततो ढलेन मिथ्यात्वमुपगतेयमिति ज्ञात्वा प्रोक्तम्नेदृशं किमपि वयं जानीमः / अन्यदा चापाकाग्निमध्ये मृदाजनोद्वर्तनपरावर्तने कुर्वता अङ्गारकमेकं प्रक्षिप्य तत्रैव प्रदेशे स्वाध्यायं कुर्वत्याः सुदर्शनायाः सङ्घाट्यञ्चलो दग्धः / ततस्तया प्रोक्तम-श्रावक ! किं त्वया मदीयसकाटी दग्धा? तेनोक्तम्-ननु 'दह्यमानमदग्धम्' इति भवति भवत्यास्सिद्धान्तः, ततः क केन त्वदीया सनाटी दग्धा? इत्यादि तदुक्तं परिभाव्य संबुद्धाऽसौ सम्यक् प्रेरिताऽस्मीत्यभिधाय मिथ्यादुष्कृत ददाति, जमालिं च गत्वा प्रज्ञापयति / यदा चासौ कथमपि न प्रज्ञाप्यते, तदाऽसौ सपरिवारा शेषसाधवश्चैकाकिनं जमालि मुक्त्वा भगवत्समीप जग्मुः। जमालिस्तु बहुजनं व्युद्ग्राह्यानालोचितप्रतिक्रान्तः कालं कृत्वा किल्विषिकदेवेषूत्पन्नः / व्याख्याप्रज्ञप्त्यागमाचेतत् चरितं विस्तरतोऽवसेयमिति। एष संग्रहगाथाभावार्थः / अक्षरार्थस्त्वयग-(जंहासुदंसण जमालिणोज त्ति) ज्येष्ठा, सुदर्शना, अनवद्याङ्गीति जमालिगृहणीनामानि / अन्ये तु व्याचक्षतेज्येष्ठा महती सुदर्शना नाम भगवतः श्रीमन्महावीरस्य भगिनी, तस्याः पुत्रो जमालिः, अनवद्यागी नाम भगवतो दुहिता जमालिगृहिणीति श्रावस्त्यां नगर्या तैन्दुकोद्याने जमालिनिवदृष्टिरुत्पन्नेति वाक्यशेषः। तत्र पञ्च शतानि साधूनां, सहरसं चार्यिकाणाम, एतेषां मध्ये यः स्वयं न प्रतिबुद्धःतं जमालि मुक्त्वा ढकेन प्रतिबोधितः / इति नियुक्तिगाथार्थः // 2307 / / अथ भाष्यकारो येन विप्रतिपत्त्यभिप्रायेण जमालिनिहवो जातस्तं प्रकटयन्नाहसक्खं चिय संथारो, न कञ्जमाणो कउ त्ति मे जम्हा। वेइ जमाली सव्वं, न कञ्जमाणं कयं तम्हा // 2308|| (जे जम्ह ति) यस्मान्मम साक्षात्प्रत्यक्षमेवेदं वृत्तं, यदुत कम्बलास्तरणरूपः संस्तारकः क्रियमाणो न कृतः,संतीर्यमाणो न संस्तृतः। तस्माजमालिब्रवीति-सर्वमपि वस्तु क्रियमाणं कृतं न भवति, किंतु कृतमेव कृतमुच्यते / ततो भगवत्यादिषु यदुक्तम्-'चालमाणे चलिए उईरिजमाणे उईरिए, वेइज्जमाणे वेइए" इत्यादि, तत्सर्व मिथ्येत्यभिप्रायः / / इति // 2308|| अपि च, क्रियमाणं कृताऽभ्युपगमे बहवो दोषाः, क एते? इत्याहजस्सेह कज्जमाणं, कयं ति तेणेह विज्जमाणस्स। करणकिरिया पवन्ना, तहा य बहुदोसपडिवत्ती।।२३०६।। इह यस्य वादिनः क्रियमाणं वस्तु कृतमित्यभ्युपगमः, तेनेह विद्यमानस्य सतः करणरूपाः क्रियाः करणक्रियाः प्रतिपन्ना अङ्गीकृताः / तथा च सति वक्ष्यमाणानां बहूनां दोषाणां प्रतिपत्तिरभ्युपगमरूपा कृता भवतीति // 230611 तथाहिकयमिह न कज्जमाणं, सब्भावाओ चिरंतनघडो व्व / अहवा कयं पि कीरई, कीरउ निचं न य समत्ती / / 2310 / / इह क्रियमाणं कृतं न भवतीति प्रतिज्ञा, सद्भावात्- कृतस्य विद्यमानत्वादिति हेतुः, चिरन्तनघटवदिति दृष्टान्त: विपर्यये बाधकमाह-अथ कृतमपि क्रियत इत्यभ्युपगम्यते, तर्हि नित्यम- 1 नवरतमेव क्रियता, कृतकत्वाविशेषात् / एवं च सति न कदाचिदपि कार्यक्रियापरिसमाप्तिरिति // 2310 / / किमेतावन्मात्रमेव दूषणं? नेत्याहकिरियावेफल्लं ति य, पुव्वमभूयं च दीसए होतं / दीसइदीहो य जओ, किरियाकालो घडाईणं // 2311 / / यदि च क्रियमाणं कृतमिष्यते, तर्हि घटादिकार्यार्थ या मृन्मर्दनचक्रभ्रमणादिका क्रिया, तस्याः वैफल्यं प्राप्नोति, तत्-काले कार्यस्य कृतत्वाभ्युपगात / प्रयोगः-इह यत्कृतं, तक्रिया विफलैव, यथा चिरनिष्पन्नघटे, कृतं चाऽभ्युपगम्यते क्रियाकाले कार्य , ततो विफला तत्र क्रियेति। किं च-क्रियमाणकृतवादिना कृतस्य विद्यमानस्य क्रियेति प्रतिपादित भवति / एवं च प्रत्यक्ष-विरोधः, यस्मादुत्पत्तिकालात्पूर्वमभूतमविद्यमानमेव कार्य भवज्जायमानं दृश्यते, उत्पतिकाले तस्मारिक यमाणमकृ तमे वेति / किं च-आरम्भक्रि यास मय एव कार्यमुत्पद्यत इति तवाभ्युपगमः / एतच्चायुक्तम् / कुतः? यस्मात् घटादिकार्याणामुत्पद्यमानाना दीर्घ एव निर्वर्तनक्रियाकालो दृश्यत इति // 2311 // दृश्यता नाम दीर्घः क्रियाकालः, परं घटादिकार्यमारम्भक्रियासमय एव शिवकादिकाले वा द्रक्ष्यत इति चेत्, तदयुक्तम्। कुत इत्याहनारंभे चिय दीसइ,न सिवादद्धाएँ दीसइ तदंते। तो न हि किरियाकाले, जुत्तं कजं तदंतम्मि॥२३१२।। नारम्भक्रियासमय एव घटादिकार्य भवद दृश्यते, नापि शिवाद्यदायाम्-शिवकस्थासकोशकुशूलादिसमयेष्वपि न दृश्यत इत्यर्थः कतर्हि दृश्यते? इत्याह-तदन्तेदीर्घक्रियाकालस्यान्तेघटादिकार्य भयद् दृश्यते, तस्मान्न क्रियाकाले कार्य युक्तं, तस्य तदानीमदर्शनात्। तदन्ते तु दीर्धक्रियाकालस्यान्ते युक्तं कार्य , तदानीमेव तस्य दर्शनादिति सकलजनस्य प्रत्यक्षसिद्धमेवेदम् / इति जमालिपूर्वपक्षः / / 2312 // ___ अत्र स्थविराः प्रतिविदधति स्म / कथमित्याहथेराण मयं नाकय--मभावओ कीरए खपुप्फं व / अहव अकयं पि कीरइ, कीरउ तो खरविमाणं पि / / 2313 // स्थविराः श्रुतवृद्धा गीतार्थाः साधवः, तेषां मतम्-कुप्ररूपणां कुर्वन्त जमालिं ते एवं प्रज्ञापयन्तीत्यर्थः-नाकृतमविद्यमानं घटादिकार्य क्रियते. असत्त्वात, आकाशकुसुमवत् / अथाकृतम-विद्यमानमपि क्रियते, क्रियता तर्हि खरविषाणमपि, अकृतत्वाविशेषादिति / / 2313 / / यदुक्तम्- 'कीरउ निचं न य रामत्ती' (2310) इत्यादि, तत्राहनिचकिरियाइदोसा, नणु तुल्ला असइ कट्ठतरगा था। पुटवमभूयं च न ते, दीसइ किं खरविसाणं पि॥२३१४|| नन्वसत्यविद्यमाने वस्तुनि करणक्रियाभ्युपगमे, नित्यक्रियादिदोषाः, आदिशब्दादिक याऽपरिसमाप्तिक्रि यावेफ ल्यपरिगृहः, आवयो स्तुल्याः समाः, यथा कृतपक्षे त्वया दत्तास्तथा अकृतपक्षेऽप्यापतन्तीत्यर्थः / किं तुल्या एव? नेत्याह-कष्टतरका