________________ णियंठिपुत्त 2086 - अभिधानराजेन्द्रः - भाग 4 णियंठिपुत्त नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं बयासी- सव्वे पोग्गला मे अज्जो ! सअड्डा, समज्झा,सपएसानो अणड्डा, अमज्झा, अपएसा / तए णं से नियंठिपुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासी-जइ णं ते अञ्जो ! सव्वे पोग्गला सअवा, समज्झा,सपएसा, नो अणब्वा, अमज्झा, अपएसा / किं दव्दादेसेणं अञ्जो ! सव्वपोग्गला सअड्डा, समज्झा, सपएसा, नो अणड्डा, अमज्झा, अपएसा। खेत्तादेसेणं अञ्जो ! सव्वपोग्गला सअड्डा० तहेव चेव; कालादेसेणं तं चेव, भावादेसेणं अज्जो ! तं चेव / तएणं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वयासी-दव्वादेसेण वि मे अञ्जो ! सव्वपोग्गला असढा, समज्झा, सपएसा; नो अणड्ढा, अमज्झा, अपएसा ।खेत्ता-एसेण वि, कालाएसेण वि, भावाएसेण वि / तए णं से नियंठि-पुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासी-जइ णं अञ्जो ! दव्वाएसेणं सव्वपोग्गला सअड्डा, समज्झा, सपएसा;नो अणड्डा, अमज्झा, अपएसा / एवं ते परमाणुपोग्गले वि असले, समज्झे, सपएसे; णो अणड्ढे, अमज्झे, अपएसे। जइणं अजो! खेत्ताएसेण वि सव्वपोग्गला सअड्ढा, समज्झा, सपएसा०जाव एवं ते एगपएसोगाढे वि पोग्गल सअड्डे, समज्झे, सपएसे / जइ णं अञ्जो ! कालाएसे णं सव्वपोग्गला सअड्डा, समज्झा, सपएसा / एवं ते एगसमयद्विइए वि पोग्गले सअड्डे, समझे, सपएसे। तं चेव जइणं अज्जो ! भावाएसेणं सव्वपोग्गला सअड्डे ३,एवं एगगुणकालए वि पोग्गले सअड्डे 3 तं चेव, अह ते एवं न भवंति, तो जे वयसि दव्वाएसेण वि सव्वपोग्गला सअड्डा, समज्झा, सपएसा; नो अणड्डा, अमज्झा, अपएसा / एवं खेत्ताएसेण वि, कालाएसेण वि, भावाएसेण वि। तं णं मिच्छा। तए णं से नारयपुत्ते अणगारे सियंठिपुत्तं अणगारं एवं क्यासीनो खलु एयं देवाणुप्पिया ! एयमढे जाणामो, पासामो। जइणं देवाणुप्पिया ! नो गिलायंति परिक हित्तए, तं इच्छामि णं देवाणुप्पियाणं अंतिए एयमढे सोचा निसम्म जाणित्तए। तए णं से णियंठिपुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासीदव्वाएसेण वि अजो! सव्वपोग्गला सपएसा वि, अपएसा वि अणंता; खेत्ताएसेण वि एवं चेव, कालाएसेण वि, भावाएसेण वि एवं चेव।। (दव्वादेसेणं ति) द्रव्यप्रकारेण,द्रव्यत इत्यर्थः / परमाणुत्वाऽऽद्याश्रित्येति यावत्। (खेत्तादेसेणं ति) एकप्रदेशावगाढत्वाऽऽदिनेत्यर्थः। (कालादेसेणं ति) एकाऽऽदिसमयस्थितिकत्वेन। (भावादेसेणं ति) एकगुणकालकत्वाऽऽदिना / (सव्वपोग्गला स पएसा वीत्यादि) इह च यत्सविपर्ययसार्धाऽऽदिपुद्गलविचारे प्रक्रान्ते सप्रदेशा अप्रदेशा एव ते प्ररूपिताः, तत्तेषां प्ररूपणे सार्द्धत्वाऽऽदि प्ररूपितमेव भवतीति कृत्येत्यवसेयम्।तथाहि-सप्रदेशाः सार्धाः, समध्या वा। इतरे त्वनाः | अमध्याश्चेति। (अणंत त्ति) तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानम्। अथ द्रव्यतोऽप्रदेशस्य क्षेत्राऽऽद्याश्रित्याप्रदेशाऽऽदित्वं निरूपयन्नाहजे दव्वओ अपएसे से खेत्तओ नियमा अपएसे; कालओ सिय सपएसे, सिय अपएसे; भावओ सिय सपएसे, सिय अपएसे। (जे दव्वओ अपएसे इत्यादि) यो द्रव्यतोऽप्रदेशः परमाणुः, सच क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते, प्रदेशद्वयाऽऽद्यवगाहे तु तस्याप्रदेशत्वमेव न स्यात्। कालतस्तु यद्यसावेकसमयस्थितिकस्तदाऽप्रदेशोऽनेकसमयस्थितिकस्तु सप्रदेश इति / भावतः पुनर्योकगुणकालकाऽऽदिस्तदाऽप्रदेशो, द्विगुणकालकाऽऽदिस्तुसप्रदेश इति निरूपितो द्रव्यतोऽप्रदेशः। अथ क्षेत्रतोऽप्रदेशं निरूपयन्नाहजे खेत्तओ अपएसे-से दव्वओ सिय सपएसे, सिय अपएसे; कालओ भयणाए, भावओ भयणाए, जहाखेत्तओ एवं कालओ, भावओ। जे दव्वओ सपएसे-से खेत्तओ सिय सपएसे, सिय अपएसे / एवं कालओ, भावओ वि / जे खेत्तओ सपएसे-से दव्वओ नियमा सपएसे, कालओ भयणाए, भावओ भयणाए, जहा दव्वओ तहा कालओ, भावओ वि। (जे खेत्तओ अपएसे इत्यादि) यः क्षेत्रतोऽप्रदेशः स द्रव्यतः स्या-- त्सप्रदेशः, व्यणुकाऽऽदेरप्येकप्रदेशावगाहित्वात् / स्यादप्रदेशः, परमाणोरप्येकप्रदेशावगाहित्वात् / (कालओ भयणाए त्ति) क्षेत्रतोऽप्रदेशो यः स कालतो भजनया अप्रदेशाऽऽदिर्वाच्यः / तथाहिएकप्रदेशावगाढ एकसमयस्थितिकत्वादप्रदेशोऽपि स्यादनेकसमयस्थितिकत्याच सप्रदेशोऽपि स्यादिति / (भावओ भयणाए त्ति) क्षेत्रतोऽप्रदेशो योऽसावेकगुणकालकाऽऽदित्वादप्रदेशोऽपि स्यादनेकगुणकालकाऽऽदित्वाच सप्रदेशोऽपि स्यादिति। अथ काला-प्रदेश, भावाप्रदेशं च निरूपयन्नाह-(जहा खेत्तओ, एवं कालओ, भावओ ति) यथा क्षेत्रतोऽप्रदेश उक्तः,एवं कालतो भावतश्चासौ वाच्यः। तथाहि-(जे कालओ अपएसे, से दव्वओ सिय सपएसे, सिय अपएसे) एवं क्षेत्रतो, भावतश्च / तथा-(जे भावओ अपएसे से दव्वओ सिय सपएसे, सिय अपएसे) एवं क्षेत्रतः, कालतश्चेति। उक्तोऽप्रदेशः। अथ सप्रदेशमाह-(जे दव्वओसपएसे इत्यादि) अयमर्थः यो द्रव्यतो व्यणुकाऽऽदित्वेन सप्रदेशः, स क्षेत्रतः स्यात्सप्रदेशो द् व्यादिप्रदेशावगाहित्वात्, स्यादप्रदेश एकप्रदेशावगाहित्वात्। एवं कालतो, भावतश्च / तथायः क्षेत्रतः सप्रदेशा व्यादिप्रदेशावगाहित्वात् स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य द्विप्रदेशावगाहासम्भवात् / कालतो, भावतश्चासौ द्विधाऽपि स्यादिति। तथा यः कालतः सप्रदेशः, स द्रव्यतः, क्षेत्रतो, भावतश्च द्विधाऽपि स्यात्। तथा यो भावतः स प्रदेशः, स द्रव्यक्षेत्रकालैर्दिधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थ इति।