________________ देसदसण 2631 - अभिधानराजेन्द्रः - भाग 4 देसदसण यमेन पर्येति देशदर्शनाय पर्यटति। स चाऽऽत्मतृतीयो जघन्येनावश्यन्तया कृत्वा प्रेषणीयः / किं च-उभयमिति किमतुबद्धकालप्रायोग्यमिदं क्षेत्रम्, उत वर्षावासयोग्यम्? तथा किमेतदार्य सार्द्धपञ्चविंशतिजनपदमध्यवर्ति, आहोस्विदनार्यम्? एतत्सर्वमपि देशदर्शनं विदधानो जानाति। अथ देशदर्शनस्यैव गुणान्तराभिधित्सया द्वारगाथामाहदंसणसोही थिरकरण, देस अइसेस जणवयपरिच्छा। काउ सुयं दायध्वं, अविणीयाणं विवेगो य॥ देशदर्शनं कुर्वतो दर्शनशुद्धिरात्मनः, स्थिरीकरणं चान्येषां भवति / (देस त्ति) नानादेशभाषासु कौशलम्, अतिशेषा अतिशया जनपदपरीक्षा च जायते, तत एतानि दर्शनशुद्धयादीनि कृत्वा विनीतेभ्यः श्रुतं दातव्यम्। अविनीतानां विवेकः परित्यागः कर्तव्य इति द्वारगाथासमासार्थः। अथ विस्तरार्थं विभणिषुराहजम्मणनिक्खमणेसु य, तित्थयराणं महाणुभावाणं। इत्थ किर जिनवराणं, आगाढं दंसणं होइ।। जन्मनिष्क्रमणशब्दाभ्यां तदाधारभूता भूमयो गृह्यन्ते, जन्मभूमिषु अयोध्याऽऽदिषु. निष्क्रमणभूमिषु जयन्ताऽऽदिषु, चशब्दाज्झानोत्पत्तिभूमिषु पुरिमतालाऽऽदिषु, निर्वाणभूमिषु सम्मेतशैलचम्पाऽऽदिषु, तीर्थकराणां महानुभावानां सातिशया चिन्त्यप्रभावानां संबन्धिनीषु विहरतोऽत्र किल भगवतां जिनवराणां जन्म जज्ञेऽत्र तु भगवन्तो दीक्षा प्रतिपन्नाः, इह केवलज्ञानमासादितवन्तः, इह पुनः परिवृताः, एवं बहुजनमुखेन श्रुत्वा स्वयं च दृष्ट्वा निःशकितत्वभा-वादागाढमतीव विशुद्ध दर्शनं सम्यक्त्वं भवतीति। गतं दर्शनद्वारम्। अथ स्थिरीकरणद्वारमाहसंवेगं संविग्गण, जणए सुविहिओ सुविहियाणं / आउत्तो जुत्ताणं, विसुद्धलेस्सो सुलेस्साणं / / संविग्नानां साधूनां संवेग जनयति-अहो ! अयं भव्याचार्योऽवगाहितसमस्तसिद्धान्तसिन्धुरभ्यस्तचरणकरणसामाचारीक इत्थं देशदर्शनं करोतीति भावनायाः स्थिरीकरणं करोतीत्यर्थः / स्वयं सुविहितानुष्ठानस्तेषामपि सुविहितानां स्वयमायुक्तो विकथानिद्राऽऽदिप्रमादैरप्रमत्तस्तेषामपि युक्तानामप्रमादिना यश्च विशुद्धलेश्यः तेषामपि सुलेश्यानामिति / गतं स्थिरीकरणद्वारम् / अत्र विशेषश्चूर्णिकृता दर्शनशुद्धिद्वारं विवृण्वतेयं गाथा गृहीता, संवेगस्य सम्यग्दर्शनलक्षणत्वात् संवेगदर्शनेन शुद्धिः कृता भवतीति कृत्वा स्थिरीकरणद्वारं तुमूलत एव नोपात्तं, द्वारगाणायामपि "दसणसोही देसप्पवेस अइसेस जणवयपरिच्छा।" इत्येष एव पाठो गृहीतः, अतस्तदभिप्रायेण गतं दर्शनशुद्धिद्वारम्। अथ देशप्रवेशद्वारं व्याचष्टनाणादेसीकुसलो, नाणादेसीकयस्स सुत्तस्स / अभिलावें अत्थकुसलो, होइ तओऽणेण गंतव्वं / / कहयति अभासियाण वि, अभासिए आवि पव्वयावेइ! सव्वे वि तत्थ पीई, बंधंति सभासिओणे त्ति // पियधम्मऽवज्जभीरू, साहम्मियवच्छलो असढभावो। संविग्गावेइ परं, परदेसपवेसणे साहू।। नानाप्रकारा मगधमालवमहाराष्ट्रलाटकर्णाटद्रविडगौमविदर्भाऽsदिदेशभवा या देशी भाषा, तस्यां कुशलः सन् नानादेशीकृतस्य नानादेशभाषानिबद्धस्य सूत्रस्याऽभिलापे उच्चारणेऽर्थकथने च कुशलो भवति, यत एवं ततोऽनेन देशदर्शनार्थ गन्तव्यम् / / तथा नमः कुत्सार्थत्वात् कुत्सिता अव्यक्त वर्णविभागा भाषा येषां तेऽभाषिकास्तेषामप्यसौ धर्म कथयति, निःशेषदेशभाषानिष्णातत्वात / अभाषिकाँथापि तद्देशभाषया प्रतिबोध्य प्रव्राजयति; सर्वेऽपि च शिष्यास्तत्राऽऽचार्ये प्रीतिं बध्नन्ति, स्वभाषिको "णेअस्माकमयमितिकृत्वा / तथा प्रियधर्मा धर्मश्रद्धालुरवा पापकर्म तस्माद्भीरुर-- वद्यभीरुः, साधर्मिकाः साधवस्तेषां वत्सलो द्रव्यतो भक्तपानाऽऽदिना, भावतस्त स्खलिलाऽऽदिषु सारणाऽऽदिना, अशठभावो मातस्थानरहितः एवंविधोऽसौ साधः परदेशप्रवेशने वर्तमानः परमन्यं संयमयोगेषु सीदन्तमपि संविग्नयति सदुपदेशदानाऽऽदिना संविग्नं करोतीति / गतं देशद्वारम्, देशप्रवेशद्वार वा। अथातिशयद्वारमाहसुत्तत्थथिरीकरणं, अइसेसाणं च होइ उवलद्धी। आयरियदसणेणं, तम्हा सेविज आयरिए। आचार्याणां- दर्शनेन, सेवनेनेति यावत् / सूत्रार्थस्थिरीकरणमतिशयानाच पूर्वाणामुपलब्धिः प्राप्तिर्भवति, यत एवं तस्माद्सेवेतपर्युपासीताऽऽचार्यान्। एतदेव व्याख्यानयतिउभय निसंकियाई,पुट्विं से जाइँ पुच्छमाणस्स / होइ जओ सुत्तत्थे, बहुस्सुए सेवमाणस्स। उभये सूत्रेऽर्थे च यानि पूर्व (से) तस्य शङ्किता नि पदानि, तानि आचार्याणां समीपे पृच्छतो निःशङ्कितानि जायन्ते। एवं बहुश्रुतान सेवमानस्य जयः सूत्रार्थविषयेभ्यः सातिशयो भवति, अतो बहुश्रुतपर्युपासनं विधेयम्। अपि चभवियाऽऽरिय देसाणं, दसणं कुणइ एस इय सोउं। अन्ने वि उज्जमंते, विणिक्खमंते य से पासे / / भव्याचार्य एष देशानां दर्शनं करोति इति श्रुत्वाऽन्येऽपि पर्युपास्यमानाचार्यसंबन्धिनः शिष्या उद्यच्छन्ते सूत्रार्थग्रहणाऽऽदावुद्यम कुर्वन्ति गृहिणोऽपि च तद्गुणग्रामरञ्जितमनसो विनिष्क्रामन्ति दीक्षां प्रतिपद्यन्ते / (से) तस्य भविष्यदाचार्यस्य पार्श्व इति। अतिशयानामुपलब्धिः कथं भवतीत्याहसुत्तत्थे अइसेसा, सामायारीय विज्जजोगाऽऽई। विज्जाजोगाइसुए, विसंति दुविहा अओ होति।। इहातिशयास्त्रिविधास्तद्यथा- सूत्रातिशयाः, सामाचार्यातिशयाः, विद्यायोगाः। आदिशब्दान्मन्त्राश्चेति त्रयोऽतिशयाः। तत्र विद्या स्वीदेवताऽधिष्ठिता, पूर्वसेवाऽऽदिप्रक्रियासाध्या वा, योगाः पादलेपप्रभृतयो गगनगमनाऽऽदिफलाः,मन्त्राः पुरुषदेवताः,पठितसिद्धा वा। यद्वा-विद्यायोगाः, चशब्दान्मन्त्राश्च श्रुते एवं विशन्ति अन्तर्भवन्ति, अतो द्विविधा अति