________________ दिसा 2527 - अभिधानराजेन्द्रः - भाग 4 दिसा त्तए 13 विसोहित्तए 14 अकरणयाए 15 अब्भुट्टित्तए अहारिहं पायच्छित्तं तवोकम्म पडिवजित्तए 16 / द्वे दिशौ काष्ठे अभिगृह्याऽङ्गीकृत्य, तदभिमुखीभुयेत्यर्थः / कल्प्यते युज्यते, निर्गता ग्रन्थाद्धनाऽऽदेरिति निर्ग्रन्थाः साधवः, तेषां निगेन्थ्यः साध्व्यः, तसा प्रव्राजयितु रजोहरणाऽऽदिदानेन प्राचीनां प्राची, पूर्वामिभ्यर्थः / उदीचीनामुदीचीमुत्तरामित्यर्थः / उक्तं च -"पुथ्योमुहो उ उत्तर-महो व्व देजाऽहवा पडिच्छेज्जा / जाए जिणादओ वा, हवेज जिणचेझ्याई वा॥१॥" इति। (एवमिति) यथा प्रव्राजनसूत्रं दिग्द्वयाभिलापेन अधीतम्, एवं मुण्डनाऽऽदिसूत्राण्यापि षोडशाऽध्येतव्यानीति ! तत्र मुण्डयितुं शिरोलुचनेन 1, शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुमासेवनशिक्षापेक्षया तु प्रत्युपेक्षणाऽऽदिशिक्षयितुमिति 2. उत्थापयितुं महाव्रतेषु व्यवस्थापितुम् 3, संभोजयितुं भोजनमण्डमल्या निवेशयितुम् 4, संवासयितुं संस्तारकमण्डल्यां निवेशयितुम् 5, सुष्ठ आ मर्यादयाऽीयत इति स्वाध्यायोगाऽऽदिस्तमुपदेष्ट योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति 6, समुद्देष्टु योगसमाचार्यव स्थिरपरिचितं कुर्विदमिति वक्तुमिति७, अनुज्ञातं तथैव सम्यगेतद्धारयाऽन्येषः च प्रवेदयेत्येवमभिधातुमिति 8. आलोचयितुं गुरवेऽपराधान् निवेदयितुमिति 6, प्रतिक्रामितु प्रतिक्रमणं कर्तुमिति 10. निन्दितुमतिचारान् रवसमक्षं जुगुप्सितुम् 11 / आह च-'"सचरित्तपत्थयावो / " निन्दति गर्हित गुरुसमक्षं तानेव जुगुप्सितुम 12 / आह च-''गरहा वि तहा जातीयमेव, नवरं परप्पयासणय त्ति।'' (विउद्वित्तए त्ति) व्यतिवतायितुं विबोटयितुं विकृट्टयितुंवा, अतिचारानुबन्धि विच्छेदयितुमित्यर्थः 13, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति 14, अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्थातुमभ्युपगन्तुमिति 15, यथार्हमतिचाराऽऽद्यपेक्षया यथोचित पापच्छेदकत्वात्, प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम् / उक्तं च-'पावं छिदइ जम्हा, पायच्छित्तं तु भन्नए तेण / पारण वा वि चित्तं, विसोहए तेण पच्छित्तं // 1 // " इति। तपःकर्म निर्विकृतिकाऽऽदिकं प्रतिपत्तुमभ्युपगन्तुमिति 16 / सप्तदशं सूत्रं साक्षादेवाऽऽह-- दो दिसाओ अभिगिज्झ कप्पइ णिग्गंथाणं वा णिग्गंथीणं वा अपच्छि ममारणं तिय संले हणाझू सणाझू सियाण भत्तपाणपडियाइक्खेत्ताणं पाओवगयाणं कालं अणवकंखमाणणं विहरित्तए। तं जहा-पाईणं चेव, उदीणं चेव। पश्चिमैवामङ्गलपरिहारार्थभपश्चिमा, सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणन्तिकी, सा चासौ संलिख्यतेऽनया शरीरककषायाऽऽदीति संलेखना तपोविशेषः, सा चेति अपश्चिममारणान्तिकसंलेखाना, तस्याः (झूसण ति) जोषणा सेवा, तया तल्लक्षणधर्मेणेत्यर्थः। (भूसियापति) सेवितानां, तद्युक्तानामित्यर्थः / तया वा झूषितानां क्षपिताना, क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा, तेषां, पादपक्दु पगतानामचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः, कालं मरणकालमनवकासिणां तत्रानुत्सुकानां विहर्तुं स्थातुमिति / / 17 / / स्था० 2 ला० 1 उ० / नि० चू०। तिसुभिर्दिग्त्यादि प्रवर्तते तओ दिसाओ पण्णत्ताओ / तं जहा-उड्डा, अहो तिरिया / (स्था०) एवं आगई वनंती आहारे वुड्डी णिवुड्डी गइपरियाए समुग्घाए कालसंजोगे दंसणाभिगमे णाणाभिगमे जीवभिगमे / तिहिं ठाणेहिं जीवाणं अजीवाभिगमे पण्णत्ते / तं जहा-उड्ढाए, अहोए, तिरियाए / एवं पंचिंदियतिरिक्खजोणियाणं / एवं मणुस्साण वि। दिडनिरूपणपूर्वक तासु गत्यादि निरूपयन "तओ दिसाओ'' इत्यादि सूत्राणि चतुर्दशानि, सुगमानिच, नवरं दिश्यते व्यपदिश्यते पूर्वाऽऽदितया वस्त्वनयेति दिक, सा च नामाऽऽदिभेदेन सप्तधा। आह च नियुक्तिकृत"मठवणा दविए, खेत्तदिसा तावखेत्त पण्णवए। सत्तमिया भावदिसा, सा होइटारसविहा उ॥४०॥"(आचा०नि०) तत्र द्रव्यस्य पुद्गलस्कन्धाऽऽदेर्दिग् द्रव्यदिकी, क्षेत्रास्याऽऽकाशस्य दिक् क्षेत्रदिक्। सा चैवम्"अट्ठपएसो रुगयो, तिरियं लोगस्स मज्झयारिम्मि। एस पभवो दिसाणं, एसेवभवे अणुदिसाणं॥४२॥" (आचा०नि०) तत्र पूर्वाऽऽद्या महादिशश्चतस्रोऽपि द्विप्रदेशाऽऽदिकाऽऽद्युत्तरा अनुदिशस्तु एकप्रदेशा अनुत्तरा ऊधिोदिशौ तु चतुराऽऽदि अनुत्तरे। यतोऽवाचि"दुपएसाऽदि दुरुत्तर, एगपएसा अणुत्तरा चेव। चउरो चउरो य दिसा, चउराइ अणुत्तरा दोन्नि।। 44 / / सगमुद्रिसठियाओ, महादिसाओ हवंति-चत्तारि। मुत्तावली य चउरो, दो चेव य हो ति रूयगनिभा।। 46 / / " नामानि चासाम्-"इदऽऽगेयी जम्भा, य नेरई वारुणी य वायव्वा / सोना ईसाणा विय, विमला य तमा य बोधव्वा।। 43 // " तापः सविता, तदुपलक्षिता क्षेत्रदिक्तापक्षेत्रदिक्, सा चाऽनियता। यत उक्तम्-"जेसि जत्तो सूरो, उदेइ तेसिं तई हवइ पुष्वा / तावक्खेत्तदिसाओ, पयाहिणं सेरायाओ सा॥४७॥" इति।(आचा०नि०) तथा प्रज्ञापकस्याऽचार्यादेर्दिक प्रज्ञापक-दिक् / सा चैवम्-'"पण्णवओ जो अभिमुहो, सा पुव्वा सेसिया पयाहिणओ। तस्सेवऽणुगंतव्वा, अग्गेयाई दिसा नियमा॥५१॥" भावदिक् चाष्टादशविधा"पुढवि-जल-जलण-वाया, मेलो खंधग्गपोरवीया य। विति चउपंचिंदय-तिरि-य-नारगा देवसंघाया॥१॥ संमुच्छिम-कम्माक--म्मभूगनरा तहऽतरद्दीवा।। भावदिसा दिस्सइ जं. संसारी निययमेहोहिं / / 2 / / " इति। इह च क्षेत्रतापप्रज्ञापकदिग्भिरेवाधिकारः, तत्र च तिर्यग्रहणेन पूर्वाऽऽद्याश्चतस्त्र एव दिशो गृह्यन्ते, विदिक्षु जीवानामनुश्रेणिगमितया वक्ष्यमाणगत्या गतिव्युत्कान्तीनामयुज्यमानत्वात्, शेषपदेषु च विदिशामविवक्षितत्वात् / यतोऽत्रैव वक्ष्यति-"तिहिं दिसाहि जीवाणं गई पवतइ।'' इत्यादि। तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तम् "निव्वाघाएण नियमा छरिसिं ति। " तत्र 'तिहिं दिसाहिति'' सप्तमी तृतीया पञ्चमी वा यथायोग व्याख्येयेति, गतिः प्रज्ञापकस्थानापेक्षयामृत्वाऽन्यत्र गमनमेवमिति पूर्वोक्तामिलापसूचनार्थः / आगतिः प्रज्ञापकप्रत्यासन्नस्थाने आगगनिमिति, व्युत्क्रान्तिरुत्पत्तिः आहारः प्रतीतः, वृद्धिः शरीरस्य वर्द्धन, हानिः शरीरस्यैव हानिः, गतिपर्याय श्चलनजीवत एव,समुद्धातो वेदनाऽ5--