________________ थविरकप्प 2386 - अभिधानराजेन्द्रः - भाग 4 थविरकप्प वटाश्वत्थाऽशोकवृक्षाऽऽदीनामासत्तौ जिनकल्पमभ्युपगच्छति, निजपदव्यवस्थापेतं सूरिम्, सबालवृद्धगच्छं, विशेषतः पूर्वविरुद्धाँश्च क्षमयति।। तद्यथा "जइ किंचि पमाएण, न सुट्ठु भे वट्टियं मए पुटियं / तंभे ! खामेमि अहं,निस्सलो निक्कसाओ य / / 1 / / आणंदमंसुपायं, कुणमाणा ते वि भूमिगयसीसा। खामति तं जहरिह, जहारिहं खामिया तेण ॥शा खामेंतस्स गुणा खलु, निस्सल्लयविणयदीवणा मगे। लाघविएगत्तं, अप्पडिबधो य जिणकप्पे // 3 // " निजपदस्थापितसूरिप्रभृतीनामनुशास्ति प्रयच्छति। तद्यथा"पालिज सगणमेयं, अप्पडिबद्धो य होज सव्वत्था एसो हु परंपरओ, तुमं पि अंते कुणासु एवं / / 1 / / पुव्वपउत्तं विणयं, मा हुपमाएहि विणयजोग्गेसु। जो जेण पगारेणं, उवजुज्जइ तं च जाणाहि / / 2 / / ओमो समराइणिओ, अप्पतरसुओ य मा ऍणं तुभे। परिमवह एस तुम्ह वि,विसेसओ संपर्य पुज्जो // 3 // " इत्यादिशिक्षां दत्त्वा गच्छाद्विनिर्गत चक्षुर्गोचराऽतीतेतस्मिन्ना-नन्दिताः साधवः प्रतिनिवर्तन्ते। उक्तंच"पक्खी व पत्तसहिओ, संमडगो वच्चए निरवइक्खो। धीरो घणवदाओ, नीहरिओ विजुपुंजो व्व / / 1 / / सीहम्मि व मंदरकं-दराउ गच्छा विणिग्गए तम्मि। चक्खुविसयमइगए. अइंति आणंदिया साहू॥ आभोएउं खेत्तं, निव्वाघाएण मासनिव्वाहिं। गंतूण तत्थ विहरे, साहू पडिवन्नजिणकप्पो॥३॥" एवं च प्रतिपन्नजिनकल्पोयत्र ग्रामे मासकल्पं, चतुर्मासकंवा करिष्यति, तत्र षड्भागान् कल्पयति। ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, भिक्षाचर्या ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति, चतुर्थपौरुषी यत्रावगाहते, तत्र नियमादवतिष्ठते / भक्त पानकं च पूर्वोक्तैषणाद्वयाभिग्रहेणालेपकृपदेव गृह्णाति। एषणाऽऽदिविषयं मुक्त्वा न केनाऽपि सार्द्ध जल्पति। एकस्यां च वसतौ यद्यप्युत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति, तथाऽपि परस्परं न भाषन्ते। उपसर्ग-परीषहान् सर्वानपि सहत एव, रोगेषु विचिकित्सां न कारयत्येव, तद्वेदनां तुसम्यगेव विषहते, आपातसंलोकाऽऽदिदोषरहित एव स्थण्डिले उचाराऽऽदीन करोति, नाऽस्थण्डिले, अममत्त अपरिकम्मा, णियमा जिणकप्पियाण वसहीओ एमेव यथेराण, मोत्तूण पमजण एक्कं // 1 // " इति वचनात्परिकर्मरहितायां वसतौ तिष्ठति, यद्युपविशति तदा नियमादुत्कु डुक एव, न तु निषद्यायाम, औप-ग्रहिकोपकरणस्यैवाभावादिति। मत्तकरिव्याघ्रसिंहाऽऽदिके च संमुखे समापतत्युन्मागंगमनाऽऽदिना ईर्यासमिति न भिनत्ति, इत्याद्यन्याऽपि जिनकल्पिकानां सामाचारी समयसमुद्रादवगन्तव्या / (ठिई चेव त्ति) तथा पूर्वोक्त द्विविधेऽपि विहारे स्थितिः श्रुतसंहननाऽऽदिका ज्ञातव्या / तथाहिजिनकल्पिकस्य तावजघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कर्षतरत्वसंपूर्णानि दशपूर्वाणि श्रुतं भवति। प्रथमसंहननो वज्रकुड्यसमानावष्टम्भश्चायं भवति / स्वरूपेण पश्चदशस्वपि कर्मभूमिषु, | संहृतस्त्यकर्मभूमिष्वपि भवति। उत्सर्पिण्यां व्रतस्थस्तृतीयचतुर्थारकयोरेव, जन्ममात्रेण तु द्वितीयारकेऽपि, अवसर्पिण्यांतुजन्मना तृतीयचतुर्थारकयोरेव, व्रतस्थस्तुपञ्चमारकेऽपि, संहरणेन तु सर्वस्मिन्नपि काले प्राप्यते / प्रतिपद्यमानकः सामायिकच्छेदोपस्थापनीयचारित्रयोः, पूर्वप्रतिपन्नस्तु सूक्ष्मसंपराययथाख्यातचारित्रयोरप्युपशमश्रेण्यामवाप्यते / प्रतिपद्यमानानामुत्कृष्टतः शतपृथक्त्वम्, पूर्वप्रतिपन्नानां तु सहस्रपृथक्त्वं जिनकल्पिकाना लभ्यते। जिनकल्पिकः प्रायोऽपवाद नासेवते, जवाबलपरिक्षीणस्त्वविहरमाणोऽप्याराधकः / आवश्यकीनैषधिकीमिथ्यादुष्कृतगृहिविषयपृच्छोपसंपल्लक्षणाः पञ्च सामाचार्योऽस्य भवन्ति, नत्यिच्छाऽऽदयः। अन्ये त्वाहुः-आवश्यकीनषेधिकीगृहस्थोपसंपल्लक्षणास्तिस्र एव भवन्ति, आरामाऽऽदिनिवासिन ओघतः पृच्छाऽऽदीनामप्यसंभवादिति / लोचं चाऽसौ नित्यमेव करोति, इत्येवमाद्यपराऽपि स्थितिर्जिनकल्पिकानामागमादवसेया / परिहारविशुद्धिककल्पसामाचार्यादिवक्तव्यताऽत्रैव ग्रन्थे पुरस्ताद्वक्ष्यते। यथालन्दिकानां तु- "तवेण सत्तेण सुत्तेण'' इत्यादिका भावनाऽऽदिवक्तव्यता यथा जिनकल्पिकानाम् / यस्तु विशेषः स लेशतः प्रोच्यते-तत्रोदकाः करो यावता शुष्यति, तत आरभ्योत्कृष्टतः पञ्चरात्रिन्दिवानि यावत्कालोऽत्र समयपरिभाषयालन्दमित्युच्यते। ततश्च पशरात्रिन्दिवलक्षणस्योत्कृष्टस्य लन्दस्याऽनतिक्रमेण चरन्तीति यथालन्दिकाः / पञ्चको हि गणोऽमुकं कल्पं प्रतिपद्यते। ग्रामं च गृहपडि क्तरूपाभिः षड् भिर्वी थीभिर्जिनकल्पिकवत्परिकल्पयन्ति, किं त्वेकैकस्यां वीथ्यां पञ्च पञ्च दिनानि पर्यटन्तीत्युत्कृष्टलन्दचारिणो यथालन्दिका उच्यन्ते। एतेच प्रतिपद्यमानका जघन्यतः पञ्चदश भवन्ति, उत्कृष्टतस्तुसहस्रपृथक्त्वम्। पूर्वप्रतिपन्नास्तुजघन्यतः कोटिपृथक्त्वम्, उत्कृष्टतोऽपि कोटिपृथक्त्वं भवन्ति ।एते च यथालन्दिको द्विविधा भवन्ति-गच्छे प्रतिबद्धाः, अप्रतिबद्धाश्च / गच्छे च प्रतिबन्धोऽमीषां कारणतः, किशिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यमिति / पुनरेकैकशी द्विधा-जिनकल्पिकाः, स्थविरकल्पिकाश्च / ये जिनकल्प प्रतिपत्स्यन्ते ते जिनकल्पिकाः, ये तु पुनरपि स्थविरकल्पं समाश्रयिष्यन्ते ते स्थविरकल्पिकाः / एतेषां च स्थविरकल्पिकजिनकल्पिकभेदभिन्नानां यथालन्दिकानां परस्परमयं विशेषः / यदाह'थेराणं नाणत्तं, अतरतं अप्पिणंति गच्छस्स। गच्छे निरवजेणं, करेंति सव्वं पिपडिकम्मं / / 1 / / एक्ककपडिग्गहगा, सप्पाउरणा हवंतिथेराउ। जेसिं उण जिणकप्पे, न य तेसिं वत्थपायाणि // 2 // निप्पडिकम्मसरीरा, अवि अच्छिमलं पि नेव अवणिंति। विसहति जिणा रोग, कारेंति कयाइ न तिगिच्छ // 3 // " इत्यलं विस्तरेण / तदर्थिना तुकल्पग्रन्थोऽन्वेषणीय इति (7) विशेष (संक्षेपत एष स्थविरकल्पः) (विस्तरतस्तु अहालंद' शब्दे प्रथमभागे 566 पृष्ठ प्रतिपादितः) (शेषाणि तु सर्वाण्यपि जिन-कल्पतुल्यवक्तव्यान्येवेत्युक्तं शुद्धिपरिहारनानात्वम्) (विहारद्वार विहार' शब्दे वक्ष्यते) (स्थापनाकल्पविधिः 'ठवणाकुल' शब्दे तृतीयभागे 1686 पृष्ठे गतः) यदि ज्ञानाऽऽदिपुष्टालम्बनं भवति तदा चिकित्साऽऽदिविधानान्न सहन्ते.इतरथा न सम्यगदीनमनसः सहन्त इतिदुविहं पि वेयणं ते, निकारणओ सहति भइया वा।