SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ 2370- अभिधानराजेन्द्रः - भाग 4 थंडिल थकारः थपुं०(थ) दन्तस्थानोऽयं स्पर्शसंज्ञको वर्णः। एका०। थुडङः / भयवारके, व्याधिभेदे, भयचिह्न, भक्षणे चा रक्षणे, मङ्गले, भये च / न०। वाचा "थः पुमानिन्दुकल्लोल-विरामेषु महीधरे (45) स्यादास्फालनशब्दे च, ज्वाले था तु स्त्रियां नदी / / थं नपुंसकलिङ्ग तु, भवेद्भयनिवारणे॥४६॥ त्रिलिड्ग्यांतुथकारोऽसौ, सितासितपृथुष्वपि।'' इति माधवः। एका०) "थो मिथ्यावाचके श्रान्ते, शोके थाऽऽरब्धवस्तुनि। निमने चातिगम्भीरे, थं स्तोकार्थे नपुंसकम् // 64 / / मरुदेशप्रदेशेऽपि, थाऽऽवन्तः स्थलयोषिति। देवकूटे कषाये स्वी, दृढे परिवृढेऽपिथा।॥६५॥ थुः पुंसि पर्वते द्रोणे, व्रणे थुर्निर्दले पुमान्। निष्ठीवने बले भूते, थीवन्तो भाजने भुवि / / 66 / / '' इति विश्वदेवशंभुमुनिः / एका०ा वाक्यालङ्कारे, ज्ञा०१ श्रु०८ अ०। पादपूरणे च। अव्य० / पञ्चा०११ विव० थउडु (देशी) भल्लातके,देना०५ वर्ग 26 गाथा। थंडिलन०(स्थण्डिल) परानुपरोधात्प्रासुके भूभागे, ग०२ अधिoा आव० अथ स्थण्डिलवक्तव्यता-तत्र गमनविधिरुच्चारप्रश्रवणव्युत्सर्जनं च। तत्रच स्थण्डिले वक्तव्ये येऽर्थाधिकारास्तानभिधित्सुद्वार-गाथामाहभेया सोवि अवाया, वजणया खलु तहा अणुण्णा य / कारणविही य जयणा, थंडिल्ले हों ति अहिगारा / / 421 / / प्रथमतो भेदाः स्थण्डिलस्य वक्तव्याः, तदनन्तरं स्थण्डिले व्युत्सृजतः शोधिः प्रायश्चित्तम्, ततोऽपायाः, तदनन्तरं वर्जनद्वारम्, ततः परमनुज्ञा, ततः कारणविधिः, तदनन्तरं यतना। एते वक्ष्यमाणाः स्थण्डिले अधिकाराः। तत्र प्रथमतो भेदद्वारप्रतिपादनार्थमाहअचित्तेण अचित्तं, मीसेण अचित्त छक्कमीसेणं। सचित्त छक्कएणं, अचित्त चउमंग एक्के के // 422|| अचित्ते स्थण्डिले पन्थानमधिकृत्य त्रयो भेदाः-अचित्तं स्थण्डिलमचित्तेनपथा गम्यते१। अचित्तं मिश्रण पथार, केन मिश्रेण? इत्यत आह-षट्कायमिश्रेण 2 / तथा-अचित्तं सचित्तेन पथा 3 / स पन्थाः सचित्तः कथम्? इत्याह-षट्केन षड्भिर्जीवनिकायैः 3 / एवमचित्ते स्थण्डिले त्रयो भेदाः / एवं मिश्रे३। सचित्ते च / एतेषामचित्तमिश्रसचित्तानामेकैकस्मिन् भने चतुर्भङ्गी। तामेवोपदर्शयतिअणवायमसंलोए, अणवाए चेव होति संलोए। आवायमसंलोए, आवाए चेव संलोए।।४२३।। अनापातमसंलोकमिति प्रथमो भङ्गः / अनापात संलोकयदिति द्वितीयः / आपातवदसलोकमिति तृतीयः। आपातवत् संलोकवदिति चतुर्थः / गाथायां मत्वर्थीयप्रत्ययस्य लोपः प्राकृतत्वाद, अभ्राऽऽदित्वाद्वा अकारप्रत्ययः / अमीषां चतुर्णा भड़ानां प्रथमो भङ्गोऽनुज्ञातः। शेषाः प्रतिक्रुष्टाः / निर्ग्रन्थीनां तृतीयोऽनुज्ञातः। चतुर्थ स्थण्डिलं व्याख्यानयतितत्थाऽऽवायं दुविहं, सपक्ख-परपक्खतो उणायव्वं / दुविहं होइ सपक्खे, संजय तह संजतीणं च / / 424|| संविग्गमसंविग्गा, संविग्गमणुण्ण-एतरा चेव। असंविग्गा वि य दुविहा, तप्पक्खिऍ एयरा चेव // 425 / / तत्राऽऽपातवत्सलोकवतोर्मध्ये आपातमापातवद् द्विविधं ज्ञातव्यम्। तद्यथा-स्वपक्षतः, परपक्षतश्च, स्वपक्षाऽऽपातयत्, परपक्षाऽऽपातवच्चेत्यर्थः / तत्र स्वपक्षे स्वपक्षविषये द्विविधमापातवत्। तद्यथा-संयताना, संयतीनां च–संयताऽऽपातवत्-संयत्यापातश्चेति भावः / संयता अपि द्विविधाः-संविनाः-उद्यतविहारिणः असंविनाः-शिथिलाः पार्श्वस्थाऽऽदयः। संविग्ना अप द्विविधाः-मनोज्ञाः सांभोगिकाः, इतरे अमनोज्ञा असांभोगिकाः / असंविना अपि द्विविधाः-तत्पाक्षिकाः संविग्नपाक्षिकाः, इतरे असंविग्नपाक्षिकाः। उक्तं स्वपक्षाऽऽपातवत्॥४२५।। सम्प्रति परपक्षाऽऽपातवत्प्राऽऽहपरपक्खे वि य दुविहं, माणुस तेरिच्छगं च नायव्वं / एक्कक्कं पि य तिविहं, पुरिसित्थिनपुंसगं चेव / / 426|| परपक्षेऽपि-परपक्षविषयेऽप्यापातवद् द्विविधं ज्ञातव्यम्-मानुष्यं तैरश्व च--मनुष्याऽऽपातवत्, तिर्यगापातवचेत्यर्थः / एकैकमपि मानुषं, तैरवंच त्रिविधम् / तद्यथा-पुरुषवत् , स्त्रीवत्, नपुंसक-वच। पुरिसाऽऽवातं तिविधं, दंडिऍ कोडुं विए य पागतिए। ते सोयऽसोयवाई, एमेव णपुंसइत्थीसु / / 427 / / पुरुषाऽऽपातवत् त्रिविधम्। तद्यथा-दण्डिके, कौटुम्बिके, प्राकृते चदण्डिकपुरुषाऽऽपातवत्, कौटुम्बिकपुरुषाऽऽपातवत्, प्राकृतपुरुषाऽऽपातवचेत्यर्थः दण्डिकाः-राजकुलानुगताः, कौटुम्यिकाःशेषा महर्द्धिकाः, इतरे प्राकृताः। ते च त्रयोऽपि प्रत्येक द्विधाशौचवादिनः, अशौचवादिनश्च / एवमेव अनेनैव प्रकारेण नपुंसक-स्त्रियोरपि वक्तव्यम्। किमुक्तं भवति? नपुंसकाऽऽपातवच प्रत्येक प्रथमतो दण्डिकाऽऽदिभेदतस्त्रिविधं, ततः शौचवाद्यशौचवादिभेदतः पुनरेकैक द्विविधम् / उक्तं मनुष्याऽऽपातवत्। अधुना तिर्यगापातवदाहदित्तमदित्ता तिरिया, जहण्णमुक्कोसमज्झिमा तिविहा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy