________________ गणधर 817- अभिधानराजेन्द्रः - भाग 3 गणधर यत्काररणं योन्निमित्तं निश्रमणं यत्तदोर्नित्याभिसंबन्धात् तद्, एतेषां गणधराणामानुपूर्व्या परिपाट्या वक्ष्ये, तथा तीर्थ सूधात् पञ्चमाद् गणधराद् जातं यतो निरपत्याः शिष्यरहिताः शेषा इन्द्र भूत्यादयो गणधराः। तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्या, यो यस्य संशयस्तदुपदर्शनार्थमाहजीवे कम्मे तज्जी-व भूय तारिसय बंध मुक्खे य / देवा नेरइया वा, पुग्ने परलोय निवाणे / / आधस्य गणभृतो जीवे संशय:-किमस्ति? नास्तीति / द्वितीयस्य कर्मणि / यथा-ज्ञानावरणीयादिलक्षणं कर्मास्ति? किं वा नास्तीति / तुतीयस्य (तज्जीवेति) किं तदेव शरीरं, स एव जीवः? किं वाऽन्य इति, न पुनर्जीवसत्तायां तस्य संशय: / चतुर्थस्य भूतेषु संशय:- किं पृथिव्यादीनि भूतानि सन्ति? किं वा नेति! पञ्चमस्य(तारिसय त्ति) किं यो यादृश इह भवे सोऽन्यस्मिन्नपि तावत्तादृश एव? उतान्यथाऽपीति संशयः। षष्ठस्य बन्धो मोक्षश्च तस्मिन् संशयः। यथा-बन्धमोक्षौ स्तः, किं वा नेति? आह-कर्मसंशयादस्य को विशेषः? उच्यते-स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति सप्तमस्य किं देवाः सन्ति? किं वा न सन्तीति संशयः / अष्टमस्य नारका: संशयगोचरा:-किं ते सन्ति? न सन्तीति? नवमस्य पुण्यसंशयः कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्तं प्रकुष्टसुखहेतुस्तदेव चाऽपचीयमानमत्यन्तस्वल्पावस्थंदुःखस्य, उततदतिरिक्तं पापमस्ति? आहोस्विदेकमेवोभयरूपम्, उत स्वतन्त्रमुभयमिति / दशमस्य परलोके संशय:, सत्यप्याऽऽत्मनि परलोको भवान्तरलक्षण: किमस्ति? किं वा नास्तीति? एकादशस्य निर्वाणे संशय:-निर्वाणं किमस्ति, किं वा नेति? आह-बन्धमोक्षसंशयादस्य को विशेष:? उच्यते-स हिउभयगोचरः, अयं तु केवलविभागविषय एव / तथा किं संसाराभावमात्र एव मोक्ष:? किं वा अन्य:? इत्यादि। साम्प्रतंगणधरपरिवारप्रदर्शनार्थमाहपंचण्हं पंचसया, अद्भुवसया य होंति दोण्ह गणा। दोण्हं तु जुयलगाणं, तिसयो तिसयो हवइ गच्छो / पञ्चानामाद्यानां गणधराणां प्रत्येकं प्रत्येकं परिवारः पञ्चशतानि, तथा अर्द्ध चतुर्थस्य येषु तानि अर्द्धचतुर्थानि अर्द्धचतुर्थानि शतानि मान ययोस्तौ अर्द्धचतुर्थशतौ भवति द्वयोः प्रत्येकं गणौ। इह गणः समुदाय एवोच्यते, न पुनरागमिकः / तथा द्वयोगणधरयुगलकयोः प्रत्येक त्रिशतस्त्रिशतो गच्छः / किमुक्तं भवति? उपरितनानां चतुर्णा यणभृतां प्रत्येकं त्रिशतमान परिवार : / आ०म०द्वि० आव०। कल्प। (गणधरसंशयाऽपनयनवक्तव्यता तत्तत्संशयविषयवाचक श्ब्देषुद्रष्टव्या) क्षेत्रदिद्वाराणिसाम्प्रतमेतेषामेव वक्तव्यताऽशेषप्रतिपादनार्थे द्वारगाथामाहखेत्ते काले जम्मे, गोत्तमगारछउमत्थपरियाए। केवलि य आउ आगम,परिनिव्वाणे तवे चेव / / 2025 / / अत्र एकारान्ता: शब्दा:प्राकृतत्वात् प्रथमाद्वितीयान्ता द्रष्टव्याः / ततोऽमर्थ:गणधरानधिकुत्य क्षेत्रं जनपदग्रामनगरादि वक्तव्यं, | जन्मभूमिर्वाच्येत्यर्थः / तथा कालो नक्षत्रचन्द्रयोगोपलक्षितो वाच्यः / तथा जन्म वक्तव्यं, जन्म च मातापित्रायत्तमित्यतो मातापितरौ वाच्यौ तथा गोत्रं यद् यस्य तद्वाच्यम् / "अगारछउमत्थपरियाए'' इति / पर्यायशब्दः प्रत्येकमभिसंबध्यते, अगारपर्यायो गृहस्थ पर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति। तथा केवलिपर्यायो वाच्यः, आयु सर्वायुष्कं वाच्यं, तथा आगमोवाच्यः कस्य क आगम आसीदिति। तथापरिनिर्वाणं वाच्यम्, कस्य भगवति जीवति परिनिर्वाणमासीत् कस्य वा भगवति परिनिर्वृते इति / तथा तपो वक्तव्यम्-यथा किंकेनापयर्ग गच्छता तप आचरितमिति। च शब्दात्संहननादि च वक्तव्य मिति गाथासमुदायार्थः। इदानीमवयवार्थः प्रतिपाद्यते, तत्राद्यद्वारावयवार्थाभिधित्सया प्राहमगहा गोव्वरगामे, जाया तिन्नेव गोयमसगोत्ता। काल्लागसग्निवेसे, जाओ वियतो सुहम्मो य॥६६।। भगधेषु जनपदेषु गोवरग्रामे जातास्त्रय एवाद्या गणधरा: / कथमेते त्रयोऽपीत्यत आह-गौतमसगोत्राः,समानं गोत्रं येषां 'सगोत्रा: गौतमेन गोत्रेण सगोत्रा: गौतमसगोत्रा:, गौतमाभिधगोत्रयुक्ता इत्यर्थः / तथा कोल्लाकसन्निवेसे जातो व्यक्तः सुधर्मस्तु। मोरियसन्निवेसे, दो मायरो मंडिमोरिया जाया। अयलो य कोसलाए, मिहिलाएं अकंपितो जातो // 67 / / मौर्यसन्निवेशे द्वौर्भातरौ मण्डिकमौर्यो जातौ, अचलश्च कोशलायां, मिथिलायामकम्पितो जात इति। तुगियसन्निवेसे, मेयज्जो वच्छभूमिए जातो। भयवं पिच प्पभासे, रायगिहे गणहरो जाओ॥६८|| तुङ्गिकसन्निवेशे वत्सभूमी, कौशाम्बीविषये इत्यर्थः; मेतार्यो जातः / भगवानपि च प्रभासे राजगृहे गणधरो जातः। सम्प्रतिकालद्वाराऽवयवार्थप्रतिपाद्य: / कालश्च नक्षत्रचन्द्रयो गोपलक्षित इतियद्यस्य गणभृतोनक्षत्रंतदभिधित्सुराह जेट्ठा कत्तिय साई, सवणो हत्थुत्तरा मघाओ य। रोहिणि उत्तरसाढा,मिगसिर तह अस्सिणी पुस्सो // 66 // इन्द्रभूतेर्जन्मनक्षत्र ज्येष्ठा, अग्निभूतेः कृत्तिका, वायुभूतेः स्वाति:, व्यक्तस्य श्रवणः, सुधर्मस्य हस्त उत्तरो यासां ता हस्तोत्तराः, उत्तरफल्गुन्य इत्यर्थः / मण्डिकस्य मघा, मौर्यस्य रोहिणी, अकम्पितस्य उत्तराषाढा:, अचलभ्रातुर्मगशिरा:, मेतार्यस्य अश्विनी, प्रभासस्य पुष्यः / अधुना जन्मद्वारं प्रतिपाद्यं, जन्मचमातापित्रायत्तमिति गणभृतां मातापितरावेव प्रतिपादयतिवसुभूई धणमित्ते, धम्मिल धणदेव मोरिए चेव / देवे य वसू दत्ते, वलेय पियरो गणहराणं // 70|| आद्यानांत्रयाणांगणभृतां पिता वसुभूति:, व्यक्तस्य धनमित्र:, सुधर्मस्य धम्मिल:, मण्डिकस्य धनदेव:, मौर्यस्य मौयैः, अङ्कपितस्य देवः, अचलभ्रातुर्वसुः, मेतार्यस्तु दत्तः, प्रभासस्य बलः, एवं पितरो गणधाराणां भवन्ति / पुढवि वारुणि भद्दिला, य विजयदेवा तहा जयंतीय।