________________ गणधर 816- अभिधानराजेन्द्रः - भाग 3 गणधर तस्तीर्थकृतां यथाकृम गणधराणां मूलसूत्रकर्तृणां प्रमाणम् / प्रव०१५ द्वार। आ०म०('मित्थयर' शब्देऽपि वक्ष्यते) पासस्स णं अरिहा पुरिसादाणीअस्स अट्ठ गणा अट्ट गणहरा होत्था / तं जहा-"सुभे य सुभघोसे य, वसिढे वंभयारिय। सोमे सिरीधरे चेव, वीरभद्दे जसेइ य"191 पार्श्वस्याहतस्वयोविंशतितमतीर्थकरस्य (पुरिसादाणी अस्स त्ति) पुरुषाणां मध्ये आदानीयआदेश: पुरुषादानीयः, तस्याष्टौ गणा: समानवाचनाक्रिया: साधुसमुदाया:, अष्टौ गणधरास्तन्नायका: सूरयः इदं चैतत्प्रमाणं स्थानाङ्गे, पyषणकल्पे च श्रूयते / केवलमावश्यकेऽन्यथा / तत्र युक्तम्-"दसनवगंगणाणमाणं जिणिंदाणं' ति। कोऽर्थः? पार्श्वस्य दशगणा:, गणधराश्च / तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुमन्तव्येति। स०८ समका वीरस्य समणस्सणं भगवओमहावीरस्स एक्कारसगणा एक्कारस गणहरा होत्था / तं जहा-इंदभूई अग्गिभूई वाउभूई विअत्ते सोहम्मे मंमिए मोरपुत्ते अकंपिए अयलभाए मेअज्जे पभासे / स०११ सम०। कल्पन अथैषां सर्वेषां वक्तव्यताउप्पन्नम्मि अणंते, नट्टम्मिय छाउमथिए नाणे। राईए संपत्तो, महसेणवणम्मि उजाणे॥ उत्पन्ने प्रादुर्भूत अनन्तज्ञेयविषये केवलज्ञाने, नष्टे च छाझस्थिके | मत्यादिरूपे ज्ञाने देशज्ञानव्यवच्छेदेन केवलज्ञानवद्भावात्।भावितं चैतत् प्रथमपीठिकायाम् / रात्रौ संप्राप्तो महसेनवने उद्याने, किमिति चेत्? उच्यते भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाश्चतुर्विधा अप्यागता आसन् अत्यद्भुतांच प्रहर्षवन्तो ज्ञानोत्पादमहिमां चक्रु तत्र भगवानबुध्यते, नात्र कश्चित् प्रव्रज्याप्रतिपत्ता विद्यते। तत एतद्विज्ञाय न विशिष्टधर्मकथनाय प्रवृत्तवान्, केवल कल्प एषयत्रज्ञानमुत्पद्यते, तत्रजघन्यतोऽपि मुहूर्तमात्रमवस्थातव्यम्, देवकृता च पूजा प्रतीच्छना, धर्मदेशना च कर्तव्येति संक्षेपतो धर्मदेशनां कृत्वा दशसुयोजनेषु मध्यमा नाम नगरी, तत्र सोमिलार्यों नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागताः, ते च चरमशरीरा भवान्तरोपार्जितगणधरलब्धयश्च, तान् विज्ञायासंख्येयाभिर्देवकोटिभिः परिवृतो देवोद्योतेन दिवस इवाशेष पन्थानमुद्द्योतयन् देवपरिकल्पितेषु सहस्रपत्रेषु नवनीतस्पर्शषु पद्धेषु चरणन्यासं विदधानो मध्यमनगर्या महसेनवनोद्यानं संप्राप्तः। अमरनररायमहितो, पत्तो वरधम्मचकचट्टित्तं / वीयम्मि समोसरणे, पावाए मज्झिमाए उ॥ अमरा देवाः, नरा मनुष्याः, तेषांराजन: तैर्महित: पूजितः, प्राप्तो धर्मवरचक्रवर्तित्वं धर्मवरप्रभुत्वम् / द्वितीयं पुन: समवसरणम् अपिशब्द:पुनरर्थ, पापायां मध्यमायां प्राप्त इत्यनुवर्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्याभ्यधिकता। तत्थ किर सोमिलज्जो, ति माहणो तस्स दिक्खकालम्मि। पउरा जणजाणवया, समागया जन्नवामम्मी।। तत्र पापायां मध्यमायां, किलशब्द: पूर्ववत् सोमिलार्थइति ब्राह्मणः, | तस्य दीक्षाकाले योगकाले पौरा विशिष्टनगरनिवासिलोकाः, जनाः सामान्यलोकाः,जानपदानानाजनपदभवा लेका: समागता यज्ञपाटे। अत्रान्तरेएगते य विवित्ते, उत्तरपासम्मि जन्नवाडस्स। तो देवदाणविंदा, करें ति महिमं जिणिंदस्स / / एकान्ते विविक्ते यज्ञपाटस्योत्तरपार्चे ततो देवदानवेन्द्रा जिनेन्द्रस्य महिमां कुर्वन्ति / पाठान्तरं वा "कासी महिमं जिणिंदस्स" कृतवन्त इत्यर्थः। अमुमेवार्थ सविशेष भाष्यकार आहभवणवई वाणमंतर, जोइसवासी विमाणवासीय। सव्विड्डीऍ सपरिसा, कासी नाणुप्पयामहिमं॥ भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सपर्षद: सर्वा ज्ञानोत्पत्तिमहिमामाषु कृतवन्तः ||आ०म०वि०। तत्र भगवतः समवसरणे निष्पन्ने सति अत्रान्तरे देवकृतजयशब्दसंमिश्रदिव्यदुन्दुभिशब्दा कर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमभ्यागतजनानां परिघोषोऽभवत्-अहो ! स्विष्टं यद्विग्रहवन्तः खल्वागता देवा इति तथा चाहतं दिव्वदेवघोसं, सोऊणं माणुसा तहिं तुट्ठा! अहाँ जण्णिएण इटुं, देवा किर आगया इह इ॥ तं दिव्यदेवघोषं श्रुत्वा मनुष्यास्तत्र यज्ञपाटके तुष्टाः, अहो विस्मय, यज्ञेन जयति लोकानिति याजिकः, तेन इष्टं यतो देवाः किल आगता अत्रेति / किलशब्दोऽसंशये एव, तेषामप्यत्रागमनात् तत्र यज्ञपाटके वेदाऽर्थविद एकादशापि गणधराऋत्विज: समन्वागताः / तथा चाहएक्कारस विगणहरा, सटवे उन्नयविसालकुलवंसा। पावाऐं मज्झिमाए, समोसढा जन्नवामम्मी।। एकादशापि गणधराः समवसृता यज्ञपाटे इति घोगः / किंभूताः? इत्याह-सर्वे निरवशेषा उन्नताः प्रधानजातित्वात् विशालाः पितामहपितृमितृव्याद्यनेकजनसमाकुलाः। कुलान्येव वंशा अन्वया येषां ते तथाविधाः, पापायां मध्यमायां समवसृता एकीभूता यज्ञपाटे। आह-किमाख्या:किनामानो वा ते गणधरा इति? उच्यतेपढमे उत्थ इंदभूई, वीए पुण होइ अग्गिभूइ त्ति / तइए य वाउभूई, ततो वियत्ते सुहम्मे य / / मंडियमोरियपुत्ते, अकंपिए चेव अयलभाया य। भेयजे य पभासे, गणधरा हो ति वीरस्स॥ प्रथमोऽत्र गणधरमध्ये इन्द्रभूतिर्द्वितीयः पुनर्भवति अग्निभूतिस्तृतीयो वायुभूतिः, चतुर्थो व्यक्तः, पञ्चम: सुधा स्वामी, षष्ठो मण्डिकपत्र: सप्तमो मौर्यपुत्रः, पुत्रशब्दः प्रत्येकमभिसंबध्यते, अष्टमोऽकम्पिक: नवमोऽचलभ्राता, दशमो मेताय्य:, एकादश: प्रभास: / एते गणधरा भवन्ति वीरस्य॥ जं कारणनिक्खमणं, वोच्छं एएसि आणुपुटवीए। तित्थं व सुहम्मातो, निरपचा गणहरा सेसा //