SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ किरिया 532- अभिधानराजेन्द्रः भाग-३ किरिया साध्यरुपक्रियाबोधकत्वम्। किञ्च-क्रमिकावयवानामेकदाऽसत्त्वेऽपि यत्किञ्चिदवयवसत्त्वकाले वर्तमानत्वव्यवहारः, अवयवावयविनोरभेदारोपात्। भूतभविष्यत्वव्यवहारस्तु सर्वेषाभवयवानां भूतभविष्यत्वयोरेव, नतु यत्किञ्चिक्रियाव्यक्तिभूतत्वादौ। उक्तञ्च वाक्यपदीये "गुणभूतैरवयवैः, समूहः क्रमजन्मनाम्। बुद्ध्या प्रकल्पिताऽभेदः, क्रियेति व्यपदिश्यते" / / 1 / / इति। अस्यार्थ:-क्रमिकतत्तदूव्यापार प्रति गुणभुतैर्गुणभावेन भासमानैरवयवैरुपलक्षितः बुद्ध्या प्रकल्पितोऽभेदो यस्मिन्तद्रूपः क्रमजन्मनां व्यापाराणां समूहः क्रियेति / अत्र क्षणनश्वराणां व्यापाराणां मेलनात्सिद्ध्या बुद्धयेत्युक्तम्। तथा च बुद्धिजन्यसंस्कारद्वारा तेषां मेलनसम्भव इति भावः। अत एव भाष्ये क्रिया हि नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्यते पिण्डीभूता निदर्शयितुमिति व्यापारसमुदायात्मिकायाः क्रियाया दर्शनायोग्यत्वोक्त्या तदवयवानां तद्विषयत्वं व्यातरकमुखेन दर्शितम् / तस्याश्चाभिन्नैकबुद्धिविषयतया एकत्वव्यवहार इत्यपि बोध्यम्। अथवाऽनेकव्यापारव्यतिवृत्तिर्जातिरेव क्रियेति सिद्धान्तकल्प आदरणीय : तस्याश्च व्याक्तद्वारैव साध्यत्वम्। अस्ति च पचित्वादिकं जातिः, पचतीत्याद्यनुगतव्यवहारात / तजातेश्चैक्यादेकत्वव्यवहार इति मन्तव्यम् / तदुक्तं वाक्यपदीये"जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम्।असाध्यां व्यक्तिरूपेण, सा साध्येत्यभिधीयते” इति। युक्तचैतत् / सर्वत्रैव लाघवाजातिशक्तिस्वीकारेण पच्यादिधातूनामपि तत्रैव शक्तिरुचितेति दिक् / सा च क्रिया धातुवाच्या फलन्यापारोभयरूपा, तद्विशिष्टरूपा वा / “फलव्यापारयोर्धातुः" इत्यग्रिवनचनात् व्यवस्थापयिष्यतेच मतभेदेनफ्लव्यापारयोः पृथक्शक्त्या विशिष्टशक्त्या वा धातुवाच्यता / अत्र फ लाशस्य कर्तुरुहेश्यत्वेऽपि प्राधान्याभावात् व्यापारस्यैव प्राधान्यं समुचितम्। तस्य च साध्यतया कर्मातिरिक्तसर्वकारकाणांतत्रैवस्वस्वव्यापारद्वारासाधकत्वेनान्वयः / कर्मणस्तु फल एव, क्रियाजन्यफलाश्रयतयैव तस्योद्देश्यत्वादिति विवेकः। उक्तं च वाक्यपदीये"प्राधान्यात्तु क्रिया पूर्व-मर्थस्य प्रविभज्यते। साध्यप्रयुक्ताङ्गानि,फलं तस्याः प्रयोजकमिति"। अर्थस्य फलस्य तदपेक्षयेत्यर्थः / प्राधान्यात् विशेष्यत्वात् साध्यं प्रयुक्तं यैः तानि साध्यसाधकानि अङ्गानि, कारकाणीत्यर्थः / अत्र फलस्य क्रियाप्रयोजकत्वाभिधानम्, तदुद्देशेनैव क्रियायां प्रवृत्तिरित्येवाभिसंघाय, तथा च सर्वो लोकः स्वाभीष्टफलमभिप्रेप्सुस्तत्साधनाय यतते,लभते च ततस्तत्तत्फमुपायसंसाधनेन / एवं च क्रियाफ लं विक्लित्यादिकमभीत्सुः पाकाय यतमानो जनः पाक संसाधनेन फलं लभते / ततश्च फल साधनतया पाकादेरपीष्टत्वात् साध्यत्वम् / फलविशिष्टिक्रियाया धात्वर्थत्वमतेतु विशिष्टत्वेनैवेष्टत्वात् विशिष्टस्यैव साध्यत्वमिति विशेषः / कारकान्वयस्त्वेतन्मते पूर्वोक्तदिशाऽसेयः; एकदेशान्वयस्वीकाराच न कर्मणोऽनन्वयमिति बोध्यम्। तथा चैवरीत्या साध्यत्वेन क्रिया जानता जनेन तस्याः प्राधान्यबुबोधयिषयैवाख्यातान्ततया धातुः प्रयुज्यते। अन्यथा कृदन्ततयेति, एनञ्च भावकृदन्तस्थले धातुना साध्यरूपक्रियाऽवबोधनेऽपि तस्याः प्रत्ययार्थसिद्धरूपक्रियाविशेषणत्वेन न प्राधान्यम्। भावप्रधानमाख्यात मित्यादिनिरुक्त वचनस्य, प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमिति न्यायस्यच परस्परं विरोधपरिहाराय न्यायस्य आख्यातातिरिक्तविषयत्व व्यवस्थापनम् / हरिणाऽपि धातुभावकतो : क्रियावचित्वाविशेषेऽपि धातुना साध्यत्वेन, कृता तु सिद्धत्वेन क्रियाया बोधनमिति व्यवस्थापितम्। यथा- “साध्यत्वेन क्रिया तत्र, धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः, स घादिनिबन्धनः" / / 1 / / इति "आख्यातशब्दे भागाभ्या, साध्यसधनवर्तिता। प्रकल्पिता यथा शास्त्रे, सधञादिष्वपि क्रमः" ||1|| इत्येताभ्या भागाभ्यां पश्च मृगो धावतीत्यादौ तिङन्ताभ्यां साध्यसाधनवर्तितेति। मृगो धावतीत्येतस्य साधनत्वम्, अपरस्य साध्यत्वम्, क्रियाकारकभावेन तयोरन्वयात् / घार्थक्रियायास्तु इतरक्रियायामेव साधनत्वमिति विवेकः। साध्यत्वञ्च लिङ्ग संख्याऽनन्वयित्वम्, तद्विपरीत सिद्धत्वम् / तथा च घनाद्युपस्थाप्यक्रिया याः लिङ्गसंख्यान्वयित्वेनापरक्रि यायां साधनत्वम्। युक्तञ्चैतत् / यत् घान्तादौद्विविधक्रियायां भानम्, कारकाणां साध्यक्रियायामेवान्वयोपगमात्। कृदन्तस्थले कारकविभक्तिप्रयोगस्य सार्वजनीनतया साध्यत्वेन तदुपस्थितावेव कारकान्वयोपपत्तिः / “साध्यस्य साधनाकाडेति" "नियतं साधने साध्यं, क्रिया नियतसाधनेति" "साध्यत्वेन निमित्तानि, क्रिया परमपेक्षते" इति चाभियुक्तोक्तेः / श्रत एव स्तोकं पाक इत्यादौ द्वितीयान्ततोपाते, साध्यक्रियाफस्य विशेषणेऽपि द्वितीयानुशासनात्। घनाधुपस्थाप्यक्रि याविशेषणस्य तु विशिष्य लिङ्गत्तया प्रथमाद्यन्तता, कृदभिहितो भावो द्रव्यवत् प्रकाशते" इति भाष्योक्तेः / कृदभिहितः कृता बोधितः, भावो भावना, धात्वर्थस्वरूपमिति यावत् द्रव्येण तुल्यं प्रकाशते द्रव्यधर्मान् लिङ्गसंख्याकार कत्वानि भजते इति यावत् / अत्र द्रव्यत्वं लिङ्गसंख्यान्वयित्वमेव योग्यत्वात्, न तु पृथिव्याद्यात्मकत्वं, ज्ञानपाकादौ तदभावात्। नापि “वस्तूपलक्षणं यत्र,सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थो , भेद्य त्वेन विवक्षितः" ||१|इति पारिभाषिकसर्वनाम-परामर्शयोग्यत्वादिरूपम, साध्यक्रियाया अपि तथात्वेनाविशेषापत्तेः, किन्तु सत्त्वप्रधानानि नामानीत्येकवाक्यतया सत्त्वद्रव्ययोः पर्यायत्वस्य बहुषु स्थलेषु दर्शनात् सत्त्वभूतत्वमेव द्रव्यत्वामितिफलितार्थ H / क्रिया न युज्यते इत्यादिना लिङ्गाद्ययोगस्यासत्त्वलक्षणत्वाभिधानात् तद्योगस्यैव सत्त्वलक्षणत्वौचित्यादिति तु तत्त्वम् / वैयाकग्णादिमते चल इत्यादौ क्रियायां शक्तिः। वाच०। देशाद्देशान्तरप्राप्तिहेतौ, सम्म०१ काण्ड / कर्मणि, प्रति नचैकस्य देशाद्दशान्तरप्राप्तिहेतुः क्रिया न केनचित् प्रमाणेनावसातुं शक्येति वक्तव्यम्, पूर्वपर्यायग्रहणपरिणामममुञ्चताऽध्यक्षेणोप्तरग्रहणातू,यथा स्तम्भादावधोभागग्रहणमत्यज्यत ऊ वादिभागग्रहणमा सम्म०१ काण्ड / द्रव्यसमवायिनि कर्माख्ये वैशेषिकसंमतेपदार्थे , सूत्र०१ श्रु० 12 अ० स्था०। परिस्पन्दे, सूत्र०१ श्रु०१२ अ० "णत्थि किरिया अकिरिया वा, णेवं सण्णं णिवेसए" क्रिया परिस्पन्दलक्षणा, तद्विपर्यस्ता त्वक्रिया। सूत्र०२ श्रु०१ अ०। करणे, कर्मनिबन्धनचेष्टायाम्, प्रज्ञा० 22 पद। आवा (2) तत्र नामस्थापने सुगमत्वादनाद्य द्रव्यादिका क्रि या प्रतिपादयितुमाहदव्वे किरिए अ एयण ,पयोगुवाय करणिज्ज समुदाणे। इरियावहसंमत्तो, सम्मते चैव मिच्छत्ते / / 156 // सूत्र०नि० (दव्वे इत्यादि) तत्र द्रव्ये द्रव्यविषये या क्रिया एजनता। 'एन' कम्पने, जीवस्याजीवस्य वा कम्पनरूपा चलनस्वभावा सा द्रव्य
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy