SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ किमिरागरत्त 531 - अभिधानराजेन्द्रः भाग-३ किरिया च रसः कृमिरागो भण्यते अनुत्तारीति, तत्र कृमीणां रागो रञ्जकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम् / स्था० 4 ठा०२ उ०। किमिरायं (देशी) लाक्षारते दे० ना०२ वर्ग। किमिरासि पुं० (कृमिराशि) अनन्तजीवे वनस्पतिभेदे, प्रज्ञा०१पद। किमु अव्य०(किमु) कै डिमुः / प्रश्ने, विशे०। आ० म० द्विता निषेधे, वितर्के, निन्दायां च / वाचा किम्मय त्रि० (किम्मय) किंविकारे, जी०३ प्रतिका किम्मिय न० (किम्मित) जाड्यतायाम्, सर्वशरीरावयवानामवशित्वे आचा०१ श्रु०६भ०१उ०। किया स्वी० (क्रिया) “ईश्रीहिकृत्स्नक्रियादिष्ट्यास्वित् / " 8/2 / 104 / इति इकारो भवति “करणे , व्यापारे, ""हअंनाणं कियाहीणं हया अन्नाणिणो क्रिया" प्रा०२ पाद। कियापर त्रि० (क्रियापर) चारित्रमोहनीयकर्मक्षयो पशमान्मुक्ति साधनानुष्ठानकरणपरायणे, पञ्चा० 3 विव०। किर अव्य० (किल) "किलाथवादिवासहनहेः किराहवइदिवे अहुंनाहिं" ||11/19 / इत्यएभ्रंशे किलस्य किरः। प्रा० 4 पाद / "किरेरहिरकिलार्थे वा" ||2 / 186 / इति प्राकृतेऽपि किलार्थे किरः। प्रा०२ पाद / देना०२ वर्ग: संभावनायाम, तं०। निश्चये, तं० संशये, आ० म० द्वि० / परोक्षाप्तागमवादसंसूचने, दश० 1 अ०। किरण पुं० (किरण) कीर्यते परितः कृ कर्म णिल्युः। वाच०। रविकिरणे, अभिनवादित्यकरे , औ०। रश्मी, क० प्र० को०। किरणावली स्त्री० (किरणावली) स्वनामख्यातायां पर्युषणाकल्पवृत्तौ, कल्प० १क्षण। किरमाण त्रि० (क्रियमाण) आवर्तमाने, “तह सावजं जोगं परस्य ठाए निट्ठियं किरमाणं" दश०७ अ०1 आचा०। किराय पुं० स्त्री० (किरात) किरमवस्कारादेनिःक्षेपस्थानं पर्यन्तमतति अत अण, उप, स० / “तप्तकुण्ड समारभ्य, रामक्षेत्रान्तिकं शिवे !! किरातदेशो विज्ञेयो, विन्ध्यशैले-तिष्ठिते।" इत्युक्तलक्षणे देशे, वाच. अनार्यदेशविशेषे, प्रव० 148 द्वार / सूत्र / तद्देशानां राजा अण् कैरातः, तद्देशनृपे, बहुषु अणोलुक् किराताः / जातौ स्त्रियांडीए / मत्स्यभेदे, पुं० / स्त्री०। चामरवाहिन्याम्, स्वी०। भूमिनिम्बे, पुं० / घोटकरक्षके, अल्पतनौ, त्रि०ावाच०। “किराते चः" ||8|1153 // इति किराते कस्य चो भवति / 'चिलाओ' पुलिन्द एवायं विधिः / कामरूपिणि तु नेष्यते "नमिमो हरकिराअं" प्रा०१ पाद।। किरितड न० पुं० (गिरितट) “चूलिकापैशाचिके तृतीयचतुर्थयोरायद्वितीयौ" ||4325 // इति चूलिकापैशाचिके तृतीयस्य प्रथमः। गिरितटं, किरितटं / पवर्तप्रान्ते, प्रा० 2 पाद। किरिया स्त्री० (क्रिया) भावे करणादौ वा यथायथं "कृञः श च"1३।३।१००। वाच०।" "ईश्रीहीकृत्स्नक्रियादिष्ट्यास्वित्" / / 2 / 10 / इति संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारः / प्रा०२ पाद / करणे, नि० चू०१ उ० / व्यापृतौ, स्था० 3 ठा०३ उ०। व्यापारः, कर्म,क्रियेत्यनर्थान्तरम्। विशे०। आव०आरम्भे, निष्कृतौ, शिक्षायाम, पूजायाम्, संप्रधारणे, विवादविचाराङ्गे साधने, सामाधुपाये, वाच० / करोतीत्यादिके आख्याते, प्रव०३ द्वार। (1) कियायाः स्वरूपनिरूपणम्। (2) क्रियाया निक्षेपः। (3) क्रियाया भेदनिरूपणम् / स्पृष्टास्पृष्टत्वादिना प्राणातिपातक्रियां निरूप्य क्रियायाः सक्रियत्वमक्रियत्वं प्राणातिपातक्रियायाः प्रकारस्य च निरूपणम्। (5) मृषावादादिकमाश्रित्य क्रियाकरणप्रकारः। (6) अष्टादश स्थानान्यधिकृत्य एकत्वपृथक्त्वाभ्यां कर्मबन्धत्वो पदर्शनम्। (7) ज्ञानावरणीयादि कर्म बध्नन् जीवः कतिभिः क्रियाभिः समापयतीति बहुत्वमाश्रित्यैतन्निरूपणम् / (8) चतुर्विंशतिदण्डकक्रमेणैतन्निरूपणम्। (6) मृगबधादावुद्यतस्य क्रि यां निरूप्य क्रियाजन्यं कर्म तद्वेदना चाधिकृत्य क्रियानिरूपणम्। (10) स्वामिभावतःक्रियां निरूप्य क्रि यान्तराणां विषयनिरूपणम् / (11) श्रमणोपासकस्य क्रियाः कथयित्वा अनायुक्ते गच्छतोऽन गारस्य क्रियाप्ररूपणम्। (12) सण्डासकेन तप्तलोहमुत्क्षिपतः क्रि याः। (13) वर्षाज्ञानार्थं हस्तादिप्रसारयतः क्रि यां निरूप्य तालमारुहा तत्फलं पातयतः क्रि यानिरूपणम्। (14) शरीराणि निवर्त्तयतः क्रियामुक्त्वा प्राणतिपातादिना क्रि य माणायाः क्रियाया निरूपणम्। (18) ज्ञानयुक्तेनापि क्रि या विधेयेति क्रि याऽष्टकम्। (1) क्रि यायाः स्वरूपनिरुपणम्क्रि या च भावना उत्पादयितुापाररूपा साध्यत्वेनाभिधीयमानेति बोध्यम् / “व्यापारो भावना सैवोत्पादना सैव च क्रि या" इति हर्युक्तः "यावत्सिद्धमसिद्ध वा, साध्यत्वेनाभिधीयते / आश्रितक्रमरूपत्वात्, सा क्रियेत्यभिधीयत" इति। “साध्यत्वेन क्रियातत्र, तिड्पदैरभिधीयते" इति वाक्यपदीयाच। (यावदिति) सर्वमित्यर्थः। तदेव विवृणोति(सिद्धमसिद्धं वेति) सिद्धं वर्तमानध्वंसप्रतियोगि, तद्भिन्नमसिद्धम् / तच्च वर्तमानं भविष्यचेति द्विविधम्: तेनापचत् पक्ष्यति पचतीत्यादौ सर्वत्र साध्यत्वेन असत्त्वरूपत्वेनाभिधीयमाना क्रियेति, क्रियाशब्दस्य रूढिरनेन दर्शितति भावः / यौगिकत्वमप्याह (आश्रितक्रमरूपत्वादिति) आश्रितः क्रमो रूपं यस्यास्तत्त्वात्. पूर्वापरीभूतावयवकत्वादित्यर्थ : / तदीयावयवानामधिश्रयणाद्यधः श्रयेणपर्यन्तानां क्र मेणोत्पत्तेः क्रियापदेन तत्समुदायोऽभिधीयते। यत्र च न क्रमिको व्यापारोऽस्तितत्र रूढिरादरणीयेति पौर्वापारपेण वा सर्वत्र फलस्य स्वजनकव्यापारगतपौर्वापर्यारोपवत् यौगिकत्वम् / अत एव फलमात्रबोधकस्यापि क्वचित् धातुत्वसिद्धिरिति फलितार्थः। इयांस्तु विशेष : पाक इत्यादौ धातुना साध्यत्वेनोपस्थाप्यायाः क्रियायाः सिद्धक्रि यारूपे घार्थे विशेषणत्वम्, पचतीत्यादौ तु नैवमिति / अत एव-"साध्यत्वेन क्रिया तत्र, तिड्पदैरभिधीयते” इति वाक्यपदीयकारिकाव्याख्यायां भूषणसारदर्पणे तिड्पदैरित्येतत् तद्गुणसंविज्ञानबहुवीहिणा तिङन्तपदैर्धातुभिरित्यभिहितम् / तेन सर्वत्र :
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy