________________ कसाय 365 - अभिधानराजेन्द्रः - भाग 3 कसाय कषशिषेत्यादि हिंसार्थो दण्डकधातुः कष्यन्ते बाध्यन्ते प्राणिनोऽनेनेति कषं कर्म भवो वा तदायो लाभ एषां यतस्ततः कषायाः क्रोधादयः। अथवा यथोकं कषमायधातोय॑न्तस्यापयन्ति गमयन्ति प्रापयन्ति यतस्ततः कषाया इति। अथवा आय उपादानहेतुः पूर्वोक्तस्य कषस्या उपादानं हेतवो यस्मात्ततः कषायाः विशे०। उत्त० कष्यतेऽस्मिनप्राणी पुनः पुनरावृत्तिभावमनुभवति कषोपलकष्यमाणकनकवदिति / कषः संसारः तस्मिन्ना समन्तादयन्ते गच्छन्त्येभिरसुमन्त इतिकषायाःयद्धा कषाया इव कषाया यथाहि तुबरिकादिकषायकलुषिते वाससि, मजिष्टादिरागः श्लिष्यति चिरं चावतिष्ठते तथैतत्कलुषिते आत्मनि कर्म संबध्यतेचिरं स्थितिकं च जायते तदायत्तत्वात्तत्स्थितेः / उक्तंहि शिवशर्मणा "जोगायपडिपएसं, ठितिअणुभागं कसायओ कुणईत्यादि" // 31 // उत्त०४अ०कर्मा आचा०ा दर्शा पं०चू००। धापं०सं०। उत्त वा०। मोहनीयकर्मपुद्गलोदयसम्पाद्य जीवपरिणामेषु क्रोधमानमायालोभेषु, स्था०१ ठा० विशे० तेषां कसायाणां सामान्येन येन यस्मानामादिकोऽष्ट विधत्वनियमो ऽयमन्यत्र प्रसिद्धस्तेनासौ उच्यत इति शेषः क इत्याह। नामं ठवणा दविए, उप्पत्ती पचए य आएसे। रसभावे कसाए वि य, परूवणा तेसि मा होइ। अत्र नामस्थापने क्षुण्णे द्रव्यकषायविचारोऽपि सुकरोनवरंज्ञभव्यशरीरव्यतिरिक्तद्रव्यकषायमाहदुविहो दव्वकसाओ, कम्मदव्वे य नो य कम्मम्मि। कम्मदव्वकसाओ, चउव्विहो पोग्गलाणुइया / / ज्ञभव्यशरीरव्यतिरिक्तो द्विविधो द्रव्यकषायः कर्मद्रव्यकषायो नोकर्मद्रव्यकषायश्च / तत्र कर्मद्रव्यकषायो जोग्गा बद्धा बभंतगाये त्यादिना प्रागुक्ताः। अनुदिताश्चतुर्विधपुद्गला ज्ञातव्याः। नोकर्मद्रव्यकषायमुत्पत्तिकषायं चाह - सज्जकसायाईओ, नोकम्मदव्वउ कसाओ य। खेत्ताइसमुप्पत्ती, जत्तोपभवो कसायाण॥ नोकभद्रव्यतोऽयं कषायः क इत्याह / सर्जकषायादिकः सर्जा बिभीतकहरीतक्यादयो वनस्पतिविशेषा नोकर्मद्रव्यकषाया इत्यर्थः / क्षेत्रादिकं वस्तु (समुप्पत्तित्ति)उत्पत्तिकषायः किं सर्व नेत्याह यतः क्षेत्रादेः कषायाणां प्रभवः / इदमुक्तं भवति। यतः क्षेत्रादिशब्दाव्यादेर्वा सकाशात्कषायोत्पत्तिर्भवति तत्क्षेत्रद्रव्यादिकं वस्तु कषायोत्पत्तिहेतुत्वादुत्पत्तिकषाय उच्यते। भवति च द्रव्यादेः सकाशात्कषायोत्पत्तिः उक्तं च "किंपत्तो कद्वयर, मूढो खाणुगम्मि अप्फडिओ। खणुस्स तस्स रूसइ, न अप्पणो दुप्पओगस्स" ति। प्रत्ययकषायमाहहोइ कसायाणबंध-कारणं जं सपचयकसाउ। सद्दाइउत्ति केई ,न समुप्पत्तीए भिन्नो सो॥ कषायाणा यदन्तरङ्गमविरत्यास्रवादिकं बन्धकरणं सोऽन्तरङ्गकषायकारणरूपः प्रत्ययकषायो भवति / अन्ये तु के चिद्वहिरङ्ग एव शब्दरूपादिविषयग्रामः प्रत्ययकषायः इति व्याचक्षतेतचायुक्तं यत उत्पत्तिकषायान्नासौभिद्यते द्रव्यादेरिव तस्मादपि बहिरङ्गात्मकषायोत्पतरिति। आदेशकषायमाहआएसओ कसाओ, कइयवकयभिउमिभंगुरायारो। केई चित्ताइगउ-ढवणाणत्थं तसेसो य॥ योऽन्तरङ्गकषायमन्तरेणापि कुपितोऽयमित्त्यादिरूपेणादिश्यते स आदेशकषायः। स चेह कैतवकृतभृकुटिभङ्गुराकारो नटादिद्रष्टव्यः। केचित्तु तद्रूपधरश्चित्रादिगतो जीव आदेशकषाय इति व्याचक्षते तच्चायुक्तं स्थापनानन्तरत्वात्तस्येति। रसभावकषायावाहरसओ रसो कसाओ, कसायकम्मोदओ य भावम्मि। सो कोहाइ चउद्धा, नामाइचउट्विहेकेको / हरीतक्यादीनां यो रसः स रसतः कषायो रसकषायः / भावकषायस्तु मोहनीयकर्मोदयस्तजनितश्च कषायपरिणतः / स च क्रोधादि भेदाच्चतुर्की / क्रोधादिरपि प्रत्येकं नामादिभेदाच्चतुर्विध इति। अथ नामादिकषायाणां को नयः कमिच्छतीत्याहमावसद्दाइनया, अट्ठाविहमसुद्धनेममाईया। नाएसुप्पत्तीओ, सेसा जं पचयविगप्पा।। भावकषायमेव शुद्धत्वाच्छब्दतया इच्छन्ति नामादिकषायान् शेषास्तु ऋजुसूत्रवर्जा नैगमादिनयाः शुद्धा अशुद्धाश्च / तत्रा विशुद्धास्तथा अष्ट विधमपि नामादिकषायमिच्छन्ति ये तु विशुद्धास्तथा ऋजुसूत्रनयाश्चैतेऽसर्वेऽप्यादेशोत्पत्तिकषायौ नेच्छन्ति कुत इत्याह / (जं पञ्चयविगप्पत्ति) यद्यस्मादेतौ द्वावपि प्रत्ययकषायविकल्पी प्रत्ययकषायन्न भिद्यते तथा युत्पत्तिकषायः कषायोऽयोपत्तौ प्रत्यय इत्युक्तमेवा तथा आदेशकषायोऽपि कैतवकृतोऽन्यकषायोत्पत्तौ प्रत्ययो भवत्येवेति न तस्मात्तौ भिन्नाविति। अथ नामदिके द्रव्यक्रोधे ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यक्रोधमाहदुविहो दव्वक्कोहो, कम्मदव्वे य नोय कम्मम्मि। कम्मद्दव्वे कोहे, तज्जोग्गा पोग्गलाणुइया॥ नो कम्मदव्वकोहो, नो उ चम्मारनीलिकोहाई। जं कोहवेयणिज, समुइण्णं भावकोहो सो / / ज्ञभव्यशारीरव्यतिरिक्तो क्रोधो द्विधा कर्मा द्रव्यक्रोधो नोकर्मद्रव्यक्रोधश्च / तत्र योग्यादयोऽनुदिताश्चतुर्विधाः पुद्गलाः कर्मद्रव्यक्रोधः। नोकर्मद्रव्यक्रोधस्तु (कोहित्ति) प्राकृतशब्दमाश्रित्य चर्मकारः चर्मकीयो नीलक्रोधादिश्च ज्ञेयः। भावक्रोधमाह। यत्क्रोधवेदनीयं कर्म विपाकत : समुदीर्णमुदयमागतं तज्जनितश्च क्रोधपरिणामः स भावक्रोध इति / एवं मानादयोऽपि नामादिभेदाद्यथायोगं चतुर्विधा वाच्याः / अथवापृथगनन्तानुबन्धादिभेदात्सर्वेऽपि क्रोधादयश्चतुर्विधाः शेयाः इति दर्शयन्नाह - माणदओ वि एवं, नामाई चउव्विहा जोग्गं / नेयापिहप्पिया वा, सव्वे णंताणुवंधाई। गतार्था / तत्रानन्तानुबन्ध्यप्रत्याख्यानावरणाप्रत्याख्यानावरण संज्वलनरूपाणां क्रोधादीनां पश्चानुपूर्व्या प्रत्यैकं स्वरूपमाहजलरेणुभूमिपव्वय-राईसरिसो चउव्विहो कोहो। तिणिसिलयाकट्ठट्ठिय, सेलत्थं भोवमो माणो / /