________________ करण 365 - अभिधानराजेन्द्रः - भाग 3 करण सर्वेषामपि वस्तूनामनित्या इत्यतस्तेषां करणमपि संभवति / यदि नामपर्यायाणां करणं संभवति तर्हि द्रध्यस्य किमापातमित्याह पर्यायो येन द्रव्यादनन्योऽभिन्नस्तेन पर्यायस्य करणे द्रव्यस्यापिकरणं भवत्येवेति उपचारतो वा क्षेत्रस्य करणं भण्यते (जह लोए सालिकरणा इति) यथा लोके वक्तारो भवन्ति शालिक्षेत्रभिक्षुक्षेत्रं वा मया कृतमित्यादि। अथवा क्षेत्रस्य करणमिति षष्ठीतत्पुरुषो न क्रियते किंतु क्षेत्रे करणं क्षेत्रकरणं सप्तमीतत्पुरुष इति दर्शयन्नाह (खेत्ते वेत्यादि) अथवा यत्र क्षेत्रे करणं पुण्यादेस्तत्क्षेत्रकरणं यथा लोकोऽपि सिद्धमेतत्पुण्यमिदमुजय- | न्तशत्रुजयादिक्षेत्रं पुण्यकरणसंबन्धमात्रेण तत्र हि ये दानानशभादिकं कुर्वन्ति तेषां महत्पुण्यं भवतीत्यतः पुण्यस्यतत्र करणात्पुण्यक्षेत्रं तदिति, | विशे०। आ० म० द्वि० उत्ता पुनः क्षेत्रकरणम्ण विणा आगासेण, कीरइ जं किंचि खेत्तमागासं। वंजणपरियावण्णं, उच्छुकरणमादियं बहुहा / / उत्त०नि० आह नित्यत्वात् क्षेत्रकरणं न संगच्छते तत्कथं क्षेत्रकरणसंभव उच्यते न विनाकाशेन क्रियते न निर्वय॑ते यदिति यस्मात्किंचिदित्यल्पमपि ह्यणुकं स्कन्धाद्यतस्तप्राधान्यादद्रव्यकरणमपि क्षेत्रकरणमुच्यते इत्युपस्कारः ननु यथाकोशेन विना न किंचित्क्रियते तदाकाशकरणेनैवास्तु कथं क्षेत्रकरणतोच्यते क्षेत्रमिति क्षेत्रशब्दवाच्यमाकाशं तथा च पर्यायशब्दत्वादनयोरित्थमभिधानमदुष्टमेवेति भावः तच्च व्यञ्जनशब्दस्तस्य पर्यायोऽन्यथान्यथा च भवनं व्यञ्जनपर्यायः तमापन्नं प्राप्त व्यञ्जनपर्यायापन्नम् (उच्छुकरणमाइयत्ति) प्रक्र मान्मकारस्य चागमिकत्वादिक्षु क्षेत्रकरणादिकं बहुधा बहुप्रकारमेकत्वेऽपि क्षेत्रस्य इक्षुक्षेत्रादिकरणरूपेणाभिलापस्य बहुप्रकारत्वात्तथा च स संप्रदायः "बंजणपरियावत्तं नाम जं खेत्तंति अभिलप्पति तं जहा उच्छुखेत्तकरणं सालिखेत्तकरणं तिलखेत्तकरणं" तिलखेत्तकरणमेवमादि अथवा यस्मिन् क्षेत्रकरणं क्रियते वर्ण्यते वा तत् क्षेत्रकरणनिति गाथार्थः। उत्त०५ अ०) साम्प्रतं कालकरणभिधित्सयाऽऽह - कालो जो जावइओ, जं कीरइ जम्मि कालम्मि। ओहेण णामतो पुण, करणा एकारस हवंति॥ (कालो जो इत्यादि) कालस्याभिमुख्यं करणं न संभवतीत्यौपचारिक दर्शति कालो यो यावनिति / यः कश्चिद् घटिकादिको नलिकादिना व्यवच्छिद्य व्यवस्थाप्यते तद्यथा षष्ट्युदक पलमाना घटिका द्विर्घटिको मृहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि तत्कालकरणमिति। यद्वा यत्यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणमेतदोघतः (सूत्र०१ श्रु०१ अ०१ उ०) एतद्गाथाव्याख्यां प्रकारान्तरेणाह (कालोगाहा) कालो यः समयादिवत्परिमाणः यत्करणनिष्पत्यपेक्षाकारणत्वेन व्याप्रियते / किमुक्तं भवति यस्य भोजनादेविता घटिकाद्वयादिकालेन निष्पत्तिस्तस्य स एव कालकरणं तत्रैव तस्य साधकतम त्वेन विवक्षितत्वात् / यदि वा यत्करणं क्रियते निष्पाद्यते यस्मिन् श्वस्मिन् काले तस्य स एव कालः करणम् / कालकरणमत्राधिकरणसाधकत्वेन विवक्षितत्वात् करणशब्दस्य ओघोनेति नामादिविशेषानपेक्षमेतत्कालकरणं तथाच वृद्धाः "कालकरणं जं जं जावतिएण कालेण कीरति जम्मि वा" “कालमिति" इहापि कालस्याकृत्रिमत्वेन करणसंभवादित्थमुपन्यासः। नामतः पुनर्भवत्ये कादश करणानि कालविशेषरूपाणि चतर्यामप्रमाणानि / करणत्वं तेषां तत्र क्रियायाधकतमत्वादिति गाथार्थः उत्त०४ अ० अथ कालकरणं वाच्यं तत्र कालस्याप्यकृत्रिमत्वात्करणं नास्ति द्रव्यपर्यायत्त्वविवक्षया तस्य तदेवेद्वा इति दर्शयति। जं वत्तणाइरूवो, कालो दय्वस्स जेव पञ्जाओ। तो तेण तस्स तम्मि व, न विरूद्धं सव्वहा करणं / / यस्मात्प्रागुक्तस्वरूपो वर्तमानादिरूपः कालो द्रव्यस्यैव पर्यायः पर्यायश्च द्रव्यादभिन्नस्ततो यथा द्रव्यस्य तथा तस्यापिकरणं न विरुद्धम् / कथमित्याह। तेन कालेन तस्य वा तस्मिन्वेत्यादिभिः सर्वथा सर्वैरपि प्रकारैरिति। अथवा ज्योतिष्कमार्गप्रसिद्धमेवेह कालकरणं गृह्यत इति दर्शयति। अहवेह कालकरणं, बवाइ तोइसियगइविसेसेणं / सत्तविहं तत्थ चर-चउट्विहं थिरमहक्खायं / / अथवा ववबालवादिरूपं चन्द्रादित्यादिज्योतिषिकदेवगति-विशेषेण यति तदिह कालकरण गृह्यते। तत्र च ववादिरूपे कालकरणं सप्तविध चरम् अन्यथान्यतिथिषु भावाचतुर्विधं तु स्थिरमाख्यातं नियतास्वेव तिथिषु भावादिति। तत्रयत्सप्पविधं चरं तदाहववंच बालवचेव, कोलवं थीविलोयणं / गरादि वणियं चेव, विट्ठी हवइ सत्तमा।। __अस्य सप्तविधस्यापि चरस्य करणस्यानयनोपायमाहपक्खत्तिहउ दुगुणिया, दुरुवरहिया य सुक्कपक्खम्मि। सत्तहिए देवसियं, तं चिय रूपवाहियं रत्ति। कृष्णस्य शुक्लस्य वा प्रस्तुतपक्षस्य यास्तिथयोऽतिक्रान्तास्ता द्विगुणीक्रियन्ते ततश्चागतराशेः सप्तभिर्भागो हियते एवं च कृते यत्करणमागच्छतितत्प्रस्तुततिथौ कृष्णपक्षे दैवसिकं विज्ञेयम्। रूपाधिक तु तदेव रात्रौ यथा कृष्णदशम्यां द्विगुणितायां विंशतिर्भवति ततः सप्तभिभाग हृतेषम् शेषा भवन्तिा तथा चेदं षष्ठं वणिजाभिधानं दैवसिकं करणं लब्धं रूपे तत्र प्रक्षिप्ते रात्रिगतं विष्ट्यभिधानं सप्तमं करणं लभ्यते एवमन्यत्रापि कृष्णपक्षे द्रष्टव्यम्।शुक्लपक्षे विशेषमाह। (दुरूवरहिया य सुक्कपक्खम्मिमि) शुक्लपक्षे द्विगुणिततिथिराशेी पात्येते ततो देवसिकं करणमागच्छति सप्तभिच्च भागोन पूर्यते ततस्तदैवसिकंषष्ठं करणं लब्धं रूपे तु प्रक्षिप्ते सप्तमं विष्ट्यभिधानं रात्रिगतं करणं लभ्यते एवमन्यान्यपि शुक्लपक्षे भावनीयानि / इह च लोकप्रसिद्धकरणनयनोपायोऽन्योऽपि विद्यते। तद्यथा “तिहिदुगुणी य किर्हि ऊणीसत्तहिं हरण सेस करणमिति" युक्तः केवलमिह मासतिथयो द्विगुणियितव्या यदागच्छती तद्रात्रिगतकरणं रूपे तु पातिते दिवसगतं द्रष्टव्यमिति। अत्र चतुर्विधस्थिरकरणमाहसउणिचउप्पयनागं, किंयुग्धं करणं थिरचउहा। बहुलचउद्दसरत्तिं, सउणिं सेसं तियं कमसो। कृष्णचतुर्दशीरात्रौ सदावस्थितं शकुनिनामकं करणं भवति अमावस्याअमावस्यायां दिवसे चतुष्पदं रात्रौ नागं प्रतिपदि दिवा किंस्तुघ्नं शेषरजनीदिनयोर्यथोक्तोपायतश्चरकरणमवसेयमिति / विशे०॥