SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ कम्म 265 अभिधानराजेन्द्रः भाग 3 कम्म सासणमीसेसु धुवं,मीसं मिच्छाइनवसु भयणाए। आइदुगे अणनियमा, भइया मीसाइनवगम्मि ||1|| सास्वादनंच मिश्रं चः सास्वादनमिभंतयोः सास्वादनमिश्रयोः। बहुत्वं च प्राकृतवशात् यदाहुः प्रभुश्रीहेमचन्द्रसूरिपादाः द्विवचनस्य बहुवचनं यथा "हत्था पाया" इत्यादौ / सास्वादनगुणस्थाने सम्यग्मिथ्यादृष्टिगुणस्थाने चेत्यर्थः / ध्रुवमवश्यंभावेन मिश्रं सम्यग्मिथ्यादर्शनमोहनीय सदिति पूर्वोक्तगाथातो ममरुकमणिन्यायादिहापि संबध्यते / इदमत्र हृदयम् / सास्वादनो नियमादष्टविंशतिसत्कर्मव भवति मिश्रस्त्वष्टाविंशतिसत्कर्मा विसंयोजितसम्यक्त्वः सप्तविंशतिसत्कर्मा उदलितानन्तानुबन्धिचतुष्कश्चतुर्विंशतिसत्कर्मा वा तत एतेषु सत्तास्थानकेषु मिश्र सत्ताऽवश्यं लभ्यते षड्विशतिसत्कर्मा तु मिश्रो न संभवत्वेन मिश्रपुञ्जस्य सत्तोदयाभ्यां व्यतिरेकेण मिश्रगुणस्थानकाप्राप्तेरिति मिथ्यात्वादि नवसु सास्वादनसम्यग्मिथ्यात्वरहितेषु मिथ्यादृष्ट्याधुपशान्तमोह पर्यवसाननवगुणस्थानकेष्वित्यर्थः। भजनया विकल्पेन मिश्र स्यात्सत्तायामस्ति स्यान्नेति / कि मुक्तं भवति यो मिथ्यादृष्टिः षड्विशतिसत्कर्मा ये वाऽविरतिसम्यग्दृष्ट्यादयक उपशान्तमोहान्ताः क्षायिकसम्यग्दृष्टय स्तेषु मिश्रं सत्ताया नावाप्यते अन्यत्र प्राप्यत इति। तथा आद्यद्रिके प्रथमगुणस्थानकयुगले मिथ्यादृष्टिसास्वादनगुणस्थानकद्वय इत्यर्थः (अणत्ति) अनन्तानुबन्धिनः प्रथमकषायाः क्रोधमानमायालोभाख्या नियता अवश्यंभावेन सत्तायामवाप्यन्ते यतो मिथ्यादृष्टिसास्वानसम्यग्दृष्टी नियमेनानन्तानुबन्धिनो बध्नाति इति भावः। तथा भाज्या भक्तव्या विकल्पनीया मिश्रादिनवके सम्यग्मिथ्यादृष्टिप्रभृत्युपशान्तमोहपर्यवसाननवगुणस्थानकेष्वनन्तानुबन्धिनः सत्तामाश्रित्य भक्तव्या इत्यर्थः / इदमत्र भावना विसंयोजितानन्तानुबन्धिनश्चतुर्विंशतिसत्कर्मणः सम्यग्मिथ्यादृष्टः क्षीणसप्तकस्यैकविंशतिसत्कर्मणोऽनन्तानुबन्धिरहितचतुर्विंशति सत्कर्मणो वद्धविरतसम्यग्दृष्ट्यादेरनन्तानुबन्धिनः सत्तायां न सन्ति तदितरस्य तुसन्तीति / एतच शेषकर्मग्रन्थाभिप्रायेणोक्तम् / कर्मप्रकृत्यभिप्रायेण पुनः श्रीशिवशर्मसूरिपादा एवमाहुः। वीयतइएसु मीसं, नियट्ठाणनवगम्मि भइयव्वं / संयोजणा उनियमा, दुसु पंचसु हुंति भइयव्वा / / पूर्वार्द्ध सुगम चोत्तरार्द्धस्येयमक्षरगमनिका / संयोज-यत्यात्मनोऽनन्तकालमिति "रस्यादिभ्यः कर्तरी'' त्यनटि प्रत्यये संयोजना / अनन्तानुबन्धिकषायाः तुः पुनरर्थे नियमा न द्वयोमिथ्यादृष्टिसास्वादनयोः सत्तामाश्रित्य भवन्ति यत एतावस्यामनन्तानुबन्धिनौ बध्नीत इति पञ्चसु पुनर्गुणस्थानकेषु सम्यग्मिथ्यादृष्टिप्रभृतिष्वप्रमत्तसंयतपर्यन्तेषु सत्ता प्रतीत्य भक्तव्याः। यदि उदलितास्ततो न सन्ति इतरथातुसन्तीत्यर्थः / तदुपरितनेषु पुनरपूर्वकरणादिषु सर्वथैव तत्सत्ता नास्ति यदस्तदभिप्रायेण विसंयोजितानन्तानुबन्धिकषाय एवोपशमश्रेणिमपि प्रतिपद्यत इति। आहारसत्तगंवा, सव्वगुणे वितिगुणे विणा तित्थं / नोभयसंते मिच्छे, अंतमुहुत्त भवे तित्थे ||1|| आहारकसप्तकमाहारकशरीरा 1 हारकाङ्गोपाङ्गा हारकसंघातना 3 हारक बन्धा 4 हारकतैजसबन्धना 5 हारक कार्मणबन्धना हारकतैजसकार्मणबन्धनलक्षणं 7 वा विकल्पेन भजनया सर्वगुणेषु सर्वगुणस्थानकेषु मिथ्यादृष्टिप्रभृत्ययोगिकेवलपर्यवसानेषु। सूत्रे चैकवचनं प्राकृतत्वात्ततश्च सर्वगुणसथानकेषु विकल्पनया सत्तां प्रतीत्याहारकसप्तकं प्राप्यते / इदमत्र हृदयम् / योऽप्रमत्तसंयतादिः संयमप्रत्ययादाहारकसप्तकबन्धं समारोहति, यश्च कश्चिदविशुद्धाध्यवसायवशादुपरितनगुणस्थानकेभ्योऽधस्तनगुणस्थानकेषु प्रतिपतति स आहारकसप्तकं न बधात्येव तद्बन्धं विनैवोपरितनगुणस्थानकेष्वध्यारोहति तदधस्तनेषु सत्तायां नावप्यते इति तथा (विति गुणेविणा तित्थंति) कोलिक-नलकन्यायेन सर्वगुणेषु चेत्यत्रापि संबन्धनीयं सर्वगुणस्थानकेषु द्वितीयतृतीयगुणस्थाने विना सास्वानदनमिश्रगुणस्थानकरहितेषु द्वादशस्वित्यर्थः / वा विभाषया भजनया तीर्थकरनाम सत्तायां प्राप्यत इति / कश्चिच बद्धतीर्थकरनामकर्माऽप्यविशुद्धिवशात् मिथ्यात्वमपि गच्छति तदा स्वास्वादनमिश्ररहितेषु द्वादशगुणस्थानकेषु तीर्थकरनामकर्म सत्तायामवाप्यते तीर्थकरनामसत्ताको हि मिश्रसास्वादनभावन प्रतिपद्यते स्वभावदेवेति तद्वचनात्।यदुक्तं वृहत्कर्मस्तवभाष्ये "तित्थयरेण विहीणं, सीयालसयं तु संतए होइ / सासणयम्मि उ गुणे, संगमीसे य पयडीणं' / यः पुनर्विशुद्धसम्यक्त्वेऽपि सति तन्न बध्नाति तस्य सर्वगुणस्थानकेषु सत्वात् न लभते यतो ऽनतोः संयमसभ्यक्त्वलक्षणस्वप्रत्ययसद्भावेऽपि बन्धाभावान्नावश्यं सत्तासंभवः / यदुक्तं कर्मप्रकृतिसंग्रहण्याम् (आहारगतित्थयरा भज्जत्ति) आहारकसप्तकतीर्थकरनाम्री सत्ता प्रतिभाज्येति भावः / एवमाहारकसप्तके तीर्थकरनामनि च प्रत्येकं सत्तारूपेणावतिष्ठमाने मिथ्यादृष्टिरपि जन्तुर्भवतीति / निश्चितमुभयसत्तायामसौ भवति न वेति विनेयाशङ्कायामाह (नोभयं संते मिच्छेति) नो नैवोभयस्याहारकसप्तकतीर्थकरनामलक्षणद्विकस्य सत्वे सद्भावे सति (मिच्छेत्ति) मिथ्यादृष्टिर्भवेत् कोऽर्थः उभयसत्तायां मिथ्यात्वं न गच्छतीति भावः / तर्हि केवलतीर्थकरनामसत्तायां किन्यतं कालं मिथ्यादृष्टिर्भवतीत्याह। (अंतमुहत्तं भवे तित्थेत्ति) अन्तर्मुहूर्तमन्तर्मुहूर्तमात्रकालं भवेज्जायेत (मिच्छेति) इत्यस्यात्रापि संबन्धान्मिथ्यादृष्टिर्भवतीति व सतीत्याह (तित्थेत्ति) तीर्थकरनामकर्मणि सत्तायां वर्तमाने इति गम्यते। इदमुक्त भवति यो नरके बद्धायुष्को वेदकसम्यग्दृष्टिबद्धतीर्थकरनामकर्मा सस्तत्रोत्पित्सुरवश्यं सम्यक्त्वं परित्यजतिः उत्पत्तिसमनन्तरमन्तमुहूर्तादूर्ध्वमवश्यं सम्यक्त्वं प्रतिपद्यते तस्यायमुक्तप्रमाणः लो लभ्यते इति उक्तं सप्रतिपक्षं ध्रुवसत्ताकप्रकृतिद्वारम् / कर्म। (22) अधुना सप्रतिपक्षं सर्वदेशधातिप्रकृतिद्वारं प्रतिपादयन्नाह / केवलजुयलावरणा, पण निद्दा वारसाइमकसाया। मिच्छत्ति सव्वघाई,चउनाणतिदसणावरणा ||13|| संजलणनोकसाया, विग्धं इय देसघाइ य अघाई। पत्तेय तणुढाऊ, तसवीसागोयदुगवन्ना / / 14 / / केवलजुगलं केवलज्ञानकेवलदर्शनरूपं तस्यावरणे आच्छादके कर्मणी के वलजुगलावरणे के वलज्ञानावरणं केवलदर्शनावरण चेत्यर्थः / पञ्च निद्राः। निद्रा निद्रानिद्रा 2 प्रचला 3 प्रचला 4 स्त्यानर्द्धिरूपाः 5 द्वादशेति संख्या आदिमकषायाः संज्वलनापेक्षया प्रथमकषायाः क्रोधमानमायालोभनामैकैकशोऽनन्तानुबन्ध्य१प्रत्याख्यानावरणप्रत्याख्यानावरणलक्षणनामत्रयेण द्वा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy