________________ कम्म 264 अभिधानराजेन्द्रः भाग 3 ष्टरारभ्य क्षीणमोहं यावदुदयो व्यवच्छिन्नो वर्तते। अथ च न सततमसौ भवतीति मिथ्यात्वस्य तु नेदं लक्षणं यतस्तस्य यत्र प्रथमगुणस्थानके नाधाप्युदयव्यवच्छेदस्तत्र सततोदय एवन कादाचिल्क इति ध्रुवोदयतैव तस्येति। उक्तमधुवोदयप्रकृति-द्वारम् / कर्म। संप्रति ध्रुवसत्ताकाध्रुवसत्ताकप्रकृतिद्वारद्वयं निरूपयन्नाहतसवनवीससग-तेयकम्मधुवबंधिसेसवेयतिगं। आगिइतिगवेयणियं, दुजुयलसगउरलसासचका खगइतिरियदुगनीयं, धुवसत्तासम्ममीसमणुयदुगं। विउव्विक्कारजिणाउ, हारसगुचा अधुवसत्ता / / 9 / / इह लिंशतिशब्दस्य प्रत्येकं योगात्रसविंशतिश्च तत्र त्रसेनोपलक्षिता विंशतिस्वसविंशतिस्तथा हि त्रसबादरपर्याप्तकप्रत्येकस्थिरशुभसुभगसुस्वरादेययशः कीर्तिनामेति त्रसदशकम् / स्थावरसूक्ष्मापर्याप्तकसाधारणास्थिराशुभगदुर्भगदुःस्वरानादेयायशःकीर्तिनामेति स्थावरदशकमुभयमीलने त्रसविंशतिरियमुच्यते / वर्णविंशतिरियं कृष्णनीललोहितहरितसितवर्णभेदात्पञ्चवर्णाः / सुरभ्यसुरभिगन्धभेदेन द्वौ गन्धौ तिक्तकटु कषायाम्लमधुर भेदात्पञ्च रसाः / गुरुलघुमृदुखरशीतोष्णस्निग्धरूक्षस्पर्शभेदादष्टौ स्पर्शाः / सर्वमीलनेन वर्णविंशतिरित्युच्यते वर्णेनोपलक्षिता विंशतिरिति कृत्वा (सगतेयकम्मत्ति) तैजसकार्मणसप्तकं (कर्म) (धुवबंधिसेसत्ति) वर्णचतुष्कतैजसकार्मणस्योक्तत्वाच्छेषा एक चत्वारिंशत् ध्रुवबन्धिन्यः / तथा हि अगुरुलघुनिर्माणोपघातभयजुगुप्सामिथ्यात्वकषायषोमशकज्ञानावरणपञ्चकदर्शनावरणनवकान्तरायपञ्चकमिति। वेदत्रिकं स्त्रीपुन्नपुंसकलक्षणम् / (आगिइतिगत्ति) "तणुवंगागिइसंघयणजाइगइखगइइत्यादि" संज्ञा गाथोक्तमाकृतित्रिकं गृह्यते। तत आकृतयः संस्थानानि षट् संहननानि षट् जातयः पञ्चेत्येवमाकृतित्रिकशब्देन सप्तदश भेदा गृह्यन्ते वेदनीयं सातासातभेदात् द्विधा। द्वयोमुगलयोः समाहारो द्वियुगलं हास्यरत्यरतिशोकरूपं (सगउरलत्ति) औदारिकसप्तकम् औदारिकशरीरौ 1 दारिकोङ्गापाङ्गौ 2 दारिकसंघातनौ 3 दारिकबन्धनौ 4 दारिकतैजसबन्धनौदारिककार्मणबन्धनौ६ दारिकतैजसकार्मबन्धनरूपम् 7 (सासचउत्ति) उच्छवासचतुष्कमुच्छ्वासोद्योतातपपराघाताख्यम् (खगइतिरिदुगत्ति) द्विकशब्दस्य प्रत्येकं संबन्धात् खगतिद्विकं प्रशस्तविहायोगत्यप्रशस्तविहायोगतिलक्षणं तिर्यग्गतिद्विकं तिर्यग्गतितिर्यगानुपूर्वीरूपं (नीयत्ति) नीचैर्गोत्रमित्येतास्त्रिंशदुत्तरशतसंख्याः प्रकृतयो ध्रुवसत्ताका अभिधीयन्ते / ध्रुवसत्ताकत्वं चासां सम्यक्त्वलाभादर्वाक् सर्वजीवेषु सदैव सद्भावात्। अथानन्तानुबन्धिना कषायाणामुज्ज्वलनसंभवादधुवसत्ताकतैव युज्यते अतः कथं ध्रुवसतताकप्रकृतीनां त्रिंशदधिकशतसंख्या संगच्छते मैवं वाच्यो यतोऽवाप्तसम्यवत्त्वाद्युत्तरगुणानामेव जीवानामेतद् द्विसंयोगो न सर्वजीवानामध्रुवसत्ताकता वा न वाप्तोत्तरगुणजीवापेक्षयैव चिन्त्यते अतोऽनन्तानुबन्धिनां ध्रुवसत्ताकतैव / यदि वोत्तरगुणप्राप्त्यपेक्षया अधुवसत्ताकता कक्षीक्रियते तदा सर्वासामपि प्रकृतीनां स्यान्नानन्तानुबन्धिनामेव यतः सर्वा अपि प्रकृतयो यथास्थानमुत्तरगुणेषु सत्सु सत्ताव्यवच्छेदमनुभवन्त्येवेति! तथा (सम्मत्ति) सम्यक्त्वमिश्रं / मनुजद्विकं मनुजगतिमनुजानुपूर्वीरूपम् / (विउविकारत्ति) वैक्रियैकादशकं देवगति 1 देवानुपूर्वी 2 नरकगति 3 नरकानुपूर्वी 4 वैक्रियशरीर५ वैक्रियाङ्गोपाङ्ग 6 वैक्तियसंघातन वैक्रियवैक्रियबन्धन। वैक्रियतैजसबन्धन९वैक्रियकार्मणबन्धन 10 वैक्रियतैजसकार्मणबन्धनं 11 जिननामायुश्चतुष्कम् (हारसगत्ति) प्राकृतत्वादाकारलोपः आहारकसप्तकम्। आहारकशरीरा? हारकाङ्गोपाङ्गार हारससंघाता३ हारक बन्धना 4 हारकतैजसबन्धना 5 हारककार्मणबन्धना६ हारकतैजसकार्मणबन्धाख्यम् 7 उच्चैर्गोत्रमित्येता अष्टाविंशतिसंख्याः प्रकृतयो ध्रुवसत्ताका उच्यन्ते / अयमिह भावार्थः सम्यक्त्वं मिश्र या अभव्यानां प्रभूतभव्यानां च सत्तायां नास्ति केषांचिदस्तीति / तथा मनुष्यद्विकं वैक्रियैकादशकमित्येतास्त्रयोदश प्रकृतयस्तेजोवायुकायिकजीवमध्यगतस्योद्वर्तनाप्रयोगेण सत्तायां न लभ्यन्तेतत इतरस्य तु भवति। तथा वैक्रियैकादशकमर्सप्राप्तत्रसत्वस्य संबन्धाभावाद्विहितैतद्वन्धस्त स्थावरभावं गतस्य स्थितिक्षयेण वा सत्तायां न लभ्यते तदन्यस्य संभवत्यपि / तथा सम्यक्त्वहेतौ सत्यपि जिननाम कस्यचिद्भवति कस्यचिन्नेति। तथा देवनारकायुषी स्थावराणां तिर्यगायुष्कंत्वहमिन्द्राणां देवानां मनुजायुष्कत्वं पुनस्तेजोवायुसप्तमपृथिवीनारकाणां सर्वथैव तगन्धाभावा-त्सत्तायां न लभ्यते अन्येषां तु संभवत्यपि। तथा संयमे सत्यपि आहारकसप्तकं कस्यचिद्वन्धसद्भावे सत्तायां स्यात्तदभावे कस्यचिन्नेति / तथौचैर्गोत्रमसप्राप्तत्रसत्वस्य संबन्धाभावाद्विहितैतद्वन्धस्य स्थावरभावंगतस्य स्थितिक्षयेण वा सत्तायांन लभ्यते तेजोवायुकायिकजीवमध्यगतस्योद्वर्तनप्रयोगेण वा सत्तायां न लभ्यते इतरस्य तु भवतीत्यासामधुवसत्ताकता। उक्त ध्रुवसत्ताकाध्रुवसत्ताकप्रकृतिद्वाग्द्वयम्। कर्म। संप्रतिगुणस्थाकेषु कासांचित्प्रकृतीनां धूवाध्रुवसत्तां गाथात्रयेण निरूपयन्नाह। पढमतिगुणेसु मिच्छं, नियमा अजयाइअट्ठगे मजं / सासाणे खलु सम्म, संतं मिच्छाइदसगे वा||१|| प्रथमा आद्यास्त्रयस्त्रिसंख्या गुणा गुणस्थानकानि प्रथमत्रिगुणास्तेषु प्रथमत्रिगुणेषु मिथ्यात्वं मिथ्यात्वलक्षणा प्रकृतिर्नियमान्निश्चयेन सद्विद्यमानं सत्तायां प्राप्यत इत्यर्थः। अयताद्यष्टके अविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयताप्रमत्तसंयतापूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायोपशान्तमोहलक्षणेषु अष्टगुणस्थानेषु भाज्यं विकल्पनीयं कदाचिन् मिथ्यात्वं सत्तायामस्ति कदाचिन्नास्ति। तथा हि अविरतसम्यग्दृष्ट्यादिना क्षपिते नास्ति उपशमिते त्वस्ति सास्वादने खलु नियमेन (सम्मंति) सम्यक्त्वं सम्यग्दर्शनमोहनीयलक्षणा प्रकृतिः सद्विद्यमानं सर्वदैवलभ्यत इत्यर्थः / यत औपशमिक सम्यक्त्वाद्धायां जघन्यतः समयावशेषायामुत्कृष्टतः षडावलिकावशिष्टायां सास्वादनो लभ्यते / तत्र च नियमादष्टाविंशतिसत्कम वासाविति भावः / मिथ्यात्वादिदशके मिथ्यादृष्ट्यादिषु सास्वादनवर्जितोपशान्तमोह-पर्यवसानगुणस्थानकेषु दशसंख्येषु वा विकल्पेन भजनया सम्यक्त्वं सत्तायां स्याल्लभ्यते स्यान्न वेति / तथा हि मिथ्यादृष्टौ जीवेनादिषविशतिसत्कर्मण्यदलितसम्यक्त्वपुजे वामिश्रेऽप्युदलितसम्यग्दर्शने अविरतादौ चोपशान्तमोहन्ति क्षीणसप्तकेसम्यग्दर्शनमोहनीयं सत्तायांनप्राप्यतेअन्यत्र सर्वत्र लभ्यते इति /