SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ उद्देस 525 - अभिधानराजेन्द्रः - भाग 2 उद्देस होइ समासुद्देसो, जहंगमंगी तदन्भेजा।। एमेव सुयक्खंधो, जह तस्स तयट्ठविण्णाया। अज्झयणं अज्झयणी, तस्स भेया तयत्थण्णो॥ काल एवोद्दिश्यमानत्वादुद्देशकालः कालोद्देशः। तेन वा कालेनो-देशो यथा कालातीतं कालातिक्रान्तमिदं वस्त्विति / ततो वा कालादुद्देशः कालोद्देशो यथा कालोपेतं कालप्राप्तमिति / तस्मिन्वा काले जातं कालजातमित्यादिकः कालोद्देशः / अथ समासोद्देसं विवक्षुराह (संखेवेत्यादि) संक्षेपेणाविस्तरेण संकोचनं समास उच्यतेतत्कोऽयं चेह अङ्गादीनां त्रयाणां विवक्षितः एतदेव दर्शयति (अंगेत्यादि)अङ्गश्रुतस्कन्धोऽध्ययनमित्येष समासो भवति / / कुत इत्याह / निजनिजप्रभेदसंग्रहादिति / अस्याङ्गादिसमासस्योद्देशनमभिधानं समासोद्देशक इति दर्शयति। यथा अङ्गमिति तदेवो-द्दिश्यमानत्वादुद्देश इत्यर्थः / तेन वाङ्गरूपसभासेनोद्देशो यथाङ्गीति (तस्सतयटेत्ति) अङ्गात्मकसमानोद्देशो यथा तदध्येता अङ्गाध्येता इत्यादि / एवं श्रुतस्कन्धात्मकसमास एवोद्दिश्यमानत्वादुद्देशो यथा तदर्थविज्ञाता श्रुतस्कन्धार्थज्ञ इत्यादि। एवमध्ययनात्मकसमास एवोद्दिश्यते इत्युद्देशो यथाऽध्ययनमिति तेन वा उद्देशो यथाऽध्ययनीति। तस्माद्वा उद्देशो यथा तस्याध्ययनयस्याध्येता / तस्मिन्वा अध्ययने सति उद्देशो यथा तदर्थज्ञोऽध्ययनार्थविदित्यादि विवक्षया सर्व भावनीयमिति।। अथोद्देशोद्देशं भावोद्देशं चाह। उद्देसो उसिउद्दे-सणो तयत्थवेत्ता वा। उद्देसुद्देसो यं, भावो भाविति भावम्मि॥ उद्देशः पुलाकोद्देशकादिः स एवोद्दिश्यमानत्वादुद्देशोद्देशः / स चायं विज्ञेयः क इत्याह / पुलाकोद्देशकादिक उद्देशोऽप्युद्दिश्यमानत्वेनोद्देशोद्देश उच्यते। तेन वा उद्देशोऽभिधानं यथा उद्देशीति / तस्माद्वा उद्देशो यथा उद्देशज्ञः। तस्मिन्वा उद्देशो यथा तस्योद्देश-कस्यार्थवेत्ता इत्यादि (भावम्मित्ति) भावविषय उद्देशो भावोद्देशः / क इत्याह (भावोत्ति) औदयिको भाव उद्दिश्यतेऽभिधीयते इत्युद्देशो भावश्चासावुद्देशश्च भावोद्देश इत्यर्थः। तेन वा भावेनोद्देशो भावोद्देशो यथा भावीत्यादि पूर्वोक्तानुसारेण वाच्यमिति गाथानवकार्थः / / अथोद्देशव्याख्यानेन निर्देशमप्यतिदिशन्नाह। एवमेव स णिद्देसो, अट्ठविहो सो वि होइनायव्वो। अविसेसियमुद्देसो, विसेसिओ होइ णिद्देसो। एवमेव यथा उद्देश उक्तस्तथा निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः। सर्वथा साम्यप्रतिषेधार्थमाह / किं त्वविशेषितसामान्यनामस्थापनादिरूप उद्देशो विशेषितनामादिरूपस्तु स एव निर्देशो भवतीति विशेष इति नियुक्तिगाथार्थः / / 46 // भावार्थं तु भाष्यकारः प्राह / / नाम जिणदव्वाई,ठवणाविसिट्ठवत्थुनिक्खेवो। दव्वो गोमं दंडी, रहीति तिविहो सचित्ताइ / वस्तुनः पुरुषादेर्यत्पुरुषादिकं सामान्य नाम स नामोद्देश उक्तो यत्तु तस्यैव विशेषनामसंग्रह नाम निर्देश उच्यते यथा जिनदत्ता-- दिसामान्यस्य चेन्द्रादेर्वस्तुनः / स्थापना स्थापनोद्देश उक्तः इह तु विशिष्टस्य सौधादिपत्यादिवस्तुनो यः स्थापनारूपो निक्षेपः स स्थापनानिर्देशः / द्रव्यस्यापि त्रिविधस्य सचित्तादेर्विशिष्टस्य यो विशिष्टाभिधानरूपो निर्देशः तत्र सचित्तद्रव्यविशेषस्य निर्देशो यथा गौरित्यादि अचित्तस्य तु दण्ड इत्यादि मिश्रस्य तु रथ इत्यादि रथस्य चाश्वादियुक्तस्येह मिश्रता भावनीयेति / तेन वा सचित्तादिद्रव्यविशेषणनिर्देशो यथा गोमानित्यादि दण्डी रथीत्यादि। अथ क्षेत्रकालनिर्देशावाह / / खेत्ते भरहं तत्थ व, भवोत्ति मगहत्ति मागहीवत्ति। सरउत्तिसारउत्तिय, संवच्छरिउत्तिकालम्मि। क्षेत्रं क्षेत्रीत्यादिकः क्षेत्रोद्देश उक्तः / इह तु तदेव विशिष्ट क्षेत्रं क्षेत्र-निर्देर्शो यथा भरतमित्यादि। अथवा (मगहत्ति) मगधजनपद इत्यादि तस्मिन्वा क्षेत्रविशेषे भवः क्षेत्रमित्युच्यते यथा भारत इत्यादि एतच स्वयमेव दृष्टव्यम् / मगधेसु भवो मागध इत्यादि एतत्तु गाथायामप्यस्तीति काली कालोऽयमित्यादिकः कालोद्देश उक्तः। इह तुतस्यैव कालस्य विशिष्टस्य यो निर्देशो विशिष्टमभिधानं स कालनिर्देशो यथा शर इत्यादि / तत्र वा कालविशेषे भवः कालनिर्देशोऽभिधीयते यथा शरदि भवः शारदः / संवच्छरे भवः सांवच्छरिक इत्यादि। अथ समासनिर्देशमुद्देशं निर्देशं चाह।। आयारो आयारेव, आयारधरे ति वा समासम्मि। आवस्सय मावासयि, तु तत्थ धरोह वायत्ति / / सत्थए परिणाइयव, अब्भया यं समासनिद्देसा। उद्देसयनिद्देसो, सपएसो पोग्गलुद्देसो॥ विस्तरवतो वस्तुनः संक्षेपः समासस्तस्यसामान्याभिधानं समासोद्देशः उक्तः / इह तु तस्यैव समासस्य विशेषाभिधानः समासनिर्देशस्तत्र चाङ्ग श्रुतत्कन्धाध्ययनभेदात्त्रिविधः समासोदेशः पूर्वमुक्त इह तु तेषामेव त्रयाणामगादीनां विशेषाभिधानरूपस्त्रिविध एव समासनिर्देशस्तवा चाह (आयारेत्यादि) आचारप्ररूपणाङ्ग विशेषाभिधाननिर्देश्यमानत्वादाचार इति समासनिर्देशस्तेन वा आचारसमासेन निर्देशो यथा आचारवानित्यादि / तस्माद्वा आचारसमासान्निर्देशो यथा आचारधर इत्यादि / श्रुतस्कन्धसमासनिर्देशो यथा आवश्यकमिति / तेन वा आवश्यकसमासेन निर्देशो यथा आवश्यकीति। अथवा तस्मादावश्यकसमासन्निर्देशो यथा आवश्यकसूत्रार्थधरोऽयमिति / अध्ययनमाश्रित्य समासनिर्देशः क इत्याह। आचाराने प्रथममध्ययनं शस्त्रपरिज्ञा इत्यादि तेन वा शस्त्रपरिज्ञासमासविशेषेणनिर्देशो यथा (अज्झे-यायंति) शस्त्रपरिज्ञाध्येता अयमित्यर्थ इत्यादि समासनिर्देशः / उद्देशनिर्देशस्तूच्यते क इत्याह! (पएसो त्ति) अध्ययनस्य प्रदेर्शोऽश इत्यर्थः / यथा भगवत्यां पुद्गलोदेशकस्तस्य निर्देशोऽभिधानमुदेशनिर्देश इत्यादीनि / विशे० ! आ०ग०प्र० / आ०चू० / वाच्यामीति गुरुप्रतिज्ञारूपे, विशे०। इदमध्ययनादित्वया पठितव्यमिति गुरुवचनविशेषे,। तद्विधिश्चैवम्॥ तत्राचाराद्यङ्गस्य उत्तराध्ययनादिकालिक श्रुतस्कन्धस्य औपपातिकाद्युत्कालिकोपागाध्ययनस्य चायमुद्देशविधिः / इहायारागाद्य-न्तरश्रुतमध्येतुमिच्छति यो विनेयः स स्वाध्यायं प्रस्थाप्य गुरुं विज्ञपयति भगवन्नमुकं मम श्रुतमुद्दिशत / गुरुरपि भणतीच्छाम इति / ततो विनेयो वन्दनकं ददाति 1 ततो गुरुरुत्थाय चैत्यवन्दनं करोति तत ऊर्ध्वस्थितो वामपाश्वीकृतशिष्यो योगोत्क्षेपनिमित्तं पञ्चविंशत्युच्छवासमानं कायोत्सर्ग करोति 'चंदेसु निम्मलयरेत्ति" यावश्चतुर्विशतिस्तवं चिन्तयतीत्यर्थः / ततः पारित--
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy