SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ उद्देस 524 - अभिधानराजेन्द्रः - भाग 2 उद्देस छत्री कपालेन कपालीत्यादि / मिश्रेण यथा शकटेन शाकटिको रथेन रथिक इत्यादि। द्रव्यं वा व्याधिप्रशमनं यदुद्दिशति। अमुक-मौषधं द्रव्यं भवता गृहीतव्यमिति / द्रव्यभूतो वा ज्ञानानुपयुक्तः पदं / न श्रुतस्कन्धादिकमुद्दिशति द्रव्यार्थी वा द्रव्य निमित्तं धनुर्वेदा-दिकं यदुद्दिसति एष सर्वोऽपि द्रव्योद्देशः।। खित्तम्मि जम्मि खित्ते, उदिसतीजाव जेण खेत्तेण। एवमेवय कालस्स वि, भावे उपसत्थअपसत्थो॥ क्षेत्रोद्देशे चिन्त्यमाने यस्मिन् क्षेत्रे अङ्ग श्रुतस्कन्धादेरुद्देशः क्रिय-ते व्यावर्ण्यतेवायोवा येन क्षेत्रेणोद्दिश्यते यथा भरते भवो भारतः। सुराष्ट्रायां भवः सौराष्ट्रो मगधेषु भवो मागध इत्यादि / एवमेव च यस्मिन् काले अङ्गादिकमुद्दिश्यते येन वा कालेनोद्दिश्यते यथा सुषमायां भवः सौषमः शरदि जातः शारद इत्यादि एष कालोद्देशः / भावोद्देशो द्विधा प्रसस्तोऽप्रशस्तश्च / उभयमपि दर्शयति!! कोहाइ अपसत्थो, णाणामादीय होइ उ पसत्था। उदओ वि खलु पसत्थो, तित्थकराहार उदयादा।। क्रोधमानादिरौदयिको भावोद्देशः / ज्ञानदर्शनादिक्षयोपशमिक | औपशामिकः क्षायिकोपशमिको वा भावः प्रशस्तो भावाद्देशो भवति उदयोऽप्यौदायिको भावोऽपि तीर्थकराहारयशः कीर्त्या दिसत्कर्मोदयरूपप्रशस्तो भवति / आदिशब्दस्य गाथायां व्यत्ययेन निर्देशो बन्धानुलोम्यात् / वृ० 3 उ० / उद्देशनमुद्देशः / सामान्याभिधाने, यथाऽध्ययनमिति / आ०म०प्र० / विशे०। अनु०॥ उद्देशनिर्देशयोः स्वरूपं भाष्यकृदाह॥ अज्झयणं उद्देसो, अभिहियं सामाइयंति निहसो। सामण्णविसिट्ठाणं, अभिहाणं सत्थनामाणं / / शास्त्रं च नाम च शास्त्रनामनी तयोः सामान्यविशिष्टयोः सामान्यविशेषभूतयोरोघनिष्पन्ने नामनिष्पन्ने च निक्षेपे यदभिधानमभिहितं तायुद्देशनिर्देशौ यथा संख्येन चेह योजना / तद्यथासामान्यस्य शास्त्रस्यौघनिष्पन्ननिक्षेपे यदध्ययनमित्यभिधानमभिहितं त उद्देश इत्युच्यते। नामनिष्पन्ने च निक्षेपे विशिष्टस्य नाम्नो यत्सामायिकमित्यभिधानमभिहितं स निर्देश इत्यभिधीयत इति // अस्यनिक्षेपो यथा।।। नाम ठवणा दविए, खित्ते काले समासउद्देसे। उद्देसम्मि य भावे, एमाई होइ अट्ठमओ॥ नामादिभेदादुद्देशोऽष्टविधस्तद्यथा नामोद्देशः स्थापनोद्देशो द्रव्योद्देशः क्षेत्रोद्देशः कालोद्देश उद्देशोद्देशः समासोद्देशो भावोद्देशो भवत्यष्टमक इति नियुक्तिगाथासंक्षेपार्थः। तत्र नामोद्देशं व्याख्यातुमाह भाष्यकारः॥ नामंजस्सुद्देसो, नामेणुद्देसए व जो जेण। उद्देसो नामस्सव, नामुद्देसोभिहाणंति॥ यस्यं जीवादेर्वस्तुन उद्देश इति नाम क्रियते स नामोद्देशः / नामरूप उद्देशो नामोद्देशःयथा गोपालदारकादिरुद्देश इति नाम (नामेणुद्देसत्ति) यो वा घटपटस्तम्भादिपदार्थो येन घटपटस्तम्भादिनाम्ना उद्दिश्यते प्रतिपाद्यते सोऽपि घटपटादिपदार्थो नामोद्देश उच्यते / उद्दिश्यतेऽभिधीयते प्रतिपाद्यते निजेन नाम्ना इति कृत्या उद्देशः (नामस्सवत्ति) नाम्नो वा वस्तु सामान्यभिधानस्योद्देश-नमुचारणं नामोद्देशः / किमुक्तं भवतीत्याह (अभिहाणंति) वस्तुनः सामान्य यदभिधानं तन्नामोद्देश इत्यर्थः यथा आमादेः वृक्षादिनामा वा शब्दः सर्वत्र प्रकारान्तरसूचकः। अत्र परोऽतिप्रसङ्ग मुद्भावयन्नाह। एवं नणु सव्वो चिय, नामोद्देसो जओ भिहाणंति। दवाईणं तेहि व, तेसु व विकीरएगस्स।। ननु यदि वस्तुनः सामान्याभिधानमात्रमुद्देशोऽभिधीयते एवं तर्हि सर्व एवायं स्थापनाद्रव्यक्षेत्रकालाधुद्देशो नामोद्देश एव प्राप्नोति / यतो द्रव्यादीनामपि हेमरजतादीनां हेमादिकं सामान्याभिधान-मिति तैर्वा कुसुम्भहरिद्रादिद्रव्यैर्हेतुभूतैर्वस्त्रादीनां रक्तपीतमित्यादिसामान्याभिधानं प्रवर्तते / तेषु वा दण्डकुण्डलकिरीटादिद्रव्येषु सत्सु दण्डी कुण्डली किरीटीत्यादिकं सामान्याभिधानं प्रवर्तमानं दृश्यते / एवं स्थापनाक्षेत्रादिष्वपि वाच्यम् ततो य एव द्रव्याधुद्देशोऽभिमतः स एव सर्वोऽपि नामोद्देशः प्राप्नोतीति उद्देशस्यैकविधत्वादष्टविधत्वं विशीर्यत इति। अत्र पराभिहितमभ्युपगम्य परिहारमाह। सचं सव्वाणुगओ, नामुद्देशोभिहाणमित्तं जं। नाणत्तं तह वि मयं, मइकिरियावत्थभेएहिं / / सत्यमुक्तं भवता यतो यत्सामान्याभिधानमात्रं नामोद्देशः स खलु सर्वानुगत एव तथापि नामस्थापनाद्रव्याधुद्देशानां नानात्वं भेदरूपं गतं सम्मतमेव परमार्थवदिना कैरित्याह / मतिक्रियावस्तुभेदैस्तथाहियादृशी नामेन्द्रे मतिस्तादृश्येव न स्थापनेन्द्रा दिषूत्पद्यते किंतु विलक्षणैव / नच यां क्रियां नामेन्द्रः करोति तामेव स्थापनाद्रव्येन्द्रादयः किंचित्सदृशीमेव अत एव नामेन्द्रादिवस्तुनां परस्परं भेदो विज्ञेयो भिन्नमित्यादिहेतुत्वात् घटपटादिवस्तुवदिति। करोति तामेव स्थापना द्रव्येन्द्रादिवस्तुवदिति / एवं प्रस्तुतनाम-स्थापनाद्रव्याधुद्देशानामपि मत्यादिभेदाढ़ेदो योजनीय इति॥ अथ स्थापनाद्युद्देशानाह। ठवणाए उद्देसो, ठवणुद्देसत्ति तस्स वा ठवणा। तं तेण तओ तम्मिव, दव्वाइयाणमुद्देसो। हव्वुद्देसो दव्वं, दव्वपई दववंसदव्वो त्ति। एवं खेत्तं खेत्ती, खेत्तपई खेत्तजायत्ति / / स्थापनाया उद्देशनमुचारणं सामान्येनाभिधानं स्थापनोद्देशः तस्य वा उद्देशस्य अक्षरादिषु स्थापना स्थापनोद्देशः / अथ द्रव्योद्देशमाहद्रव्यादीनामुद्देशो द्रव्योद्देशः / आदिशब्दात् द्रव्यवदादिपरिग्रहः कया पुनव्र्युत्पत्त्या द्रव्यादयो वाच्या भवन्तीत्याह (तम्मित्यादि) तदेव द्रव्यमुद्दिश्यते उचार्यते द्रव्यमित्येवं सामान्येनाभिधीयतेद्रव्योद्देशः। द्रव्यं चतदुद्देशश्चेतिकर्मधारयसमासः। अत्रच पक्षे द्रव्यमेवोद्देशशब्दवाच्यम्। अत एव द्वितीयगाथामाह (दव्वमिति) अथवा तेन द्रव्येण हेतुभूतेन य उद्दिश्यते अभिधीयते स द्रव्योद्देशो यथा द्रव्यपतिरित्यादि यदिवा ततस्तस्ताद्रव्यादुद्देशोऽभिधानप्रवृत्तिर्द्रव्योद्देशो यथा द्रव्यवानित्यादि। अथवा तस्मिन् द्रव्ये सत्युद्देशोऽभिधानप्रवृत्तिर्द्रव्योद्देशो यथा स द्रव्य इत्यादि सिंहासने राजा चूते कोकिलः, वने मयूर, इत्यादि वा। एवमुद्दिश्यते तेन वा, इत्यादिव्युत्पत्त्या क्षेत्र क्षेत्री क्षेत्रपतिः क्षेत्रे जातं क्षेत्रमित्यादिकः सर्वोऽपि क्षेत्रोद्देश इति। कालो कालाईयं, कालो वेयंति कालजायंति। संखेवो त्ति समासो, अंगाईणं तओ तिण्हं।। अंगसुयखंधझयणाण, नियनियप्पभेयसंगहओ।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy