SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ इहभव 676 अभिधानराजेन्द्रः भाग२ इहभव इत्येवं वृक्षायुर्वेद विलक्षणानेकद्रव्यसंयोगजन्मानो वनस्पतयो दृश्यन्ते। तथा योनिविधाने च योनिप्राभृते विसदृशानेक- द्रव्यसंयोगयोनयः सर्वहिंसादिप्राणिनो मणयो हेमादयश्च पदार्थानानारूपाः समुपलभ्यन्ते अतः केयं कार्यस्य कारणानुरूपतेति / अथवा यत एव कारणानुरूपं कार्यमत एव भवान्तरे विचित्ररूपता जन्तूनामिति दर्शयति। अहव जउद्वियविया-गुरूविजम्मं मयं तओ चेव। जीवं गिण्णभवाओ, भवंतरे चित्तपरिणामं // जेण भवंतरबीयं, कम्मविचित्तं तओभिहियं / हेउविचित्तणउ, भवंकुरविचित्तया तेणं॥ जइ पडिवनं कम्म, हेउ विचित्तत्तउ विचित्तं च / नो तप्फलं विचित्तं, पज्जवसंसारिणो सोम्म॥ अथवा यत एव बीजानुरूपं कारणानुगुणं कार्याणां जन्म मतं तत एवेह भवाद्भवान्तरे जीवं गृहाण प्रतिपद्यस्व। कथंभूतं जातिकुलबलैश्वर्यरूपादि विचित्रपरिणामम् / यदि नाम बीजानुरूपं जन्म तथापि कथं भवान्तरे विचित्रता जीवानामित्याह / जेण भवंकुरेत्यादि येन यस्मान्नारकतिर्यगादिरूपेण भवनं भवः स एवाड्कुरस्तस्याश्रीजमिह कमवावसेयं तच मिथ्यात्वाविरत्यादि हेतु वैचित्र्याद्विचित्रं तस्मान्मयाभिहितं तस्मात्तजन्यस्य भवाकुरस्यापि जात्यादिभेदेन विचित्रता। ततो यदि त्वया कर्म प्रतिपन्नं हेतुवैचित्र्याच यदिच तद्वैचित्र्यमभ्युपगतं ततः ससारिणो जीवस्य तत्फलमपि नारकतिर्यड्मनुष्यामररूपेण भवनरूपं सौम्य ! विचित्ररूपं प्रतिपद्यस्वेति। अत्र प्रमाणमुपचरयन्नाह। चित्तं संसारितं, विचित्तकम्मफलभावओ हेऊ। इहचित्तं चित्ताणं, कम्माणफलंच लोगम्मि॥ चित्रं संसारिजीवानां नारकादिरूपेण संसारित्वमिति प्रतिज्ञा विचित्रस्य कर्मणः फलरूपत्वादिति हेतुः / इह यद्विचित्रहेतुकं तद्विचित्रमुपलभ्यते यथेह विचित्राणां कृषिवाणिज्यादि कर्मणां लोक इति। तदेवं कर्मवैचित्र्ये प्रमाणमाह। चित्ता कम्मपरिणई,पोग्गलपरिणामउ जहा बज्झा। कम्माण चित्तया पुण, तद्धेउ विचित्तभावाउ।। इह चित्रा कर्मपरिणतिः पुद्गलपरिणामात्मकत्वादिह यत्पुद्गलपरिणामत्मकं तद्विचित्रपरिणतिरूपं दृश्यते / यथा बाह्यो भ्रादिविकारो वा पृथिव्यादिविकारो वा यत्तु विचित्रपरिणतिरूपं न भवति तत्पुद्गलपरिणामात्मकमपि न भवति यथा आकाशम् / यः पुनः पुगलपरिणामसाम्येपि कर्मणामावर्णादिभेदेन विशेषतो विचित्रता सा तद्धेतुवैचित्र्याद वगन्तव्या विचित्राश्च मिथ्यात्वादयः प्रद्वेष मनिह्नवादयश्च कर्महेतव इति। अथ पराभ्युपगमेनैव परभवे जीवानां वैसदृश्यं साधयन्नाह। अहवा इहभवसरिसा, परलोगो वि जइ सम्मओ तेणं / कम्मफलं पिइहभव-सरिसं पडिवज्ज परलोए।। किं भणियमिहं मणुया, नाणागइकम्म कारिणो संति / जइ ते तप्फलभाजो, परे वि तो सरिसया जुत्ता। अथवा यदि इह भवसदृशः परलोकसंमतो भवतः ततः कर्मफलमपि परलोके इह भवसदृशं इहत्थ विचित्र-शुभाशुभक्रियानुरूपं विचित्रं / प्रतिपद्यस्वेति। एवं मुकुलितं प्रतिपद्यैतदेव भावयति (किंभणियमित्यादि) किमेतावता प्रतिपादितं भवति इह तावन्मनुष्याः नानागतिहेतुभूतविचित्रक्रियानुष्ठायिनः सन्तीति प्रत्यक्षत एव लभ्यन्ते ततो यदि ते परलोके तक्रियाफलभाज इष्यन्ते ततो यथैहत्यक्रियाणां स सदृशता तथा परलोकगतजन्तूनामपि सैव युक्ता। ननु योत्र यादृशः स परत्रापि तादृश एवेति अत्र पराभिप्रायमाशक्य परिहरन्नाह। अह इहसफलं कम्म,न परेत्तो सव्वहान सरिसत्तं। अकयागमकयनासा, कम्माभावो ह वा पत्तो। कम्माभावेह कओ, भवंतरं सरिसया व तदभावे। निकारणउव्वन्ना, जइ तो नासो वि तह चेव / अथैवं ब्रूषे इह सफलं कर्मेति इह भव संबन्धेतत्कृष्यादि क्रियारूपं कर्म सफलंनतुपरभविकदानादिक्रियारूपं कर्म। ततश्च तत्फलं भवान्नपरलोके जन्तुवैसदृश्यम्। अत्रोत्तरमाह। (तोसव्वहेत्ति) तत एवं सति यत्तवाभिप्रेतं तत्सर्वथा परभवे जीवानां सदृशत्वं न स्यात्तद्धि कर्मणा जन्यते // तच्च नास्तिपारभविक क्रियाणां त्वया निष्फलत्वाभ्युपगमत्वान्निष्फलत्वे च काभावादय काभावेपि भवेत्सादृश्यं तहकृतस्यैव तस्यनिर्हेतुकस्यागमः प्राप्नोति कृतस्य चदानहिंसादिक्रियाफलरूपस्य कर्मणो नाशः प्रसञ्जति / अथवा मूलत एव कर्मणा मभावः प्राप्तः दानहिंसादिक्रियाणां निष्फलत्वाभ्युपगमान्मूलत एव कर्मणो बन्धोपिन स्यादिति भावः / ततः किमित्याह / कर्माभावेच कारणभावात्कुतो भवान्तरं तदभावे च दूरोत्सारितमेव सादृश्यम्। अथ कर्माभावेपि भव इष्वते तर्हि निष्कारण एवासौ स्याद्यदि चैवमयमिष्यते ततो नाशोपि तस्य भवस्य निष्कारण एव स्यादतो व्यर्थस्तपोनियमाद्यनुष्ठानप्रयासः / निष्कारणे च भवे ऽभ्युपगम्यमाने वैसादृश्यमपि जीवानां निष्कारणं किं नेष्यते विशेषाभावादिति। अथ प्रेरकमाशक्य परिहरन्नाह। कम्माभावे वि मई, को दोसो होज जइ सभावोयं / जह कारणाणुरूवं, घडाइकजं सहावेणं / / अथ परस्यैवंभूता मतिः स्याद्यदुतकर्माभावेऽपि यदिसद्भावरूपः स्वभाव एवायं सचेत्तर्हि को दोषः स्याद्विनापि कर्म यदि स्वभावादेव भवः स्यात्तर्हि कि दूषणं भवेन्न किंचिदित्यर्थः / दृष्टान्तमाह / यथा कर्म विनापि मृत्पिण्डादिकारणानुरूपंघटादिकार्य स्वभावेनैवोत्पद्यमानं दृश्यते तथा सदृशप्राणिजन्मपरंपरारूपो भवोपिस्वभावादेव भविष्यति। अत्रोच्यते। ननुघटोऽपिस्वभावत एव जायते कर्तृकरणाद्यपेक्षित्वात्तस्य, ततश्चेहापि कर्तुरात्मनः पारभविकस्य च शरीरादिकार्यस्य करणं संभाव्यते / तच कर्तृकार्याभ्यां भिन्नं लोके पि दृश्यते / कुलाल घटाभ्यां चक्रादिवद्यचेहात्मनः शरीरादि कार्यं कुर्वतः करणं तत्कम्र्मेति प्रतिपद्यस्वेति / स्यादेतद्धटादेः प्रत्यक्षसिद्धत्वाद्भवन्तु कुलालादयः कर्तारः, शरीरादिकार्य त्वभ्रादिविकारवत्स्व-भावतोपि भविष्यति ततो न कर्मसिद्धिस्तदयुक्तम् / यतो न स्वाभाविक शरीरादि आदिमत्प्रतिनियताकारत्वाद्धटवदिति / किंचि कारणानुरूपमेव कार्यमित्येवं परभवे सादृश्यं त्वया ऽभ्युपगम्यते तदपि स्वभाववादिनस्तवाभादिविकारदृष्टान्ते परिहीयते / अभ्रादिविकारस्य स्वकारणभूतपुद्गलद्रव्यादतिविलक्षणत्वादिति। अपिच। होज सहावो वस्सु, निकारणया च वत्थुधम्मो वा।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy