________________ आसायणा 512 अभिधानराजेन्द्रः भाग२ आसायणा किंवा चरणेणं तू दाणेण विणाउ भव इत्ति / / उत्तरं / बालस्त्रीमूढमूर्खाणां नृणां चारित्रकांक्षिणां / अनुग्रहार्थ तत्त्वहः सिद्धांतःप्राकृतः कृतः // निपुणधर्मप्रतिपादकत्वाच सर्वज्ञप्रणीतत्त्वमिति चरणमा-श्रित्याह। दानमौरविकेणापि चंडालेनापि दीयते / येन वा तेन वा शीलं न शक्यमभिरक्षितुं // दानेन भोगानाप्नोति यत्र तत्रोपपद्यते। शीलेन भोगान् वर्गच निर्वाणं चाधिगच्छति // तथाभयदानं दाता चारित्रवान्नियमत एवेति / सदेवमणुयासुरस्स लोयस्स आसायणाए सदेवमनुष्यासुरस्य लोकस्याशा तनया क्रिया प्राग्वत् / आशातना तु वितथप्ररूपणादिना आह च भाष्यकारः / देवादीयं लोयं विवरीयं भणइ सत्तदीवुदहिं / तह कयपयावदीणं पगतिपुरिसाण जोगे वा || अत्रोत्तरं / सत्तसु परमियसत्ता मोक्खसुन्नत्तणं पयावइणा / केण कओ तणपच्छा पयईए कहं पवत्तित्ति ||1|| जेय चेयणेति पुरिसत्थनिमित्तं किल वयपवत्तत्ती सा य तीसे चिय अपत्तिपरोत्ति सव्वंचिय विरुद्ध सव्वपाणभूयजीवसत्ताणं / आसायणाए सर्वप्राणिभूतजीवसत्त्वानामाशा तनया क्रिया प्राग्वत्। तत्र प्राणिनो द्रींद्रियादयः व्यक्तोच्छ वासनिश्वासा अपि भूयो भवति भविष्यंति चेति भूतानि पृथिव्यादयः जीवंतीति जीवा आयुष्ककर्मा तु तव युक्ताः सर्व एवेत्यर्थः सत्त्वाःसांसारिक-संसारातीतभेदाः एकार्थिका वाध्वनय इति आशातनातु विपरीतप्ररूपणादिनैव तथा ांगुष्ठपर्वमात्रोदींद्रियाद्यात्मेति पृथिव्यादयस्त्वजीवा एव स्यंदनादिचैतन्यकार्यानुपलब्धेर्जीवाः क्षणिका इति सत्वाः संसारिणः अंगुष्ठपर्वमात्रा एव भवंति संसारतीताः नश्यंत्येवापि तु प्रध्यातदीपकल्पोपमो मोक्ष इति / उत्तरं देहमात्रेणैव सुखदुःखादितत्कार्योपलब्धेः पृथिव्यादीनांत्वल्पचैतन्यत्वात्तत्का -नुपलब्धि जीवत्वादिति जीवा अप्येकांतक्षणिका न भवंति निरन्वयनाशे उत्तरक्षणस्यानुपपत्तेः निर्हेतुकत्वादेकांतनष्टस्यासद्विशेषात् सत्वाः संसारिणः प्रत्यक्षाएव संसारातीता अपि विद्युत एवेति जीवस्य सर्वथा विनाशाभावात्तथा तैरप्युक्तं ! नासतो विद्यते भावो नाभावो विद्यते सतः / उभयोरपिदृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः" इत्यादि / कालस्य य आसायणाए "कालः पचति भूतानि कालः संहरते प्रजाः / कालः सुप्तेषु जागर्ति कालोहि दुरतिक्रमः" इत्यादि कालोऽस्ति तमंतरेण बकुलचंपकादीनां नियतः पुष्पादिप्रदानभावो न स्यात् न च तत्परिणतिर्विश्वं एकांतनित्यस्य परिणामानुपपत्तेः। "सुयस्स आसायणाए" श्रुतस्याशातनया क्रिया पूर्ववत् आशातना तु / / को आउरस्स कालो, मइलंवरधोव्वणे व कालो अ। जइ मोक्खहेतुनाणं, को कालो तस्य कालो वा // इत्यादि उत्तरं / / जोगोर जिणसासणंमि दुखक्खयो पउज्जत्ता। अन्नोन्नमवाहतो अव्वत्तो होइकायय्वो // प्राग्धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतंत्रश्रुतविषयेतिन पौनरुक्त्यं। सुयदेवयाए आसायणाए श्रुतदेवताया आशातनया क्रिया प्राग्वत् आशातना तु श्रुतदेवता सान विद्यते अकिंचित्करी वान ह्यनधिष्ठितो मौनींद्रः खल्वागमः अतोऽसावस्ति न वा किंचित्करी तामालंब्य प्रसस्तमनसः कर्मक्षयदर्शनात् (वायणारियस्स आसायणाए) वाचनाचार्य्यस्याशातनया क्रिया प्राग्वत् / तत्र वाचनाचार्य उपाध्यायस्संदिष्टो य उद्देशादिकं करोति आशातना त्वियं निर्दुःखसुखप्रभूतं वा वंदनं / दापयति उत्तरं तु श्रुतोपचारः एष क इव तस्यात्र दोष इति / "जवाइद्ध वच्चामेलियं हीणक्खरियं अचक्खरियपयहीणं घोसहीणं जोगहीणं सुठुदिन्नं दुट्ठपडिच्छियं अकाले कओ सज्जाओ काले न कओसज्जाओ असज्जायं सज्जाइयं सज्जाए न सज्जायंति एए चउद्दशसुत्ता पुविल्लयाय एगूणवीसंतिएते तेत्तीसमासायणस्थवन्ति'' एतानि चतुर्दश सूत्राणि श्रुतकलापकगोचरत्वान्न पौनरुक्तभाजीनीति तथा दोषदुष्टं श्रुतं यत्पठितं तद्यथा आविद्धं विपर्यस्तरत्नमालावदनेकप्रकारेण या आशातना तथा हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमितिक्रिया एवमन्यत्रापि योज्या व्यत्यानेडितंकोलिकपायसवत् हीनाक्षरं अक्षरन्यूनं अत्यक्षरं अधिकाक्षरं पदहीनं पादेनैव हीनं अकृतोचितविनयं घोषहीनं उदात्तादिघोषहिरतं योगहीनं सम्यक्तयोपचारं सुष्ठुदत्तं गुरुणा दुष्ठुप्रतीतं कलुषितांतरात्मनि अकाले कृतस्वाध्यायो यो यस्य श्रुतस्य कालिकादेरकाल इति कालेन कृतः स्वाध्यायः यो यस्यात्मीयोध्यनकाल उक्त इति अस्वाध्यायिके स्वाध्यायितं / आव०४ अध्य || आत्मानं परवानाशातयदिति / 2 / आचा० / __ अणुवीइभिक्खुधम्ममाइक्खमाणो णो अत्ताणं आसाइजाणो परं आसाएजणो अण्णाईपाणाई भूताई जीवाई सत्ताई आसाएजा से अणासायए अणा-सायमाणे व उज्जमाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीवे एवं से सरणं भवति महामुणी / टी.।। अतस्तेषां क्षांत्यादिकं दशविधं धर्म यथत्योगं प्रागुपन्य-स्तं शांत्यादिपदाभिहितमनुविचिंत्य स्वपरीयभिक्षणशीलो भिक्षुर्धर्मकथालब्धिमानाचक्षीत प्रतिपादयेदिति यथा च धर्म कथयेत्तदा (अणुवीइ भिक्खुमा) इत्यादि यावत् भवति सरणं (महामुणित्ति) स भिक्षुर्मुमुक्षुरनुविचिंत्य पूर्वापरेण धर्म पुरुष वालोच्य यो यस्य कथनयोग्यस्तं धर्ममाचक्षाण आङिति मर्यादया यथानुष्ठानं सम्यग्दर्शनादेः शातना आशातना तयात्मानं नो आशातयेत्तथा धर्ममाचक्षीत यथोन्मनआशातना न भवेद्यदिवात्मन आशातना द्विधा द्रव्यतो भावतश्चद्रव्यतो यथाहारोपकरणादेव्यस्य कालातिपातादिकृताशातना बाधा न भवति तथा कथयेदाहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशातनारूपा स्यात् कथयतो वा यथा गात्रभंगरूपा भावाशतना न तस्य स्यात्तथा कथयेदिति / तथा नापरं शुश्रूषुः आशातयेत् यत्तः परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्तेताऽतस्तदाशातनां वर्जयन् धर्म ब्रूयादिति / तथा नान्यान्वासामान्ये न प्राणिनो भूतान् जीवान् नो आशातयेद्वाधयेत एवं समुनिः स्वतोऽनाशातकरैरनाशातयन् तथा परानाशातयतोऽनुमन्यमानोऽपरेषां बध्यमानानां प्राणिनां भूतानां सत्वानां जीवानां यथा पीडा नोत्पद्यते तथा धर्म