________________ आवस्सय 473 अभिधानराजेन्द्रः भाग२ आवस्सय ग्रहार्थमेतद्व्याख्या यद्वस्तुन इन्द्रादिरभिधानमिन्द्र इत्यादि वर्णावलिमात्रमिदमेव आवश्यकलक्षणवर्णचतुष्टयावलीमात्र मिदमेव। आवश्यकलक्षणवर्णचतुष्टयावलिमात्र / त्तदोनित्याभिसंबन्धात्तन्नामेति संटकः // अथ प्रकारान्तरेण नाम्नोलक्षणमाह / स्थितमन्यार्थे तद-र्थनिरपेक्ष पर्यायानभिधेयश्चेति तदपिनामयत्कथंभूतमित्याह / अन्यश्चासावर्थश्च अन्यार्थो गोपालदारकादिलक्षणस्तत्र स्थितमन्यत्रेन्द्रादावर्थे यथार्थत्वेन प्रसिद्ध तदन्यत्र गोपालदार कादौ यदारोपितमित्यर्थः / अतएवाह / तदर्थनिरपेक्षमिति। तस्येन्द्रादिनानाम्नोऽर्थः परमैश्वर्यादिरूपस्तदर्थः। स चा सावर्थश्चेति वा तदर्थस्तस्य निरपेक्ष गोपालदारकादौ तथा तदर्थस्याऽ भावात्पुनः किम्भूतं तदित्याह। पर्यायानभिधेयमिति। पर्यायाणां शक्रपुरन्दरादीनामनभिधेयमवाच्य गोपालदारकादयो हीन्द्रादिशब्दैरुच्यमाना अपि शचीपत्य दिरिव शक्रपुरन्दरादिशब्दैन -भिधीयन्ते / अतस्तन्नामाऽपि नाम तद्वतोरभेदोपचारात्पर्यायान-भिधेयमित्युच्यतेच / शब्दान्नाम्न एव लक्षणान्तरसूचकं शचीपत्यादौ प्रसिद्ध / तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्यम्। तृतीयप्रकारेणाऽपि लक्षणमाह। यादृच्छिकच तथेति / तथा विधव्युत्पत्तिशून्यं डित्थकपित्यादिरूपं यादृच्छिकं स्वेच्छया नाम क्रियते तदपि नामेत्यार्यार्थः / अनु०।। अच्छनामावश्यकस्वरूपनिरूपणार्थ सूत्रकार एवाह। सेकिंतं नामावस्सयं जस्स णं जीवस्स वा अजीवस्स वा जीवाणवा अजीवाणवातदुभयस्सवातदुभयाणवाआवस्सएत्ति नामं कज्जइ सेत्तं नामावस्सयं / / अथ किं तन्नाभावस्सकमिति प्रश्ने सत्याह ।(नामावस्सयं जस्स ण) मित्यादि। अत्र द्विकलक्षणेनाऽङ्केन सूचितं द्वितीयमपि (नामावस्सयं) ति पदं द्रष्टव्यं / एवमन्यत्राऽपि यथासभवमभ्यू-ह्यम् / णमिति वाक्यालङ्कारे। यस्य वस्तुनो जीवस्य वा अजीवस्य वा जीवानामजीवानां वा (तदुभयस्स वा) तदुभयानां वा आव-श्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन संबन्धः / / नाम च तदावश्यक चेतिव्युत्पत्तिरथवा यस्य जीवादिवस्तुनः आवश्यकमिति नाम क्रियते। तदेव जीवादिवस्तु नामावश्यकं / नाम्ना नाममात्रेणाऽवश्यक नामावश्यकमिति व्युत्पत्तिर्वाशब्दाः पक्षान्तरे सूचका इति समुदायार्थस्तत्र जीवस्य कथमावश्यकमिति नाम संभवतीत्युच्यते यथा लोके जीवस्य स्वपुत्रादेः कश्चित्त्सीह को देवदत्त इत्यादि नाम करोति। तथा कश्चित्स्वाभिप्रायवशादावश्यकमित्यापि नाम करोति। अजीवस्य कथमिति चेदुच्यते / इहावश्यकावसकशब्दयोरकार्थता प्रागुक्ता। ततश्चोर्द्धशुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविध कश्चित्पदार्थविशेषस्सदिरावासोऽयमिति लोकिकै-यपदिश्यत एव / सच वृक्षादिर्यद्यष्यनन्तैः परमाणुलक्षणैरजीव द्रव्यैर्निष्पन्नस्तथाप्येकस्कंधपरिणातिमाश्रित्यकाजीवत्वेन विवक्षित इति स्वाक्षिककप्रत्ययोपादानादेकानि वयस्यावास कनाम सिद्धम् / जीवानामपि बहूनामावासकनाम सन्दृश्यते / यथा इष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते / तत्र ह्यग्नौ किलमूषिकाः संमूर्च्छन्त्यतस्तेषामसङ्ख्येयायानग्निजीवानां पूव-र्वदावासकन्नाम सिद्धम्। अजीवानान्तुयथा नीडं पक्षिणामा वास इत्युच्यते / तन्नीडं बहुभिस्तृणाद्यजीवैर्निष्पद्यते। इति बहूनां जीवानामावासकनाम भवति / इदानीमुभयस्यावासकसंज्ञा भाव्यते। तत्र गृहदीर्धिका अशोकवनिकाद्युपशोभितः प्रासादादि प्रदेशो राजादेरावास उच्यते / सौधम्मादिविमानं वा दवाना-मावासोऽभिधीयते / अत्र च जलवृक्षादयस्सचेतनरत्नादयश्च जीवा इष्टकाः काष्ठादयो चेतनरत्नादयश्चाजीवास्तन्निष्पन्नमुभयं तस्य कप्प्रत्ययोपादाने आवासक संज्ञा सिद्धा / उभयानां त्वा-वासकसंज्ञा यथा सम्पूर्णनगरादिक राजादीनामवास उच्यते। सम्पूर्णः सौधर्मादिकल्पो वा इन्द्रादीनामावासोऽभिधीयते / अत्र च पूर्वोक्तप्रासादविमानयोलघुत्वदिकमेव जीवाजीवोभयं विव-क्षितमत्र तु नगरादीनां सौधर्मादिकल्पानां च महत्वाद्हूनि जीवाजीवोभयानि विवक्षितानीति विवक्षयाभेदो दृष्टव्यः एव-मन्यत्राऽपि जीवादीनामावासक संज्ञा यथा सम्भवं भावनीया॥ दिङ्मात्रप्रदर्शनार्थत्वादस्य निगमयन्नाह / (सेतमित्यादि) (सेत्त) मित्यादि वा क्वचित् पाठः तदेतन्नामावश्यकमित्यर्थः // इदानीं स्च्छापनाऽवश्यकनिरूपणार्छमाह। सेकिंतं ठवणावस्सयं ठवणावस्सयं जण्णं कट्टकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लिप्पकम्मे वागंथिमे वा वेढिमे वा पूरिमे वा संघाइ मे वा अक्खेवा वराउए वा एगोवा अणे गोवा सज्झावठवणा वा असज्झावठवणा वा असझाय ठवणा वा आवस्सएत्ति ढवणाठविजइ सेत्तं ट्ठवणावस्सयं नाम हवणाणं कोपइविसेसो णामं आवस्सकहिअंठवणा इत्तरिआ वा होजा आवकहिआवा।। टीका सेंकितमित्यादि अथ किंतत् स्थापनावश्यकमिति प्रश्ने सत्याह। (ठवणा आवस्सयं जण्ण) मित्यादि / तत्र स्थाप्यत शुष्कोऽयमित्यभिप्रायेण क्रियते निर्वर्त्यत इति स्च्छापना / काष्ठ कादिगतावश्यकवत् साध्वादिरूपा / सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यके स्च्छा-पनालक्षणं च सामान्यत इदमुक्तं / यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि लेप्यादिकर्म तत्स्थापनेति क्रियते अल्पकालं च ||1|| इति विनेयाऽनुग्रहार्थमत्रापि व्याख्यातुशःब्दो नामलक्षणस्य स्थापनालक्षणस्य भेदसूचकः / स चासावर्थश्च तदर्थो भावेन्द्रभावावश्यकादिलक्षणस्तेनवियुक्तं रहितं यद्वस्तुतद-भिप्रायेण भावेन्द्राधभिप्रायण क्रियते स्थाप्यते तत् स्थापनेति संबंधः। किंविशिष्टं यादित्याह / यच्च तत्करणि तेन भावेन्द्रादिना सहकारणिः सादृश्यं तस्य तत्करणि तत्त्सदृशमित्यर्थः / च-शब्दात्तदकरणि चाक्षादिवस्तु गृह्यते / अवसदृशमित्यर्थः / किंपुनस्तदेवं भूतं वस्त्वित्याह ।लेप्यादिकर्मेति लेप्यपुत्त-लिकादीत्यर्थः। आदिशब्दात् काष्ठपुत्तलिकादिगृह्यते अक्षरादि अनाकारं कियंतं कालं तत् क्रियते इत्याह / अल्पः कालो यस्य तदल्पकाल मित्वरकालमित्यर्थः / च शब्दाचावत्कथिकं शाश्वतप्रतिमादि यत् पुनविन्द्राद्यर्थरहितं साकार मनाकारं वा तदर्थाभिप्रायण क्रियते तत् स्थापनेति तात्पर्यमित्यार्थिः।।। इदानीं प्रकृ तमुच्यते (जण्णं ति) णमिति वाक्याऽलंकारे यत्काष्ठ कर्मणि वा चित्रकर्मणि वा वराटके वा एको वा अनेको वा सद्भावस्थापनायां वा असद्भावस्थापनायं वा / आवस्सएति। आवश्यकतद्वतोरभेदोपचारात्तद्वानिह गृह्यतेऽतश्चैको वा अनेको वो कथं भूतां अत उच्यते / आवश्यक क्रिया वाआवश्यक