SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आरम्भ 394 अभिधानराजेन्द्रः भाग२ आरम्भ मित्याह / इहेत्यादि इहेति मनुष्यलोके एकेषामिह लोकभूत परमार्थ बुद्धीनां मानवानां मनुष्याणां भोजनायोप भोगार्थमिति तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थे कर्म समारम्भ प्रवृत्ते लोके पृथक प्रहेणकाय श्यामाशाय प्रातराशाय केषांचिन्मानवानां भोजनार्थ सन्निधिसन्निचय करणोद्यते सति साधुनां किं कर्तव्यमित्याह (समुट्ठिए) इत्यादि यावत् णिरामगंधोपरिव्वए सम्यक् सन्ततं सगतं वा संयमानुष्ठानेनोत्थितो नानाविधशस्त्र कर्मसमारम्भोपरत इत्यर्थः नविद्यतेअ गारं गृह मस्येत्यनगारः पुत्रदुहितृस्नुषाज्ञाति धात्र्यादिरहित इत्यर्थः सोऽनगार आराद्यात सर्वहेयधम्मभ्य इत्यार्थश्चारित्रार्ह आर्या प्रज्ञा यस्यासावार्यप्रज्ञः श्रुतविशेषता सुमुखीक इत्यर्थः आर्य प्रगुणन्यायोपपन्नं पश्यति तच्छीलश्चेत्यार्यदर्शी पृथक्प्रहेणकस्य श्रमादि-संकल्परहितइत्यर्थः अयं सन्धीति सन्धानं सन्धीयते वासाविति सन्धिर्यस्य साधोरसावयं सन्विश्छान्दसत्याद्विभक्तेरलुगित्ययं सन्धिर्यथाकालमनुष्ठानविधायीयो यस्य वर्तमानः कालः कर्तव्यतयोपस्थिततस्तत्करणतथा तमेव सन्धत इति एतदुक्तं भवति सर्वाःक्रियाः प्रत्युपेक्षणोपयोग-स्वाध्यायभिक्षाचर्याप्रतिक्रमणादिका असम्पन्ना अन्योन्याबाधयात्मीय कर्तव्यकाले करोतीत्यर्थ इति हेतौ यस्माद्यथाकाला-नुष्ठानविधायीतस्मादस वेध परमार्थं पश्यतीत्याहुः / (अदक्खु-त्तिति) व्यत्ययेनैकवचनावसरे बहुवचनमकारि ततश्चायमर्थो योऽह्यर्थेआर्यप्रज्ञ आर्यदर्शी कालज्ञश्च सएव परमार्थमद्राक्षीनापर इति पाठन्तरम्वा अयं सन्धिं अदक्खु अयमनन्तरोक्तविशेषेण विशिष्टः साधुः सन्धिं कर्तव्यकालं अद्राक्षीदृष्टवानेतदुक्तंमवति यः परस्पराबाधया हितप्राप्तिपरिहाररूपतया विधेया विधयावसं वेत्ति विधत्तरं च स परमार्थ ज्ञातवानिति अथवासंधिनिदर्शनचारित्राणामभिवृद्धिः सचशरीरमृतेन भवति तदपि नोपष्ट-भकारणांतरेण तस्य च सावधस्य परिहारः कर्तव्य इत्यत आह (सोणाइए) इत्यादि स भिक्षुस्तद्वाः कल्प्पं नाददीत न गण्हीयान्नाप्यपरमादापये दुद्ग्राहयेन्नाप्यपरमनेषणीयमाददानं समनुजानी यादय वा सइंगालं सधूमं वा नाद्यान्न भक्षये न्नापर-मादापयेत् ददन्तं वा नसमनुजानी यादित्याह सव्वामग-गन्धमित्यादिआमंचगन्धं चामगन्धं समाहारद्वन्द्वस्स-वर्चतदामगंन्धंसर्वामगन्धं सर्वशब्दः प्रकारकात्य॑ऽत्रगृह्यते न द्रव्यकात्स्न्ये आममपरिशुद्धं गधं ग्रहणेन तु पूर्तिह्यते ननु च पूतिद्रव्यस्याप्यशुद्धत्वादामशब्देनैवोपादानात्किमर्थं भेदेनोपादानमिति सत्यमशुद्ध सामान्यता गृह्यत किन्नद्रव्य-कात्स्न्येऽत्रगृह्यते किन्तु पूतिग्रहणेनेह आधाकर्मा द्यविशुद्ध कोटिरूपता त स्याश्वगुरुतरत्वात्प्राधान्यख्यापनार्थ पुनरुपादानां ततश्चायमर्थः गन्धग्रहणेनात्मकमोद्देशिकत्रिकं पू तिकर्म मिश्रजातं बादरप्रभृतिकाध्यवपूरा काश्चेतेषडुद्रमदोषा अविश्रुद्धकोट्यन्तर्गता गृहीताः शेषा स्त्रयोःविशुद्ध कोट्यन्तभूता आमग्रहणेनोपात्ता दृष्टव्या इति सर्वशब्दस्य च प्रकारकात्ाभिधायकत्वाघद्येन केन चित् प्रकारेण आममपरिशुद्धं पूति वा भवतितत्सर्वं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निरामगन्धः निर्गतो वामगन्धो यस्मात् स तथा परिव्रजेत् मोक्षमार्गे ज्ञानदर्नचारित्रा ख्ये परिसम॑तार च्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत् आमगृहणेन प्रतिषिद्धेअपि क्रीतकृते तथाप्यल्पसत्वानां विशुद्धकोट्यालम्बनतया माभूत्तत्र प्रवृतिरतस्तदेवा नामग्राहं प्रतिषेधयिषुराह। / आदिस्स / इत्यादि क्रयश्चश्च वित्क्रयश्च त्क्रयवि-क्रयो / तयोः क्रयविक्रययोरदृश्यमानः कीदश श्व-तयोरदृश्यमानो भवति यतस्तयोनिमित्तभूतद्रव्याभावा-दिकिञ्चनोऽयवा क्रयविक्र ययोरदिश्यमानोsमुपदिश्यमानः कश्च तयोरनुपदिश्यमानो भवति यः क्रीतकृतापरिभोगी भवतीत्याह च सनकिणे इत्यादि स मुमुक्षुर किञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो वा नाप्यपरेण क्रापयेत् क्रीणन्तमपि न समनुजानी यादथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हनन को टित्रिक गन्धग्रहणेन पाचनकोटित्रिकं क्रयणकोत्रिकं तुपुनः स्वरूपेणैवोपात्तमतो नवकोटीः परिशुद्धमाहार विगतांगारधूमं जीत एतद्गुण विशिष्टश्च किंभूतो भवतीत्याह से भिक्खु (कालण्णे) कालः कर्तव्यावसरस्तंजानातीति कालज्ञो विदि तवेदयस्तया बालज्ञो बलंजानातीति बालज्ञः छन्द सत्वाद्दीर्घत्वमात्मवलसामर्थ्य जानातीति यथाशक्तयनु छानविधाय्य निगहितबलवीर्य इत्यर्थ-स्तथा (मायण्णे) यावत् द्रव्योपयोगिता मात्रा तां जानातीति मात्राज्ञ स्तथा (खेयण्णे) खेदोऽभ्यासस्तेन जानातीति खेदज्ञो यथा खेदः श्रमः संसार पर्यटन जनितस्तं जानातीत्युक्तं च "जरामरणदौर्गत्य व्याधयस्तावदासतां / मन्येजन्मेव वीरस्य भूयो भूयस्वपाकरमिति |शा अथ क्षेत्रज्ञः सं सक्त विरुद्ध द्रव्य परिहार्यकुलादिक्षेत्र स्वरूपपरिच्छेदकर तथा खणयणे) क्षण एव क्षणकोऽवसरो भिक्षार्थ मप सर्पणादिः यरतं जा नातीति तथा (विण्णयणो) विनयो ज्ञानदर्शनचारित्रौपचारिकरू पस्तंजानातीति तथा (ससमयण्णे) स्वसमयं जानातीति स्वसमयज्ञोगोचर प्रदेशादौ दृष्टः सन् सुखेनैव भिक्षादोषा नाचष्टे तद्यथा षोडशोद्मदोषास्ते चामी आधाकर्मा उद्देशिक पूतिकर्म मिश्रजातं स्थापना प्राभृतिका प्रकाशकरणं क्रीत उद्यतकं परिवर्तितं अभ्याह्नतं उद्भिन्नं मालाहृतं आच्छेद्यं अनिसृष्टं अध्यवपूरक श्चेति षोडशोत्पादनादोषास्ते चामी धात्रीपिंडः दूति पिंडः नमित्तपिंड आजीवपिडः वनीमकपिडः चिकित्सापिंडः क्रोधपिंड: मानपिडः मायापिंडः लोभपिडः पूर्वसंस्तवपिंडः पश्चात्सस्तवपिंडः विद्यापिडः मंत्रपिंडः चूर्ण योगपिंडः मूलकर्मपिंड श्चेति तथा दशैषणादोषास्ते चामी संकितं मृक्षितं निक्षिप्तपिहितसं हृ तदायकोन्मिश्रापरित लिप्तोप्सितदोषाएषां चोद्गमदोषा दातृकृतां एव भवन्ति उत्पादनादोषास्तु साधुजनिता एषणादोषा श्चोभयापादिता इति तथा परसमयज्ञोग्रीष्ममध्यान्हतीव्रत-स्तरणिकर-निकरावलीढगलत्स्वेदविन्दुकः क्लिन्नवपुष्करसाधुः केनचिद्-द्विजातिदेशेनाभिहितं कि मिति भवतां सर्वजनाचीर्ण स्नानं नसम्मतमिति स आह प्रायः सर्वेषामेवयतीनां कामांगत्वात् जलस्नानं प्रतिषिद्धं (स्नानं मददर्पकर कामाङ्गं प्रथम स्मृतं। तस्मात्काम परित्यज्य नैवस्नांति दमेरता इत्यादि तदेव समुभयज्ञस्त द्विषये प्रश्ने उत्तर दानकुशलो भवति तथा (भावण्णे) भाव-श्चित्ताभिप्रायो दातुः श्रोतुर्वा तंजानातीति भावज्ञः किञ्च (परिगह) अममायमाणे) परिगृह्यत इति परिग्रहः संयमातिरिक्तमुपकरणादिःतमममीकुर्वन् अस्वीकुर्वन्मन-साऽप्यनाददान इति यावत्स एवं विधोभिक्षुः कालज्ञोमात्रज्ञः क्षेत्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञोभावज्ञः परिग्रह मममी कुर्वाणश्च किंभूतो भवतीत्याह (कालानुट्ठाइ) यद्यस्मिन् काले कर्तव्यं तस्मिन्नेवानुष्ठातुं-शीलमस्येति कालानुष्ठायी कालानति-पातकर्तव्योद्यतो ननु चास्यार्थस्य से भिक्खू कालाणु इत्यनेनैव गतार्थत्वात्किमर्थ पुनरभिधीयत इति नैषदोषस्तत्र हि झपरिज्ञैव केवलाभिहिता कर्तव्यकालं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy