SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ अमावसा 745 - अभिधानराजेन्द्रः - भाग 1 अमावसा संप्रति द्वादशामावास्याविषयं प्रश्नसूत्रमाह - ताएतेसिणं पंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे केणं नक्खत्तेणं जोएति पुच्छा? ता अबाहिं, अद्दाणं चत्तारि मुहुत्ता, दस च बावद्विभागा मुहुत्तस्स, बावट्ठि भागं च सत्तट्ठिहा छेत्ता, चउप्पण्णं चुणिया भागा सेसा / तं समयं च णं सूरे केणं णक्खत्तेणं जोएति पुच्छा? ता अदाए चेव / अहाए जं चेव चंदस्स, तं चेव। (ता एएसि णमित्यादि) सुगमम्। भगवानाह-(ता अबाहि-मित्यादि) आर्द्रायुक्तश्चन्द्रो द्वादशीममावास्यां परिसमापयति / तदानीं चायाश्चत्वारो मुहूर्ताः, दश च मुहूर्त्तस्य द्वाषष्टिभागाः, द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा चतुष्पञ्चाशत्चूर्णिकाभागाः शेषाः। तथाहि- स एव धुवराशिः 66 / 5 / 1 / द्वादश्यमावास्या चिन्त्यमाना वर्तते इति द्वादशभिर्गुण्यते, जातानि सप्तशतानि विनवत्यधिकानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य षष्टिद्वाषष्टि-भागाः, एकस्य चद्वाषष्टिभागस्यद्वादश सप्तषष्टिभागाः 76260 / 12 / एतस्माचतुर्भिः शतैर्द्विचत्वारिंशदधिकै मुहूर्तानाम्, एकस्य मुहूर्तस्य षट्चत्वारिंशता द्वाषष्टिभागै: पुनर्वस्वादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चात् त्रीणि शतानि पञ्चाशदधिकानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य चतुर्दश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः 350 / 14 / 12 / ततस्त्रिभिः शतैर्नवोत्तरैर्मुहूर्तानाम्, एकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टि भागः, एकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि रोहिणीपर्यन्तानि शुद्धानि, स्थिताः पश्चाच्चत्वारिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य एकपञ्चाशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागाः 40151 / 13 / ततस्त्रिंशता मुहूर्तमूंगशिरः शुद्धं, स्थिताः पश्चाद् दश मुहूर्ताः, शेषं तथैव 10 / 51 / 13 / तत आगतमानक्षत्रस्य चन्द्रेण सह संयुक्तस्य चतुर्दा मुहूर्तेषु, एकस्य च दशसु द्वाषष्टि-भागेषु, एकस्य च द्वाषष्टिभागस्य चतुष्पशाशति सप्तषष्टि भागेषु 4 / 10 / 54 द्वादशी अमावास्या परिसमाप्तिमियंति। संप्रति सूर्यविषयं प्रश्नमाह-(तं समयं च णमित्यादि) सुगमम् / भगवानाह-(ता अदाए चेव) आर्द्रयैव युक्तः सूर्योऽपिद्वादशी-ममावास्यां परिसमापयति। शेषपाठविषये अतिदेशमाह-"अदाए जंचेव चंदस्स,तं चेव' चन्द्रस्य विषये आर्द्रायाः शेषमुक्तम्, तदेव सूर्यविषयेऽपि वक्तव्यम् / अदाए चत्तारि मुहूत्ता, दश य बावट्ठिभागा मुहत्तस्य, बावहिभागं च सत्तट्टिहा छेत्ता चउप्पण्णं चुणिया भागा सेसा० इति। चरमद्वाषष्टितमामावास्याविषयं प्रश्नमाह - ता एतेसिणं पंचण्ह संवच्छराणं चरिमं बावट्ठि अमावासं चंदे केणं णक्खत्तेणं जोएति पुच्छा ? ता पुणव्वसुणा, पुणव्वसुस्स णं बावीसं मुहुत्ता, छायालीसं च बावट्ठिभागा मुहुत्तस्स सेसा। तं समयं च णं सूरे केणं णक्खत्तेणं जोएति पुच्छा ? ता पुणव्वसुणा चेव, पुणव्वसुस्सणं बावीसं मुहुत्ता, छायालीसंच बावट्ठि-भागा मुहुत्तस्स सेसा। (ता एएसि णमित्यादि) सुगमम्। भगवानाह-(ता पुणव्वसुणा इत्यादि) ता इति पूर्ववत् / पुनर्वसुना युक्तश्चन्द्रश्चरमां द्वाषष्टितमाममावास्यां परिसमापयति। तदानीं चचरमद्वाषष्टि-तमामावास्यापरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य द्वाविंशति-मुहूर्ताः, षट्चत्वारिंशच द्वाषष्टिभागाः मुहूर्तस्य शेषाः। तथाहि- स एव ध्रुवराशिः 66 / 5 / 1 / द्वाषष्ट्या गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि, एकस्य च मुहूर्तस्य द्वाषष्टि-भागानां त्रीणि शतानि दशोत्तराणि, एकस्य च द्वाषष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः 4062,310/62,67 तत एतस्मात् चतुर्भिः शतैाचत्वारिंशदधिकैर्मुहूर्तानाम्, एकस्य च मुहूर्तस्य षट्चत्वारिंशता द्वाषष्टि भागैः प्रथमशोधनकं शुद्धम, जातानि षट्त्रिंशत्शतानि पञ्चाशदधिकानिमुहूर्तानाम्, एकस्य चद्वाषष्टिभागस्य द्वाषष्टि सप्तषष्टिभागाः ३६५०।२६४।६२शततोऽभिजिदाद्युत्तराषाढापर्यन्तसकलनक्षत्रपर्यायविषयं शोधनकम् / अष्टौ शतानि एकोनविंशत्यधिकानि मुहुर्तानाम, एकस्य चतुर्विंशतिः द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिसप्तषष्टिभागाः 816 / 24 / 66 इत्येवं प्रमाणं चतुर्भि-गुणयित्वा शोध्यते। स्थितानि पश्चात् त्रीणि शतानि चतुःसप्तत्यधिकानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य चतुष्षष्ट्यधिकं शतं द्वाषष्टिभागानाम्, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः 374 / 164 / 66 / ततो भूयस्त्रिभिः शतैर्मुहूर्तानां नवोत्तरैः, एकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैः, एकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैः३०६।२४।६६। अभिजिदादीनि रोहिणीपर्यन्तानि शुद्धानि, स्थितानि पश्चात् सप्तषष्टिर्मुहूर्तानाम्, एकस्य च मुहूर्तस्य षोडश द्वाषष्टिभागाः६७।१६। ततस्त्रिंशता मुहूर्तेर्मंगशिरः, पञ्चदशभिरार्द्रा शुद्धा, स्थिताः पश्चात् शेषा द्वाविंशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य षोडश द्वाषष्टिभागाः 22 / 16 / तत आगतं चन्द्रेण सह संयुक्तं पुनर्वसु-नक्षत्रं द्वाविंशतौ मुहूर्तेषु, करय च मुहूर्तरयषट्चत्वारिंशतिद्वा-षष्टिभागेषु, शेषेषु चरमां द्वाषष्टितमाममावास्यां परिसमापयति। सूर्यविषयं प्रश्नसूत्रमाह-(तं समयंचणमित्यादि) सुगमम् / भगवानाह(ता पुणव्वसुणा चेव त्ति) सूर्यः पुनर्वसुना चैव सह योगमुपागतश्चरमां द्वाषष्टितमाममावास्यां परिणमति / शेषे अतिदेशमाह-(पुणव्वसुस्सणं बावीसं मुहुत्ता इत्यादि) एतच्च प्राग्वद्भावनीम् / चन्द्रमसः सूर्यस्य चामावास्याविषये नक्षत्र-योगपरिज्ञानहेतोः करणस्य समानत्वात्। चं० प्र० 10 पाहुन संप्रति कियत्सु मुहूर्तेषु गतेषु अमावास्यातोऽनन्तरा पौर्णमासी ? कियत्सु वा मुहूर्तेषु गतेषु पौर्णमास्या अनन्तरममावास्या ? इत्यादि निरूपयति - ता अमावासाओ णं पुण्णिमासिणी चत्तारि बायाले मुहुत्तसते, छायालीसं बावट्ठिभागे मुहुत्तस्स आहिताति वदेजा, ता अमावासाओ णं अमावासा अट्ठा पंचासीते मुहुत्तसते, तीसंच बावट्ठिभागे मुहुत्तस्स अहियाति वदेजा, ता पुणिमासिणीओ णं अमावासा चत्तारि बायाले मुहुत्तसते तं चेव, ता पुण्णिमासिणीओ णं पुण्णिमासिणी अट्ठा पंचासीते मुहुत्तसते, तीसंच बावट्ठिभागे मुहुत्तस्स आहिता०। एस णं एवइए चंदे मासे, एसणं एवइए सगले जुगे।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy