SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ अप्याबहुय(ग) 661- अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) भावना प्रागुक्तानुसारेण कर्तव्या / तिर्यग्योनिकविषयां सूत्रसंकलनामाह- "एवमेते दस अप्पाबहुगा तिरिक्खजोणियाण-मिति" सुगममः नवरमिहेमे पूर्वायार्यप्रदर्शिते संग्रहणीगाथे ओहियपणंदि 1 संमुच्छिया य 2 गब्भ 3 तिरिक्खइत्थीओ 4 / संमुच्छगन्भतिरिया, 5 मुच्छतिरिक्खी य 6 गब्भम्मि 7 // 1 / / संमुच्छगभइत्थी, 8 पणिदितिरिगत्थियाओ इत्थी उ 10 / दस अप्पबहुगभेया, तिरियाणं होति णायव्वा // 2 // यथा तिरश्वामल्पबहुत्वान्युक्तानि तथा मनुष्याणामपि वक्तव्यानि, नवरं पश्चिमं दशममल्पबहुत्वं नास्ति, मनुष्याणामनन्तत्वाऽभावात्; तदभावे "काउलेसा अणंतगुणा'' इति पदाऽसंभवात्। अधुना देवविषयमल्पबहुत्वमाहएतेसिणं भंते ! देवाणं कण्हलेस्साणं० जाव सुक्कलेस्साण य कयरे कयरेहिंतो अप्पा वा०४ ? गोयमा ! सव्वत्थोवा देवा सुक्कलेस्सा, पम्हलेस्सा, असं खिजगुणा, काउलेस्सा असं खिज्जगुणा, नीललेस्सा विसे साहिया, कण्हलेस्सा विसेसाहिया, तेउलेस्सा संखिजगुणा। सर्वस्तोका देवाः शुक्ललेश्याः, लान्तकादिदेवलोकेष्वेव तेषां सद्भावात् / तेभ्यः पद्मलेश्या असंख्येयगुणाः, भवनपतिव्यन्तरदेवेषु सनत्कुमारादिदेवेभ्योऽसंख्येयगुणेषु कापोतलेश्यासद्भावात्। तेभ्योऽपि नीललेश्या विशेषाधिकाः प्रभूततराणां भवनपति-व्यन्तराणां तस्याः संभवात् / तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, प्रभूततराणां तेषां कृष्णलेश्याकत्वात्। तेभ्योऽपि तेजोलेश्याः संख्येयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्म शानदेवानां तेजोलेश्याभावात्। अधुना देवीविषयं सूत्रमाहएएसि णं भंते ! देवीणं कण्हलेस्साणं० जाव तेउलेस्साण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवाओ देवीओ काउलेस्साओ, नीललेस्साओ विसेसाहियाओ, कण्हलेस्साओ विसेसाहियाओ, तेउलेस्साओ संखेजगुणाओ। (एएसिणं भंते ! देवीणमित्यादि) देव्यश्च सौधर्मेशानान्ता एव, न परत इति तासां चतस्र एव लेश्यास्ततस्तद्विषयमेवाल्प-बहुत्वमभिधित्सुना "जाव तेउलेस्साण य" इत्युक्तम् / सर्वस्तोका देव्यः कापोतलेश्याः, कतिपयानां भवनपतिव्यन्तरदेवानां कापोतलेश्याभावात् / तेभ्यो विशेषाधिका नीललेश्याः, प्रभूतानां भवनपतिव्यन्तरदेवानां तस्याः सम्भवात् / तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, प्रभूतानां तासां कृष्णलेश्याकत्वात्। ताभ्यस्तेजोलेश्याः संख्येयगुणाः, ज्योतिष्कसौधर्मेशानदेवानामपि समस्तानां तेजोलेश्याकत्वात्। सम्प्रति देवदेवीविषयंसूत्रमाहएतेसि णं भंते ! देवाणं देवीण य कण्हलेस्साणं० जाव सुक्कलेस्साण य कयरे कयरेहिंतो अप्पा वाov ? गोयमा! सव्वत्थोवा देवा सुक्कलेस्सा, पम्हलेस्सा असंखेजगुणा, काउलेस्सा असंखेजगुणा, नीललेस्सा विसे साहिया, कण्हलेस्सा विसे साहिया, काउलेस्साओ देवीओ संखेज्जगुणाओ,नीललेस्साओ विसेसाहियाओ, कण्हलेस्साओ विसेसाहियाओ, तेउलेस्सा देवा संखिज्जगुणा, तेउलेस्साओ देवीओ संखेज्जगुणाओ। सर्वस्तोका देवाः शुक्ललेश्याः, तेभ्योऽसंख्येयगुणाः पद्मलेश्याः, तेभ्योऽप्यसंख्येयगुणाः कापोतलेश्याः, तेभ्यो नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, एतावत्प्रागेवभावितम्। तेभ्योऽपि कापोतलेश्याका देव्यः संख्येयगुणाः / ताश्च भवनपतिव्यन्तरनिकायान्तर्गता वेदितव्याः, अन्यत्रदेवीनांकापोतलेश्याया असम्भवात्। देव्यश्च देवेभ्यः सामान्यतः प्रतिनिकायं द्वात्रिंशद्गुणाः, ततः कृष्णलेश्याभ्यो देवीभ्यः कापोतलेश्या देव्यःसंख्येयगुणा अपिघटन्ते, ताभ्यो नीललेश्या विशेषाधिकाः, ताभ्यः कृष्णलेश्या विशेषाधिकाः / अत्रापि प्राग्वद् भावना। तेभ्योऽपि तेजोलेश्या देवाः संख्येयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्म शानदेवानां तेजोलेश्याकत्वात् / तेभ्योऽपि तेजोलेश्याका देव्यः संख्येयगुणाः, द्वात्रिंशद्गुणत्वात्। सम्प्रति भवनवासिदेवविषयं सूत्रमाहएतेसि णं भंते ! भवनवासीणं देवाणं कण्हलेस्साणं० जाव तेउलेस्साण य कयरे कयरेहिंतो अप्पा वा०.? गोयमा ! सम्वत्थोवा भवणवासी देवा तेउलेस्सा, काउलेस्सा असंखेजगुणा, नीललेस्सा विसेसाहिया, कण्हले स्सा विसेसाहिया। (एएसि णं भंते ! इत्यादि) सर्वस्तोकास्तेजोलेश्याः, महर्द्धयो हि तेजोलेश्याका भवन्ति; महर्द्धयश्वाऽल्पे, इति सर्वस्तोकाः / तेभ्योऽसंख्येयगुणाः कापोतलेश्याः, अतिशयेन प्रभूतानां कापोतलेश्यासंभवात्। तेभ्यो नीललेश्या विशेषाधिकाः, अतिप्रभूततराणां तस्याः संभवात् / तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अतिप्रभूततराणां कृष्णलेश्याभावात्। एवं भवनपतिदेवीविषयमपि सूत्रं भावनीयम्। तच्चएतेसिणं भंते ! भवणवासिणीणं देवीणं कण्हलेस्साणं० जाव तेउलेस्साण य कयरे कयरेहिंतो अप्पा वा०४? गोयमा ! एवं चेव। अधुना भवनपतिदेवदेवीविषयं सूत्रमाहएएसिणं भंते ! भवणवासीणं देवाणं देवीण य कण्हलेस्साणं० जाव तेउलेस्साण य कयरे कयरेहिंतो अप्पा वा० 4? गोयमा ! सम्वत्थोवा भवणवासी देवा तेउलेस्सा, भवणवासिणीओ तेउलेस्साओ संखिजगुणाओ, काउलेस्सा भवणवासी असं खिजगुणा, नीलले स्सा विसे साहिया, कण्हलेस्सा विसेसाहिया, काउलेस्साओ भवणवासिणीओ संखेजगुणाओ,नीललेस्साओ दिसेसाहियाओ, कण्हलेस्साओ विसेसाहियाओ, एवं वाणमंतराण वि तिण्णेव अप्पाबहुगा जहेव भवणवासीणं तहेव भाणियव्वा।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy