________________ अप्पाबहुय(ग) 656 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) पात, सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् / अभव्याश्च युक्ताऽनन्तकसंख्यामात्रपरिमाणाः, ततो भव्याऽपेक्षया ते किञ्चिन्मात्रा:, भव्याश्च प्रागभव्यपरिहारेण चिन्तिताः / इदानीं तु बादरसूक्ष्मनिगोदचिन्तायां तेऽपि प्रक्षिप्यन्त इति विशेषाधिकाः 58, तेभ्यः सामान्यतो वनस्पतिजीवा विशेषाऽधिकाः, प्रत्येकशरीरिणामपि वनस्पतिजीवानां तत्र प्रक्षेपात् 86, तेभ्यः सामान्यत एकेन्द्रिया विशेषाऽधिकाः, बादरसूक्ष्मपृथिवीकायिकादीनामपितत्र प्रक्षेपात्६०। तेभ्यः सामान्यतस्तिर्यग्योनिकाः विशेषाधिकाः,पर्याप्ताऽपर्याप्तद्वित्रिचतुरिन्द्रियतिर्यकपञ्चेन्द्रियाणामपि तत्र प्रक्षेपात् 61, तेभ्यश्चतुर्गतिभाविनो मिथ्यादृष्टयो विशेषाधिकाः, इह कतिपयाविरतसम्यग्दृष्ट्यादिसंज्ञिव्यतिरेकेण शेषाः सर्वेऽपि तिर्यञ्चो मिथ्यादृष्टिचिन्तायां चाऽसंख्येयनारकादयः, तत्र प्रक्षिप्यन्ते / ततस्तिर्यग्जीवराश्यपेक्षया चतुर्गतिका मिथ्यादृष्टयश्चिन्त्यमाना विशेषाधिकाः 62, तेभ्योऽविरता विशेषाऽधिकाः, अविरतिसम्यग्दृष्टीनामपि तत्र प्रक्षेपात् 63, तेभ्यः सकषायिणो विशेषाधिकाः, देशविरतादीनामपि तत्र प्रक्षेपात् 64, / तेभ्यश्छद्यस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र प्रक्षेपात् 65, तेभ्यः सयोगिनो विशेषाऽधिकाः, सयोगिकेवलिनामपि तत्र प्रक्षेपात्६६,तेभ्यः संसारस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् 67, तेभ्यः सर्वजीवा विशेषाऽधिकाः, सिद्धानामपि तत्र प्रक्षेपात् 68 / गतं महादण्डक-द्वारम्। प्रज्ञा०३ पद। पं० सं०। (25) योगद्वारम्। चतुर्दशविधस्य संसारसमापन्न जीवस्य योगानामल्पबहुत्वम्एएसिणं भंते ! चउद्दसविहाणं संसारसमावण्णगाणं जीवाणं जहण्णुक्कोसगस्सजोगस्स कयरे कयरेहिंतो०जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा सुहमस्स अपज्जत्तगस्स जहण्णए जोए 1, बादरस्स अपज्जत्तगस्स जहण्णए जोए असंखेनगुणे 2, बेइंदियस्स अपज्जत्त-गस्स जहण्णए जोए असंखे० 3, एवं तेइंदियस्स 4, एवं चउरिंदियस्स 5, असण्णिपंचिंदियस्स अपज्जत्तगस्स जहण्णए जोए असंखेज्जगुणे ६,सण्णिपंचिंदियस्स अपज्जत्तगस्स जहण्णए जोए असंखे०७, सुहुम-पज्जत्तगस्स जहण्णए जोए असंखेजगुणे 8, बादरस्स पज्जत्तगस्स जहण्णए जोए असंखेजगुणे 6, सुहमस्स अपज्जत्तगस्स उक्कोसए जोए असंखेनगुणे 10, बादरस्स अपज्जत्तगस्स उक्कोसए जोए असंखे०११, सुहुमस्स पजत्तगस्स उक्कोसए जोए असंखे०१२, बादरस्स पज्जत्तगस्स उक्कोसए जोए असंखे०१३, बेइंदियस्स पज्जत्तगस्स जहण्णए जोए असंखे०१४,एवं तेइंदियस्स वि 15, एवं जाव सण्णिपंचिंदियस्सपज्जत्तगस्स जहण्णए जोए असंखे० 16, बेइंदियस्स अपजत्तगस्स उक्कोसए जोए असंखे०१६,एवं तेइंदियस्स वि 20, एवं चउरिंदियस्स वि 21, एवं जाव सण्णिपंचिंदियस्स अपज्जत्तगस्स उक्कोसए जोए असंखे०२३, बेइंदियस्स पञ्जत्तगस्स उक्कोसए जोए असंखे० 24, एवं तेइंदियस्स वि 25, एवं जाव सण्णिपंचिंदियस्स पञ्जत्तगस्स उक्कोसए जोए असंखेज्जगुणे 28 / (जहन्नुकोसगस्सजोगस्सत्ति) जघन्यो निकृष्टः काश्चिद्-व्यक्तिमाश्रित्य स एव च व्यक्तयन्तरापेक्षयोत्कर्ष उत्कृष्टो जघन्योत्कर्षः, तस्य योगस्य वीर्यान्तरायक्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्य एतस्य च योगस्य चतुर्दशजीवस्थानसम्बन्धाजघन्योत्कर्षभेदाचाष्टाविंशतिविधस्या ऽल्पत्वबहुत्यादिजीवस्थानकविशेषाद्भवति, तत्र सव्वत्थोवेत्यादि, सूक्ष्मस्य पृथिव्यादेः सूक्ष्मत्वाच्छरीरस्य तस्याऽप्यपर्याप्तकत्वेनाऽसम्पूर्णत्वात् तत्राऽपि जघन्यस्य विवक्षितत्वात्सर्वेभ्यो यो वक्ष्यमाणेभ्यो योगेभ्यः सकाशात् स्तोकः, सर्वस्तोको भवति, जघन्यो योगः। स पुनर्वैग्रहिक-कार्मणौदारिकपुद्गलग्रहणप्रथमसमयवर्ती, तदनन्तरञ्च समयवृद्ध्याऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न भवति / (बायरस्सेत्यादि) बादरजीवस्य पृथिव्यादेरपर्याप्तकजीवस्य जघन्यो योगः पूर्वोक्तापेक्षयाऽसङ्घयातगुणोऽसंख्यातगुणवृद्धो बादरत्वादेवेति / एवमुत्तरत्राऽप्यसंख्यातगुणत्वं दृश्यम् / इह च यद्यपि पर्याप्तकत्रीन्द्रियोत्कृष्ट - कायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां सज्ञिनामसज्ञिनां च पञ्चेन्द्रियाणामत्कष्टः कायः संख्यातगणो भवति. संख्यातयोजनप्रमाणत्वात्, तथाऽपीह योगस्स परिस्पन्दस्य विवक्षितत्वात्तस्य च क्षयोपशमविशेषसामर्थ्याद्यथोक्तमसंख्यातगुणत्वं न विरुध्यते,नहि अल्पकायस्याऽल्प एव स्पन्दो भवति, महाकायस्य वा महानेव, व्यत्ययेनाऽपि तस्य दर्शनादिति। भ०२५ श०१ उ०) एतस्यैव योगाऽल्पबहुत्वस्यव्याख्यायिका गाथासुहुमनिगोयाइखणऽप्पजोगबायरविगलअसण्णिमणा / अपज्ज लहुपढमदुगुरु, पज्जहस्सियरो असंखगुणो // 53 // तत्र सूक्ष्मनिगोदस्य सूक्ष्मसाधारणस्य लब्ध्यपर्याप्तकस्य सर्वजघन्यवीर्यस्येति च सामर्थ्यादृश्यम्। तस्यैव सर्व-जधन्ययोगस्य प्राप्यमाणत्वादादिक्षणः प्रथमोत्पत्तिसमयः सूक्ष्मनिगोदादिक्षणः, तत्र सप्तम्येकवचनलोपश्च प्राकृतत्वात्। किम् ?, इत्याह- (अप्पजोग त्ति) अल्पः सर्वस्तोको योगो वीर्य, व्यापार इति यावत् / ततो बादरस्य (विगलत्ति) विकलस्य / (असण्णत्ति) असंज्ञिनः 'अपज्जत्ति' प्रत्येक संबन्धात्सूक्ष्मनिगोद बादरलक्षणस्य गुरुरुत्कृष्टो योगो संख्येयगुणो वाच्यः / ततः प्रथमद्विकस्य (पजहस्सियरो असंखगुणत्ति) पर्याप्तस्य हस्वो जघन्य इतर उत्कृष्टयोगो यथाक्रममसंख्येयगुणो वाच्य इति गाथाक्षरार्थः। भावार्थस्त्वम्- सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगः सर्वस्तोकः 1, ततो बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः २,ततो द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः 3, ततः त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्त्तमानस्य जघन्यो योगोऽसंख्येयगुणः 4, ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः 5, ततो-ऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः 6, ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्य-पर्याप्तस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः 7 / ततः सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः८, ततो बादरैकेन्द्रियस्य लब्ध्यपर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः 6, ततः सूक्ष्मनिगोदस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः 10, ततो बादरैकेन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः 11, ततः सूक्ष्मनिगोदस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः 12, ततो बादरैकेन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः 13 / असमत्ततसुक्किहो, पज्जजहन्नियर एव ठिइठाणा।