SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ अय्याबहुय(ग) 655 - अभिधानराजेन्द्रः - भाग 1 अप्पाबहुय(ग) संख्येयगुणाः। क्वचित् 'असंख्येयगुणाः' इति पाठः; सन समीचीनः, यत इतऊर्ध्व ये पर्याप्तचतुरिन्द्रिया वक्ष्यन्तेतेऽपिज्योतिष्कदेवाऽपेक्षया संख्येयगुणा एवोपपद्यन्ते। तथाहि-षट्पञ्चाशदधिकशतद्वयाऽङ्गुलप्रमाणानि सूचीरूपाणि खण्डानि यावन्ति एकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा ज्योतिष्काः / उक्तंच-छप्पन्नदोसयंगुलसूइपएसेहिं भाइया पयरं / जोइसिएहिं हीरइ, इति / अगुलसंख्येयभागमात्राणि च सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, तावत्प्रमाणाश्चतुरिन्द्रियाः। उक्तं च- "पज्जत्तापज्जत्ताविति चऊ असन्निणो अवहरंति। अंगुल संखाऽसंखप्पएसभइयं पुढो पयरं" ||1|| अङ्गुलसंख्येय-भागापेक्षया षट्पञ्चाशदधिकमङ्गुलशतद्वयं सङ्घययगुणं, ततो ज्योतिष्कदेवापेक्षया परिभाव्यमानाः पर्याप्तचतुरिन्द्रिया अपि सङ्ख्येयगुणा एव घटन्ते, किं पुनः पर्याप्तचतुरिन्द्रियापेक्षया सङ्ख्येयभागमात्रखचरपञ्चेन्द्रियनपुंसका इति 42, तेभ्योऽपि स्थलचरपञ्चेन्द्रियनपुंसकाः संख्येयगुणाः 43, तेभ्योऽपि जलचरपोन्द्रियनपुंसकाः संख्येयगुणाः 44, तेभ्योऽपि पर्याप्तचतुरिन्द्रियाः संख्येयगुणाः 45, तेभ्योऽपि पर्याप्ताः संजयसंज्ञिभेदभिन्नाः पञ्चेन्द्रिया विशेषाधिकाः 46 / तेभ्योऽपि पर्याप्ता द्वीन्द्रिया विशेषाधिकाः 47, तेभ्योऽपि पर्याप्तास्त्रीन्द्रिया विशेषाधिकाः 48, यद्यपि पर्याप्त-चतुरिन्द्रियादीनां पर्याप्तत्रीन्द्रियपर्यन्तानां प्रत्येकमगुला-ऽसंख्येयभागमात्राणि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, तावत्प्रमाणत्वमविशेषेणान्यत्र वर्ण्यते, तथाऽप्यगुला-संख्येयभागस्य संख्येयभेदभिन्नत्वादित्थं विशेषाऽधिकत्वमुच्यमानं न विरुद्धम् / उक्तं चेत्थमल्पबहुत्वमन्यत्राऽपि "तओ नपुंसकखहयरसंखेज्जा थलयरजलयरनपुंसका चतुरिंदिया तओ पणविति पज्जत्ता किंचऽहिय त्ति" 48, तेभ्योऽपि पर्याप्ततीन्द्रियेभ्योऽपर्याप्ताः पश्शेन्द्रिया असंख्येयगुणाः, अगुलासंख्येयभागमात्राणि खण्डानि सूचीरूपाणि यावन्ति एकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वात् ४६,तेभ्यश्चतुरिन्द्रिया अपर्याप्ता विशेषाधिका ५०,तेभ्योऽपित्रीन्द्रिया अपर्याप्ता विशेषाधिकाः 51, तेभ्यो द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, यद्यपि चाऽपर्याप्ताश्चतुरिन्द्रियादयोऽपर्याप्तद्वीन्द्रियपर्यन्ताः प्रत्येकमगुलस्यासंख्येयभागमात्राणि खण्डानि सूचीरूपाणि यावन्त्येकस्मिन् प्रतरे भवन्ति, तावत्प्रमाणा अन्यत्रा-ऽविशेषेणोक्ताः, तथाप्यगुलासंख्येयभागस्य विचित्रत्वादित्थं विशेषाऽधिकत्वमुच्यमानं न विरोधमास्कन्दति 52 / / तेभ्योऽपितीन्द्रियाऽपर्याप्तभ्यः प्रत्येकबादरवनस्पतिकायिकाः पर्याप्ता असंख्येयगुणाः, यद्यपि चाऽपर्याप्तद्वीन्द्रियादिवत्पर्याप्तबादरवनस्पतिकायिका अप्यङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्रोक्ताः,तथाऽप्य गुलाऽसंख्येयभागस्यासंख्येयभेद-भिन्नत्वाद् बादरपर्याप्त प्रत्येकवनस्पतिपरिमाणचिन्तायामगुला-ऽसंख्येयभागोऽसंख्येगुणहीनः परिगृह्यते, ततो न कश्चिद्विरोधः 53, तेभ्यो बादरनिगोदा अनन्तकायिकशरीररूपाः पर्याप्ता असंख्येयगुणाः 54, तेभ्योऽपि बादरपृथिवीकायिकाः पर्याप्ताः असंख्येयगुणाः 55, तेभ्योऽपि पर्याप्तबादराऽप्कायिका असंख्येयगुणाः, यद्यपि च पर्याप्तबादरप्रत्येकवनस्पतिकायिका-ऽप्कायिकाः प्रत्येकमङ्गुलाऽसंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, तावत्प्रमाणा अन्यत्राविशेषेणोक्ताः, तथाऽप्यगुलाऽसंख्येयभागस्याऽसंख्येयभेदभिन्नत्वादित्थमसंख्येयगुणत्वादित्थमभिधाने न | कश्विघोषः 56, तेभ्यो बादरपर्याप्ताऽप्कायिकेभ्यो बादरवायुकायिकाः पर्याप्ता असंख्येयगुणाः, धनीकृतलोकासंख्येयभागवर्त्यसंख्येयप्रतरग.. तनभःप्रदेशराशिप्रमाणत्वात् 57, तेभ्यो बादरतेजस्कायिका अपर्याप्ता असंख्येयगुणाः, असंख्येयलोका-काशप्रदेशराशिप्रमाणत्वात् 58, तेभ्यः प्रत्येकशरीरबादरवनस्पति-कायिका अपर्याप्ता असंख्येयगुणाः 56, तेभ्योऽपि बादरनिगोदा अपर्याप्तका असंख्येयगुणाः 60, तेभ्यो बादरपृथिवीकायिका अपर्याप्तका असंख्येयगुणाः ६१,तेभ्यो बादराऽप्कायिका अपर्याप्ता असंख्येयगुणाः 62, तेभ्यो बादरवायुकायिका अपर्याप्ता असंख्येयगुणाः 63, तेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असंख्येयगुणाः 64, तेभ्यः सूक्ष्मपृथिवीकायिका अपर्याप्ता विशेषाऽधिकाः 65, तेभ्यः सूक्ष्माऽप्कायिका अपर्याप्ता विशेषाधिकाः 66, तेभ्यः सूक्ष्मवायुकायिका अपर्याप्ता विशेषाधिकाः 67, तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्तका असंख्येयगुणाः, अपर्याप्त - कसूक्ष्मेभ्यः पर्याप्तसूक्ष्माणां स्वभावत एव प्राचुर्येण भावात्। तथा चाऽऽह अस्यामेव प्रज्ञापनायां संग्रहणीकारः- "जीवाणमपज्जत्ता, बहुतरगा बायराण विन्नेया। सुहमाण य पञ्जत्ता, ओहेण य केवली बिंति"॥१॥ 68, तेभ्योऽपि सूक्ष्मपृथिवीकायिकाः पर्याप्ता विशेषाधिकाः 66, तेभ्योऽपि सूक्ष्माऽप्कायिकाः पर्याप्ता विशेषाधिकाः 70, तेभ्योऽपि सूक्ष्मवायुकायिकाः पर्याप्ता विशेषाधिकाः७१। तेभ्योऽपि सूक्ष्मनिगोदा अपर्याप्तका असंख्येयगुणाः 72, तेभ्योऽपि पर्याप्ताः सूक्ष्मनिगोदाः संख्येयगुणाः, यद्यपि च पर्याप्ततेजस्कायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यन्ताअविशेषेणाऽन्यत्राऽसंख्येयलोकाकाशप्रदेशराशिप्रमाणा उक्ताः, तथाऽपि लोकासंख्येयत्वस्याऽसंख्येयभेदभिन्नत्वादित्थमल्पबहुत्वमभिधीयमानमुपपन्नं द्रष्टव्यम्७३। तेभ्योऽभवसिद्धिका अनन्तगुणाः, जघन्ययुक्ताऽनन्तक-प्रमाणत्वात् 74, तेभ्यः प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः 75, तेभ्यः सिद्धा अनन्तगुणाः 76, तेभ्योऽपि बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः 77, तेभ्योऽपि सामान्यतो बादरपर्याप्ता विशेषाधिकाः, बादरपर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् 78, तेभ्यो बादरापर्याप्तवनस्पतिकायिका संख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रयासंख्येयगुणानां बादराऽपर्याप्तनिगोदानां संभवात् 76, तेभ्यः सामान्यतो बादरापर्याप्ता विशेषाधिकाः, बादरपर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् 80, तेभ्यः सामान्यतो बादरा विशेषाऽधिकाः, पर्याप्ताऽपर्याप्तानां तत्र प्रक्षेपात् 81, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असंख्येयगुणाः 82, तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाऽधिकाः, सूक्ष्माऽपर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् 83 / तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्तकाः संख्येयगुणाः, पर्याप्तसूक्ष्माणामपर्याप्तसूक्ष्मेभ्यः स्वभावतः सदैव संख्येयगुणतया प्राप्यमाणत्वात्, तथा के वलवेदसोपलब्धेः 84 तेभ्योऽपि सामान्यतः सूक्ष्माः पर्याप्त विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकादीनामपि तत्र प्रक्षेपात् 85, तेभ्यः पर्याप्ताऽपर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाऽधिकाः, अपर्याप्तसूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिकायिकानामपि तत्र प्रक्षेपात् 86, तेभ्योऽपि भवसिद्धिका भवे सिद्धिर्येषां ते भवसिद्धिकाः' भव्या विशेषाधिकाः, जघन्ययुक्ताऽनन्तकमात्र-भव्यपरिहारेण सर्वजीवानां भव्यत्वात्८७, तेभ्यः सामान्यतो निगोदजीवा विशेषाधिकाः, इह भव्याभव्याश्चाऽतिप्राचुर्येण बादरसूक्ष्मनिगोदजीवराशावेव प्राप्यन्ते, नाऽन्यत्र, अस्यैषां
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy