SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ अणुओग 341 - अभिधानराजेन्द्रः - भाग 1 अणुओग (10) एषां चाऽनुयोगविषयाणां द्रव्यादीनां परस्परं यस्य यत्र समावेशो भजना वा तन्निरूपणम्। (11) एकाथिकानां वक्तव्यता। (12) अनुयोगशब्दार्थनिर्वचनम्। (13) अनुयोगविधिः। (14) प्रवृत्तिद्वारम्। (15) गुरुशिष्ययोश्चतुर्भङ्गीनिरूपणम्। (16) केनाऽनुयोगः कर्तव्यः। (17) कस्य शास्त्रस्याऽनुयोगः कर्तव्यः। (18) पञ्चज्ञानेषु श्रुतज्ञानस्याऽनुयोगः। (16) तद्द्वारेऽनुयोगलक्षणम्। (20) यथोक्तगुणयुक्तस्य कोऽर्हः? इत्यनेन संबन्धेन तदर्हद्वारम्। (21) कथाऽधिकारः। (22) चरणकरणाद्यनुयोगचातुर्विध्यनिरूपणम्। (23) अनुयोगानां पृथक्त्वमार्यरक्षितात्। (1) अथाऽनुयोगाधिकारः, स चैतैद्-द्वारैरनुगन्तव्यःनिक्खेवेगट्ठणिरुत्त - विहि पवित्तीय केण वा कस्स? तद्दारभेयलक्खण-तदरिह परिसा य सुत्तत्थो॥ अनुयोगस्य निक्षेपो नामाऽऽदिन्यासो वक्तव्यः, तदनन्तरं तस्यैकार्थिकानि, तदनु निरुक्तं वक्तव्यम्। ततः को विधिरनुयोगे कर्तव्य इति विधिवक्तव्यः / तथा प्रवृत्तिः प्रसवोऽनुयोगस्य वक्तव्यः / तदनन्तरं केनाऽनुयोगः कर्तव्य इति वक्तव्यम् / ततः परं कस्य शास्त्रस्य कर्तव्य इति / तदनन्तरं तस्याऽनुयोगस्य द्वाराण्युपक्रमादीनि वक्तव्यानि। तत्र तेषामेव भेदः, ततः परं सूत्रस्यलक्षणम्, तदनन्तरं सूत्रस्याऽर्हा योग्याः, ततः परं परिषत्, ततः सूत्रार्थः / एष द्वारगाथासंक्षेपार्थः / व्यासार्थस्तु प्रतिद्वारं वक्ष्यते। बृ०१ उ० स्था०। अनु०। आ० म० प्र०ा आ० चूल। (2) तत्र प्रथमतो निक्षेपद्वारमाहनिक्खेवो नासो त्तिय, एगटुं सो उ कस्स निक्खेवो? अणुओगस्स भगवओ, तस्स इमे वन्निया भेया॥ निक्षेपो न्यास इत्येकार्थः / पर आह- स निक्षेपः कस्य कर्तव्यः? सूरिराह- अनुयोगस्य भगवतः, तस्य च निक्षेपस्य इमे वक्ष्यमाणा वर्णिता भेदाः। बृ०१ उ०) अथाऽनुयोगस्यैव संभवन्तं नामादिनिक्षेपमाहनामं ठवणा दविए, खेत्ते काले य वयणभावे य। एसो अणुओगस्स उ, निक्खेवो होइ सत्तविहो॥३८६|| नामाऽनुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावाऽनुयोगः / एषोऽनुयोगस्य सप्तविधो निक्षेपः / इति नियुक्तिगाथार्थः। (3) विस्तरार्थ त्वभिधित्सुर्भाष्यकारो नामस्थापनाऽनुयोग-स्वरूपं / तावदाहनामस्स जोऽणुओगो, अहवा जस्साभिहाणमणुओगो। नामेण व जो जोओ, जोगो नामाणुओगो सो।। ठवणाए जोऽणुओगो-ऽणुओग इति वा ठविज्जए जं च। जावेह जस्स ठवणा, जोग हवणाणुओगो सो।। नाम्न इन्द्रादेर्योऽनुयोगो व्याख्यानमसौ नामाऽनुयोगः / अथवा यस्य वस्तुनोऽनुयोग इति नाम क्रियते तन्नाममात्रेणाऽनुयोगो नामाऽनुयोग इत्युच्यते। यदि वा नाम्ना सह यः कश्चिद्योगोऽनुरूपो योगः संबन्धः स नामानुयोगः, नाम्ना सहाऽनुरूपोऽनुकूलो योगो नामानुयोग इति व्युत्पत्तेः / यथा- दीपस्य दीपनाम्ना सह, तपनस्य तपननाम्ना सह, ज्वलनस्य ज्वलननाम्ना सह इत्यादि / एवं स्थापनाया अनुयोगो व्याख्यानं स्थापनानुयोगः / अथवा अनुयोगं कुर्वन्नाचार्यादिर्यत्र काष्ठादौ स्थाप्यते तत्स्थापनाऽनुयोगः / यावदिहानुयोगकर्तुराचार्यादेस्तदाकारवति लेप्यकर्मादौ योग्याऽनुरूपा स्थापना क्रियते, स स्थापनानुयोगः / स्थापनाया अनुरूपोऽनुकूलो योगः संबन्धः स्थापनाऽनुयोग इति व्युत्पत्तेः। इति निक्षेपद्वारम्। विशे० (4) अथ द्रव्याऽनुयोगमाहसामित्त करण अहिगरण, एहिँ एगत्ते य बहुत्ते य। नामं ठवणा मोत्तुं, इति दव्वादीण छब्मेया॥ स्वामित्वं संबन्धः, करणं साधकतमम्, अधिकृतम्, अधिकरणमाधारः, एतैः प्रत्येकमेकत्वेन बहुत्वेन च पञ्चानां द्रव्यादीनामनुयोगो वक्तव्य इति / एवं नामस्थापना मुक्त्वा द्रव्यादीनामनुयोगस्य प्रत्येकं षड्भेदा भवन्ति। बृ०१ उ०। तथाहिदव्वस्स जोऽणुओगो, दव्वे दव्वेण दव्वहेउस्स। दव्वस्स पञ्जवेण व, जोगो दट्वेण वा जोगो।। बहुवयणओ वि एवं, नेओ जो वा कहेव अणुवउत्तो। दव्वाणुओग एसो. एवं खेत्ताइयाणं पि। द्रव्यस्य योगो व्याख्यानमेष द्रव्यानुयोग इति द्वितीयगाथायां संबन्धः / तथा द्रव्ये निषद्यादावधिकरणभूते स्थितस्यानुयोगो द्रव्यानुयोगः / द्रव्येण वा क्षीरपाषाणशकलादिना करणभूतेनानुयोगो द्रव्याऽनुयोगः / द्रव्यहेतोर्वा शिष्यद्रव्यप्रतिबोधनादिनिमित्तमनुयोगो द्रव्याऽनुयोगः। अथवा द्रव्यस्य वस्त्रादेः कुसुम्भरागादिना पर्यायेण सहय इह योगोऽनुरूपो योगः संबन्धः, स द्रव्यानुयोगः / अथवा द्रव्येणाऽलीकादिना कृत्वा यस्यैव वस्त्रादेः, तेनैव कुसुम्भरागादिना पर्यायेण सह योगो-ऽनुरूपो योगः संबन्धः स द्रव्यानुयोगः / एवं बहुवचनतोऽपिज्ञेयो द्रव्यानुयोगः। तद्यथा-द्रव्याणांद्रव्येषुद्रव्यैर्वाऽनुयोगो द्रव्यानुयोगः, तथा द्रव्याणां हेतोरनुयोगो द्रव्यानुयोगः, द्रव्याणां पर्यायः सह द्रव्यैर्वा करणभूतैरनुरूपो योगो द्रव्यानुयोग इति / यो वाऽनुपयुक्तः कथयत्यनुपयुक्तोऽनुयोगं करोति, स द्रव्यानुयोगः / एवं क्षेत्रादीनामपि क्षेत्रकालवचनभावेष्वपि यथासंभव-मित्थमेवाऽऽयोज्य इत्यर्थः / तद्यथा- क्षेत्रस्य क्षेत्रेण क्षेत्रे, क्षेत्राणां क्षेत्रैः क्षेत्रेष्वऽनुयोगः क्षेत्रानुयोगः, तथा क्षेत्रस्य क्षेत्राणां वा हेतोरनुयोगः क्षेत्रानुज्ञापनाय देवेन्द्रचक्रवादीना-मनुयोगोव्याख्यानं यत् क्रियत इत्यर्थः / तथा क्षेत्रस्य क्षेत्राणां वा, क्षेत्रेण क्षेत्रैर्वा करणभूतैः पर्यायेण पर्यायैर्वा सहानुरूपोऽनुकूलो योगः क्षेत्रानुयोगः / एवं कालवचन-भावविषयेऽप्येकवचनबहुवचनाभ्यां सुधिया यथासंभवं वाच्यम्, नवरं, कालादिष्वमिलापः कार्य इति द्रव्यस्याऽनुयोगो व्याख्यानं द्रव्याऽनुयोग इत्यादावभिहितम् / विशे०। (5) तत्र कतिभेदं तद्रव्यं ? किंस्वरूपश्च तस्यानुयोगः? इत्याशङ्क्याहदव्वस्स उ अणुओगो, जीवदव्वस्स वा अजीवदव्वस्स। एक्कक्कम्मिय भेया, हवंति दव्वाइया चउरो॥
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy