________________ अणंतग २६१-अभिधानराजेन्द्रः - भाग 1 अणंतग सिद्धा निगोयजीवा, वणस्सई काल पुग्गला चेव। सवमलोगागासं, छप्पेतेऽणंत पक्खेवा / / 1 / / अयमर्थः-सर्वे सूक्ष्मबादरनिगोदजीवाः प्रत्येकानन्ताः, सर्वे वनस्पतिजन्तवः सर्वोऽप्यतीतानागतवर्तमानकालसमयराशिः, सर्वपुद्गलद्रव्यसमूहः, सर्वालोकाकाशप्रदेशराशिः / एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेप्याः, एतैश्च प्रक्षिप्तर्यो राशिर्जायते, स पुनरपिवारत्रयंपूर्ववर्यत, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञानकेवलदर्शनपर्यायाः प्रक्षिप्यन्ते / एवं च सत्युत्कृष्टमनन्ताऽनन्तकं सम्पद्यते, सर्वस्यैव वस्तुजातस्य संगृहीतत्वात् / अतः परं वस्तु सर्वस्यैव संख्याविषयस्याऽभावाद् इति भावः / सूत्राऽभिप्रायस्तुइत्थमप्यनन्ताऽनन्तकमुत्कृष्ट न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वात् इति। तत्त्वं तु केवलिनो विदन्तीति भावः। सूत्रेच यत्र कुत्राऽपिअनन्ताऽनन्तकं गृह्यते, तत्र सर्वत्राऽजधन्योत्कृष्टं द्रष्टव्यम्, तदेवं प्ररूपितमनन्तकम् / अनु० इदानीं नवविधमसंख्येयकं नवविधमेव चाऽनन्तकं __ निरूपयितुमिच्छुर्गाथायुगमाहरूवजुयं तु परित्ता - संखं लहु अस्स रासि अब्मासे। जुत्तासंखिजं लहु, आवलियासमयपरिमाणं // 78|| पूर्वोक्तमेवोत्कृष्ट संख्येयकं, रूपयुतंतुरूपेणैकेन सर्षपेण पुनर्युक्तंसल्लधु जघन्यं परीत्तासंख्यं परीत्तासंख्येयकं भवति। इदमत्र हृदयम्-इहयेनैकेन सर्षपरूपेण रहितोऽनन्तरोद्दिष्टो राशिरुत्कृष्ट-संख्यातकमुक्तं, तत्र राशी तस्यैव रूपस्य निक्षेपो यदा क्रियते, तदा तदेवोत्कृष्ट संख्यातकं जघन्य परीताऽसंरख्यातकं भवतीति / इह च जघन्यपरीत्ताऽसंख्येयकेऽभिहिते यद्यपि तस्यैव मध्यमोत्कृष्ट-भेदप्ररूपणाऽवसरस्तथापि परीत्तयुक्तनिजपदभेदतस्त्रिभेदाना-मप्यसंख्येयकानां मध्यमोत्कृष्टभेदौ पश्चादल्पवक्तव्यत्वात् प्ररूपयिष्येते। अतोऽधुना जघन्ययुक्तासंख्यातकं तावदाह-(अस्स रासि अब्भासे इत्यादि) अस्य राशेजघन्यपरीत्ताऽसंख्येयक-गतराशेः, अभ्यासे परस्परगुणने सति, लघु जघन्यं, युक्ताऽसंख्येयकं भवति, तच्चावलिकासमयपरिमाणम् / आवलिका"असं खिजाणं समयाणं समुदयसमिइसमागमेणं" इत्यादिसिद्धान्तप्रसिद्धा, तस्याः समया निर्विभागाः कालविभागाः, तत्परिमाणमावलिकासमय-परिमाणम्, जघन्ययुक्ताऽसंख्येयकतुल्यसमयराशिप्रमाणा आवलिका इत्यर्थः / एतदुक्तं भवतिजघन्यपरीत्तासंख्येयक-संबन्धीनि यावन्ति सर्षपलक्षणानि रूपाणि तान्येकै कशः पृथक् पृथक् संस्थाप्य तत एकैकस्मिन् रूपे जघन्यपरीत्ताऽसंख्यातकप्रमाणो राशिः व्यवस्थाप्यते। तेषां च राशीनां परस्परमभ्यासो विधीयते / इहैवं भावना- असत्कल्पनया किल जघन्यपरीत्तासंख्येयक-राशिस्थाने पञ्च रूपाणि कल्प्यन्ते, तानि विवियन्ते, जाताः पञ्चैककाः 11111 एककानामधः प्रत्येकं पञ्चैव वाराः पञ्च व्यवस्थाप्यन्ते। तद्यथा-१११११/५५५५५, अत्र पञ्चभिः पञ्च गुणिता जाता पञ्चविंशतिः। साऽपिपञ्चभिरभ्यासेजातं पञ्चविंश शतम् / इत्यादिक्रमेणामीषां राशीनां परस्पराऽभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि 545454545-3125 / एवं कल्पनया तावदेतावन्मात्रो राशिर्भवति, सद्भावतस्त्वसंख्येयरूपो जघन्ययुक्ताऽसंख्यातकतया मन्तव्य इति / / 7 / / सम्प्रति शेषजघन्याऽसंख्याताऽसंख्यातकभेदस्य जघन्यपरीत्ताऽनन्तकादिस्वरूपाणां त्रयाणां जघन्याऽनन्तकभेदानां च स्वरूपमतिदेशतः प्रतिपिपादयिषुराह - बि ति चउ पंचम गुणणे, कमा सगासंख पढमचउसत्ता। ऽणंता ते रूवजुया, मज्झा रूवूण गुरु पच्छा / / 7 / / इह 'संखिजेगमसंखमित्यादि' गाथोपन्यस्तमुत्कृष्ट संख्यातकम् 1, उत्कृष्टसंख्यातकादिमौलसप्तपदापेक्षया संख्यातकाद्यभेद-विकलानि यानि परीत्तासंख्यातकादीनि षट्पदानि, तानि परीत्ताऽसंख्यातकाऽनन्ताऽनन्तक भेदद्वयविकलानि द्वित्रिचतुःपञ्चसंख्यात्वेन प्रोक्तानि। यथा- परीत्ताऽसंख्यात 2, युक्ताऽसं०३, असंख्याऽसं०४, परीत्ताऽनन्त०५, युक्ताऽनन्त०६, अनन्ताऽनन्त०७। ततो द्वित्रिचतुःपञ्चमगुणने द्वितीयतृतीयचतुर्थपञ्चमपदवाच्यराशेरन्योऽन्याऽभ्यासे सति, क्रमात् क्रमेण, (सगाऽसंख त्ति) प्राकृतत्यात् सप्तमाऽसंख्यातम्। स्थापनाऽपेक्षयाजधन्याऽसंख्याताऽसंख्यातकम्। (पढमचउसत्ताऽणत त्ति) प्राकृतत्वात् प्रथमचतुर्थसप्तमान्यनन्तकानि, तत्र प्रथमाऽनन्तकं जघन्य-परीत्ताऽनन्तकं चतुर्थाऽनन्तकं जघन्ययुक्ताऽनन्तकं सप्तमाऽनन्तकं जघन्याऽनन्ताऽनन्तकं भवतीति। इह जघन्य मध्यमोत्कृष्टभेदतो-ऽसंख्येयाऽनन्तकयोः प्रत्येक नवविधत्वात् प्रदर्शितभेदानां सप्तम-प्रथमाऽऽदिसंख्यानं संगच्छत एव। यथा- जघन्यसंख्यात 1, मध्यमसं०२, उत्कृष्ट सं०३ / ज० परीत्त असं०१, म०परीतअसं०२, उ०परीत्तअसं०३, ज०युक्तअसं०४, मयुक्तअसं०५, उ०युक्तअसं०६, ज०असं०असं०७, म०असं० असं०८, उ०असं०असं०६ ज०परीत्तअनन्त 1, म०परीत्तअनन्त 2, उ०परीत्तअनन्त 3, जव्युक्त अनन्त 4, मयुक्त अनन्त 5, उन्युक्त अनन्त 6, जघन्यअनन्ताऽन्त 7, मध्यमअनन्ताऽन्त 8, उत्कृष्ट अनन्ताऽन्त / / 3+6+6-21 इदमत्रैदंपर्यम्-द्वितीये युक्ताऽसंख्यातकपदवाच्ये जघन्ययुक्ताऽसंख्यातकलक्षणे राशौ विवृते सति यावन्ति रूपाणि, तावत्सु प्रत्येकं जघन्ययुक्ताऽसंख्यातकमाना राशयोऽभ्यसनीयाः,ततः तेषां राशीनां परस्परताडने यो राशिर्भवति, तत् सप्तमाऽसंख्येयकं मन्तव्यम् / तृतीये त्यसंख्येयकाऽसंख्येयकपदवाच्ये जघन्याइसंख्येयकासंख्येयकरूपे राशौ यावन्ति रूपाणि, तावतामेव जघन्याऽसंख्येयकाऽसंख्येयक राशीनामन्योन्यगुणने सति यो राशिः संपद्यते, तत्प्रथमाऽनन्तकं जघन्यपरीत्ताऽनन्तकमवसेयम् / चतुर्थे तु परीत्ताऽनन्तकपदवाच्ये जघन्यपरीत्ताऽनन्तकरूपे राशी यावन्ति रूपाणि, तावत्संख्यानां जघन्यपरीत्ताऽनन्तकराशीनां परस्परमभ्यासे यावान् राशिर्भवति, तचतुर्थमनन्तकं जधन्ययुक्ताऽनन्तकं भवति / पञ्चमे यक्ताऽनन्तकपदवाच्ये जघन्ययुक्ताऽनन्तक रूपे राशौ यावन्ति रूपाणि, तत्प्रमाणानामे व जघन्ययुक्ताऽनन्तकराशीनां परस्परगुणने यावान राशिः संपद्यते, तत् सप्तमाऽनन्तकं जघन्याऽनन्ताऽनन्तकं भवति / आहपरीत्तासंख्यातक 1, युक्तासंख्यातक 2, असंख्यातासंख्यातक 3, परीत्तानन्तक 4, युक्तानन्तक 5, अनन्तानन्तक 6, लक्षणाः षडपि राशयो जघन्यास्तावन्निर्दिष्टाः, मध्यमा उत्कृष्टाश्चै ते कथं मन्तव्याः? इत्याह-(ते रूवजुया इत्यादि) ते अनन्तरोद्दिष्टा जघन्याः षडपि राशयो रूपेणैककलक्षणेन युताः समन्विताः / रूपयुताः सन्तः किं भवन्तीत्याह- मध्या मध्यमाः, जघन्योत्कृष्टा इति यावत् / तत्र यः प्राग्निर्दिष्टो जघन्यपरीत्तासंख्यातकराशिः, स एक स्मिन् रूपे प्रक्षिप्ते मध्यमो भवति / उपलक्षणं चैतत्नैकरूपप्रक्षेप एव मध्यमभणनं, किन्त्वेकै करूपनिक्षेपेऽयं तावत् मध्यमो मन्तव्यो यावदुत्कृष्टपरीत्तासंख्येयक राशिन भवतीत्येवमनया दिशा जघन्ययुक्तासंख्यातकादयोऽपि राशय