________________ अणंतखुत्तो 260 - अभिधानराजेन्द्रः - भाग 1 अणंतग अणंतखुत्तो-अव्य०(अनन्तकृत्त्वस्) अनन्तवारानित्यर्थः / "अह णं भंते ! जीवे णेरइयत्ताए उववण्णपुव्वे ? हंता गोयमा ! असतिं अदुवा अणंतक्खुत्तो''। भ०१२श०६ उ०॥ अणंतग(य)-न०(अनन्तक) गणनासंख्याभेदे, स्थाo! तच पञ्चधा - पंचविहे अणंतए पण्णत्ते / तं जहा- णामाणंतए, ठवण्णाणतए, दव्वाणंतए, गणणाणंतए, पएसाणंतए / अहवा पंचविहे अणंतए पण्णत्ते। तं जहा- एगओणंतए, दुहओणंतए, देसवित्थाराणंतए, सव्ववित्थाराणंतए, सासयाणंतए। पंचविहेत्यादिसूत्रद्वयं प्रतीतार्थम्, नवरं नाम्नाअनन्तकं नामानन्तकम्, अनन्तकमिति यस्य नाम यथासमयभाषया-ऽवस्थमिति / स्थापनैव स्थापनया वा अनन्तकं स्थापनाऽनन्तकम्, अनन्तक मिति कल्पनयाऽकादिन्यासः।ज्ञशरीरादिव्यतिरिक्तम्, द्रव्याणामण्वादीनां गणनीयानामनन्तकं द्रव्याऽनन्तकं, गणना संख्यानं तल्लक्षणमनन्तकमविवक्षिताऽण्वादिसंख्येयविषयः संख्याविशेषो गणनाऽनन्तकम्, प्रदेशानां संख्येयानामनन्तकं प्रदेशाऽनन्तकमिति। एकतएकेनांशेनाऽऽयामलक्षणेनाऽनन्त-कमेकतोऽनन्तकम्-एकश्रेणीकं क्षेत्रम, द्विधाआयामविस्तारा-भ्यामनन्तकं द्विधाऽनन्तकं प्रतरक्षेत्रम् क्षेत्रस्य यो रुचकापेक्षया पूर्वाद्यन्यतरदिग्लक्षणो देशस्तस्य विस्तारो विष्कम्भस्तस्य प्रदेशाऽपेक्षयाऽनन्तकं देशविस्ताराऽनन्तकम्, सर्वाकाशस्यतुचतुर्थम, शाश्वतंचतदनन्तकं च शाश्वतानन्तकमनाद्यपर्यवसितंयतीवादिद्रव्यम्, अनन्तसमय-स्थितिकत्यादिति।स्था०५ ठा०३ उ दसविहे अणंतए पण्णत्ते / तं जहा- णामाणंतए, ठवणाणंतए, दव्वाणंतए, गणणाणतए, पएसाणंतए, एमओणंतए दुहओणंतए, देसवित्थाराणंतए, सव्व-वित्थाराणंतए, सासयाणंतए। नामाऽनन्तकम् - अनन्तकमित्येषां नामभूता वर्णानुपूर्वी यस्य, या सचेतनादेर्वस्तु नोऽनन्तकमिति नाम तन्नामाऽनन्तकम् / स्थापनाऽनन्तकं- यदक्षादावनन्तकमिति स्थाप्यते / द्रव्या- ऽनन्तकं जीवद्रव्याणां पुद्गलद्रव्याणां वा यदनन्तकम्, गणनाऽनन्तकं- यदेको द्वौ त्रय इत्येवं संख्याता असंख्याता अनन्ता इति संख्यामानव्यपेक्षं संख्यामात्रतया संख्यातमात्रं व्यपदिश्यत इति / प्रदेशाऽनन्तकम् - आकाशप्रदेशानां यदानन्त्यमिति / एकतोऽनन्तकम्, अतीताऽद्धा अनागताऽद्धा वा द्विधाऽनन्तकम्, सर्वाद्धा देशविस्तारानन्तकम्- एक आकाशप्रतरः / सर्वविस्ताराऽनन्तकं सर्वाऽऽकाशाऽस्तिकाय इति / शाश्वताऽनन्तकमक्षयं जीवादि द्रव्यमिति / स्था० 10 ठा०।। से किं तं अणंतए ? अणंतए तिविहे पण्णत्ते / तं जहापरित्ताणतए, जुत्ताणतए, अणंताणतए / से किं तं परित्ताणतए ? परित्ताणतए तिविहे पण्णत्ते / तं जहा-जहण्णए, उक्कोसए, अजहण्णमणुक्कोसए। से किं तं जुत्ताणतए ? जुत्ताणंतए तिविहे पण्णत्ते। तं जहा-जहण्णए, उक्कोसए, अजहण्णमणुक्कोसए। से किं तं अणंताणतए ? अणंताणतए दुविहे पण्णत्ते / तं जहाजहण्णए, अजहण्णमणुक्कोसए। अनन्तकमपि- परीत्तानन्तकं, युक्तानन्तकम्, अनन्तानन्तकम्। अत्राऽऽद्याऽनन्तभेदद्वये जघन्यादिभेदात् प्रत्येकं त्रैविध्यम् / अनन्ताऽनन्तकं तु- जघन्यमजघन्योत्कृष्टमेव भवतीति / उत्कृष्टाऽनन्ताऽनन्तकस्य क्वाऽप्यसंभवादिति सर्वमपीदमष्टविधम्। अनु०॥ जहण्णयं परित्ताणतयं के वइअं होई? जहण्णय असंखेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्मासो पडिपुण्णो जहण्णयं परित्ताणतयं होइ, अहवा उक्कोसए असंखेनासंखेज्जए रूवं पक्खित्तं जहण्णयं परित्ताणं तयं होइ, तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं परित्ताणतयं ण पावइ / उक्कोसयं परित्ताणतयं के वइयं होइ ? जहण्णय परित्ताणंतयमेत्ताणं रासीणं अण्णमण्णमासो रूवूणो उक्कोसयं परित्ताणतयं होइ, अहवा जहण्णयं जुत्ताणतयं रूवूणं उक्कोसयं परित्ताणतयं होइ। जहण्णयं जुत्ताणतयं केवइयं होइ? जहण्णयं परित्ताणं तयमेत्ताणं रासीणं अण्णमण्णमासो पडिपुण्णो जहण्णयं जुत्ताणतयं होइ, अहवा उक्कोसए परित्ताणतए रूवं पक्खित्तं जहण्णयं जुत्ताणंतयं होइ, अभवसिद्धिआ वितत्तिआ होइ, तेण परं अजहण्णमणुक्कोसयाइंजाव उक्कोसयं जुत्ताणतयं ण पावइ / उक्कोसयं जुत्ताणतयं केवइ होइ? जहण्णएणं जुत्ताणतएणं अमवसिद्धिआ गुणिता अण्णमणब्मासो रूवूणो उक्कोसयं जुत्ताणतयं होइ,अहवा जहण्णयं अणंताणतयं रूवूर्ण उक्कोसयं जुत्ताऽणंतयं होइ। जहण्णयं अणंताऽणतयं केवइअं होइ ? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिआगुणिआअण्णमण्णमासो पडिपुण्णो जहण्णयं अणंताणतयं होइ, अहवा उक्कोसएजुत्ताणतएवं पक्खित्तं जहण्णयं अणंताऽणंतयं होइ, तेण परं अजहण्णमणुक्कोसयाई ठाणाइं। जघन्यपरीत्तानन्तके यावन्ति रूपाणि भवन्ति, तावत्संख्येयानां राशीनां प्रत्येकं जघन्यपरीत्तानन्तक प्रमाणानां पूर्ववदन्योऽन्याऽभ्यासरूपोनमुत्कृष्ट परीत्ताऽनन्तकं भवति / 'अहवा जहण्णयं जुत्ताणतयमित्यादि स्पष्टम्। 'जहण्णयं जुत्ताऽणतयं केत्तिय-मित्यादि' व्याख्यातार्थमेव। 'अहवा उक्कोसयं परित्ताऽणतयं' इत्यादि सुबोधम्। जधन्येचयुक्तानन्तके यावन्तिरूपाणि भवन्त्यभवसिद्धिका अपिजीवाः, केवलिना तावन्त एव दृष्टाः / तेण परमित्यादि' कण्ठ्यम् / 'उक्कोसयं जुत्ताणतयं केत्तियमित्यादि, जघन्येन युक्तानन्तकेनाऽभव्यराशिर्गुणितो रूपोनं सन्नुत्कृष्टं युक्ताऽनन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्ताऽनन्तकं सम्पद्यते / अत एवाऽऽह- 'अहया जहण्णयं अणंताणं तयमित्यादि' गतार्थम् / 'जहण्णय अणंताणतयं केत्तियमित्यादि' भावितार्थमेव / अहवा उक्कोसए जुत्ताणंतए इत्यादि' प्रतीतमेव / 'तेण परं अजहण्णमणुक्कोसयाई इत्यादि' जघन्यादनन्तानन्तकात् परतः सर्वाण्यपि अजघन्योत्कृष्टानि एवाऽनन्ताऽनन्तकस्य स्थानानि भवन्ति, उत्कृष्टमनन्ताऽनन्तकं नाऽस्त्येवेत्यभिप्रायः / अन्ये त्वाचार्याः प्रतिपादयन्तिअजघन्यमनन्ताऽनन्तकं धारत्रयं पूर्व वयेते, ततश्चैते षड्अनन्तकाः प्रक्षेपाः प्रक्षिष्यन्ते। तद्यथा