SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अगडदत्त 154 - अभिधानराजेन्द्रः - भाग 1 अगडदत्त कुलादिकं सर्वविद्यानैपुण्यं च कथितम् / कुमारवृत्तान्तं श्रुत्वा चमत्कृतो भूपतिः / अथ तस्मिन्नेवावसरे राज्ञः पुरो नगरलोकः प्राभृतं मुक्त्या एवमूचिवान् - हेदेव! त्वन्नगरं कुबेरसदृशं कियदिनानियावदासीत् साम्प्रतं घोरपुरतुल्यमस्ति / केनापि तस्करेण निरन्तरं मुष्यते, अतस्त्वं रक्षा कुरु / राज्ञा तलारक्षा आकारिता भृशं वचोभिस्त-र्जिताः / तैरुक्तम्महाराज ! किं क्रियते, कोऽपि प्रचण्डस्त-स्करोऽस्ति, बहूपक्रमेऽपि न दृश्यते। ततः कुमारेणोक्तम् ाजन् ! अहंसप्तदिनमध्ये तस्करकर्षणं चेन्न करोमि ततोऽग्नि प्रवेशं करिष्यामीति प्रतिज्ञा कृता। राज्ञा तु पुरलोकप्राभृतं कुमाराय दत्तम् / कुमारस्तत उत्थाय चौरस्थानानि विचारयति स्म / "वेसाणं मंदिरेसु, पाणागारेसु जूयठाणेसु / कुल्लूरियठाणेसु अ, उज्जाण-निवाणसालासु॥१॥ मठसुन्नदेवलेसु य, चच्चरचउहवसुन्नसालासु। एएसु ठाणेसु जओपाएणं तक्करो होइ'' ||2|| एवं चौरस्थानानि पश्यतः कुमारस्य षड् दिनानि गतानि। पश्चात्सप्तमदिने नगराद् बहिर्गत्वाऽधः स्थितः चिन्तयति स्म- "छिज्जउ सीसं अह होउ बंधणं चयउ सव्वहा लच्छी। पडिव-त्रपालणेसु पुरिसाणं जं होइ तं होउ" ||1|| एवं चिन्तयन्नसौ कुमार इतस्ततो दिगवलोकनं करोति स्म। तस्मिन्नवसरे एकः परि-हितधातुवस्त्रो मुण्डितशिरःकूर्चस्त्रिदण्डधारी चामरहस्तः किमपि बुड् बुड् इति शब्दं मुखने कुर्वाणः परिव्राजकस्तत्रायातः / कुमारेण दृष्टश्चिन्तितञ्च-अयमवश्यं चौरः, यतोऽस्य लक्षणानी-दृशानि सन्ति- "करिसुण्डाभुयदण्डो, विसालवच्छत्थलो पुरुस-वेसो। नवजुव्वणो रउद्दो, रत्तच्छो दीहजंघो य" ||1|| एवं चिन्तयतः कुमारस्य तेन कथितम् अहो सत्पुरुष ! कस्त्वमायातः कुतः?, केन कारणेन पृथिव्यां भ्रमसि ? | कुमारेण भणितम्- उज्जयनीतो-ऽहमत्रायातः दारिद्रयभग्नो भ्रमामि / परिव्राजक उवाच- पुत्र ! त्वं मा खेदं कुरु, अद्य तव दारिद्रयं छिनधि, समीहितमर्थ ददामि / ततो दिवसं यावत् तत्र स्थितौ / रात्री कुमारसहितश्चौरः / कस्य-चिदिभ्यस्य गृहे गतः / तत्र खात्रं दत्तवान् / तत्र स्वयं प्रविष्टः / कुमारस्तु बहिः स्थितः / परिव्राजकेन द्रव्यभृताः पेटिकास्ततो बहिष्कर्षिताः / ताः खात्रमुखे कुमारसमीपे मुक्त्वा स्वयमन्यत्र क्वचिद् गत्वा दारिद्रयभग्नाः पुरुषा अनेके आनीताः / तेषां शिरसि ताः पेटिका दत्त्वा कुमारेण समं स्वयं बहिर्गतः। सतापसः कुमारं प्रत्येवमुवाच-कुमार! क्षणमात्रंबहिस्तिष्ठामः, निद्रासुख-मनुभवामः / परिव्राजकेनेत्युक्ते सर्वेऽपिपुरुषास्तत्रसुप्ताः, कपटनिद्रया परिव्राजकोऽपि सुप्तः। कुमारोऽपिनो तादृशानां विश्वासः कार्य इति कपटनिद्रयैव सुप्तः / तावता स परिव्राजक उत्थाय तान् सर्वान् कङ्कपत्र्या मारयामास / यावत् कुमारसमीपे समायाति स्म तावत् कुमार उत्थाय तं खड्गेन जङ्घाद्वये जघान। छिन्ने जङ्घाद्वये सतत्रैव पतितः कुमारं प्रत्येवमुवाचवत्स ! अहं भुजङ्गनामा चौरः। ममेह श्मशाने पातालगृहमस्ति / तत्र वीरपत्नीनाम्नी मम भगिन्यस्ति। अत्र वटपादपस्य मूले गत्वा तस्याः समीपे शब्दं कुरु।यथा सा भूमिगृहद्वारमुद्घाटयति त्याञ्च स्वस्वामिनं करोति। सङ्केतदानार्थ मत् खड्गं गृहाणेत्युक्ते कुमारस्तत् खड्गं गृहीत्वा तत्र गतः / स तु तत्रैव मृतः / कु मारेण सा शब्दिताऽऽगता द्वारमुद्घाटयामास / कुमारेण भ्रातुः खड्गं दर्शयित्वा स्वरूपमुक्तम् / तस्या अन्तः खेदो जातः परं न मुखे खेदं दर्शयामास / मध्ये आकारितः कुमारः पल्यङ्के शायितः / उक्तञ्च तव विलेपनाद्यर्थ चन्दनादिकमहमानयामीति ततो निर्गता। कुमारेण चिन्तितम्- प्रायः स्त्रीणां विश्वासो न कार्यः / यतःशास्त्रे इमे दोषाः प्रायो निरुपिताः"माया अलियं सोमो, मूढत्तं साहसं असोयत्तं / निसत्तिया तह चिय, महिलाण सहावया दोसा'' एतस्यास्तु तथाविधचौरभगिन्या विश्वासो नैव कार्य इति विचिन्त्य कुमारः शय्यां मुक्त्याऽन्यत्र गृहकोणे स्थितः। साबहिर्गत्वा यन्त्रप्रयोगेण शय्योपरि शिला मुमोच। तया शय्या चूर्णिता। ततः कुमारेण सा सद्यः साक्रोशं केशेषु धृता राज्ञः समीपमानीता। प्रोक्तः सर्योऽपि वृत्तान्तः। राज्ञा तद्भूमिगृहात् समस्तं वित्तमानाय्य लोकेभ्यो दत्तम्। कुमारेण साजीवन्ती मोचिता पश्चान्नृपाग्रहात् कुमारेण नृपसुता कमलसेनानाम्नी परिणीता 1 नृपेण कुमाराय सहसं ग्रामा दत्ताः, शतं गजा दत्ताः, दश सहस्राण्यश्वा दत्ताः, लक्षं पदातयो दत्ताः / ततः सुखेन कुमारस्तत्र तिष्ठति स्म / अन्यदा कलाभ्यास. समये यया श्रेष्ठिसुतया सह प्रीतितिाऽऽसीत्तया मदनमञ्जा कुमारसमीपे दूती प्रेषिता। तया उक्तम् तव गुणानुरक्ता तवैवेयं पत्नी भवितुं वाञ्छति। कुमारेणाप्युक्तम् यदाऽहं शङ्खपुरं यास्यामि तदा त्यां गृहीत्वा यास्यामीति तस्यै त्वया वक्तव्यम् / अथान्यदा तत्र पित्रा प्रेषिता नराः कुमाराकारणाय समेताः / कुमारस्तु तेषां वचनमाकर्ण्य पितुर्मिलनाय भृशमुत्कण्ठितः श्वशुरं पृष्ट्वा कमलसेनया समं चलितः / चलनसमये च मदनमञ्जरी आकारिता। साऽपि कुमारेण समं चलिता। ताभ्यां प्रियाभ्यां सह सैन्यवृतः कुमारः पथि चलन् बहून् भिल्लान् संमुखमाफ्ततो ददर्श / तदा कुमारसैन्येन तैः समं युद्धं कृतम् / भग्नं कुमारसैन्यं भिल्लैलुण्ठितमितस्ततो गतम् / भिल्लपतिस्तु कुमाररथे समायातः / उत्पन्नबुद्धिना कुमारेण स्वपत्नी स्थानभागे निवेशिता / तस्या रूपेण मोहङ्गतो भिल्लपतिः कुमारेण हतः। पतिते च तस्मिन् सर्वेऽपि भिल्ला नष्टाः / कुमारस्तु तेनैव एकेन रथेन गच्छन् अग्रे महतः सार्थस्य मिलितः / सार्थोऽपि सनाथ इव मार्गे चलति स्म / कियन्मार्ग गत्वासार्थकैः कुमाराय एवमुक्तम्-कुमार! इतः प्रध्वरमार्गे भयं वर्तते, ततः प्रध्वरमार्ग विहाय अपरेण मार्गेण गम्यते।कुमारेणोक्तम्-किं भयम् ? ते कथयन्तिस्म-अस्मिन् प्रध्वरमार्गे महत्यटवी समेष्यति, तस्या मध्ये महानेकश्चौरो दुर्योधननामा वर्तते, द्वितीयस्तुगरिवं कुर्वन् विषमो गजो वर्तते / तृतीयो दृष्टिविषसो वर्तते / चतुर्थो दारुणो व्याघ्रो वर्तते / एवं चत्वारि भयानि तत्र वर्तन्ते / कुमारः प्राह- एतेषां मध्ये नैकस्यापि भयं कुरुत।चलत सत्वरं मार्गे ।कुशलेनैव शङ्कपुरे यास्यामः। ततः सर्वेऽपि तस्मिन्नेवाध्वनि चलिताः। अग्रे गच्छतां तेषां दुर्योधनश्चौरस्त्रिदण्डभाग् मिलितः / सोऽपि पान्थोऽहं शङ्कपुरे समेष्यामीति वदन् सार्थेन सार्द्ध चलति स्म। मार्गे चैकः सन्निवेशः समायातः। तदा त्रिदण्डिना उक्तम्मम उपलक्षितोऽयं सन्निवेशो वर्तते। तेनात्र गत्या भयादध्यादि आनीयते, यदि भवद्भ्यो रुचिः स्यात् / सार्थिकरुक्तम् आनीयताम् / ततस्तेन तदन्तर्गत्वा आनीतं दध्यादि विषमिश्रितं कृत्वा सर्वे पायिताः / ततो मृताः सर्वे सार्थिकाः / अगडदत्तेन भार्याद्वययुतेन न पीतमिति न मृतः सः / त्रिदण्डी पुनः सन्निवेशमध्ये गत्वा कियत्परि-वारयुतो गृहीतशस्त्रः कुमारमारणायाऽऽयातः / कुमारेण खड्गं गृहीत्वा संमुखं गत्वा घोरसंग्रामकरणेन स हतः / परि-वारस्तु नष्टः / भूमौ पतता तेन चौरेणैवमुक्तम्-अहंदुर्योधनश्चौरः प्रसिद्धः, त्वयाऽहं हतो नजीविष्यागि, परं मम बहु द्रव्यं वर्तते, मम भगिनी जयश्रीनाम्नी चैतद्वनमध्येऽस्ति, तत् त्वया गृहीतव्यं सा च पत्नी कार्या। कुमारस्तत्र गतः। साऽऽहूता सामाया भावा /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy