SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ अंतर 65 - अभिधानराजेन्द्रः - भाग 1 अंतर ईसिप्पन्भाराए णं भंते ! पुढवीए अलोगस्स य के वइए अबाहाए पुच्छा, गोयमा ! देसूणं जोअणए अबाहाए अंतरं पण्णत्ते। (देसूणं जोयणंति) इह सिद्ध्यलोकयोर्देशोनं योजनमन्तरमुक्तम्, आवश्यके तु योजनमेव / तत्र च किशन्न्यूनताया अविवक्षणान्न विरोधो मन्तव्य इति / भ०४ श०८ उ० (3) क्षुद्रहिमवत्कूटस्योपरितनाचरमान्ताद्वर्षधरपर्वतस्य समधरणितलेऽन्तरम्चुल्लहिमवंतकूण्डस्स णं उवरिल्लाओ चरमंताओ चुल्लहिमवंतस्स वासहरपब्वयस्म समधरणितले एस णं छ जोयणसयाई अबाहाए अंतरे पण्णत्ते / एवं सिहरिकूडस्स वि। इह भावार्थो हिमवान् योजनशतोच्छ्रितस्तत्कूट पञ्चशतो-च्छ्रितमिति सूत्रोक्तमन्तरम्भवतीति। स०। (4) गोस्तूभस्य पौरस्त्याच्चरमान्ताद् वडवामुखस्य पाश्चात्यचरमान्तेऽन्तरम्गोथूभस्सणं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स पच्चच्छिमिल्ले चरमंते, एस णं बावन्नं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते। (गोथूभेत्यादि) गोस्तूभस्य प्राच्यां लवणसमुद्रमध्यवर्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याचरमान्तादपसृत्य वडवामुखस्य महापातालकलशस्य पश्चात्यश्चरमान्तो येन भवतीति गम्यते / (एस णं ति) एतदन्तरमध्ये ऽबाधया व्यवधानलक्षणमित्यर्थः / द्विपञ्चाशद्योजनसहस्राणि भवन्तीत्यक्षरघटना / भावार्थस्त्वयम् इह लवणसमुद्रं पञ्चनवतियोजनसहस्राण्यवगाह्य पूर्वादिषु दिक्षु चत्वारः क्रमेण वडवामुखकेतुकयूप केश्वराभिधाना महापातालकलशा भवन्ति / तथा जम्बूपर्यन्ताद्विचत्वारिंशधोजनसहस्राण्यवगाह्य सहस्रविष्कम्भाश्चत्वार एव वेलन्धरनागराजपर्वताः गोस्तूभादयो भवन्ति / ततश्च पञ्चनवत्यास्त्रिचत्वारिंशत्यपकर्षितायां द्विपञ्चाशत्सहस्राण्यन्तरं भवति / स०५१ समा (5) जम्बूद्वाराणं परस्परमन्तरम्जंबूदीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य केव-इए अबाहाए अंतरे पण्णत्ते ? गोयमा! अउणासीइंजोअणसहस्साई बावण्णं च जोअणाई देसूणं च अद्धजोअणं दारस्स य दारस्स य अबाहाए अंतरे पण्णत्ते / जी०। जम्बूद्वीपस्य णमिति प्राग्वत् भदन्त ! द्वीपस्य संबन्धिनो द्वारस्य 2 च कियत् किं प्रमाणम् (अबाहाए अंतरेत्ति) बाधा परस्परं संश्लेषतः पीडनं, न बाधा अबाधा / तथा कियदन्तरं व्यव-धानमित्यर्थः प्रज्ञाप्तम् / इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तद्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमबाधा ग्रहणम्। अत्र निर्वचनं भगवानाह गौतम ! एकोनाशीतिर्योजन-सहस्राणि द्विपञ्चाशद्योजनानि देशोनं चार्द्धयोजनं द्वारस्य द्वारस्य चाबाधया अन्तरं प्रज्ञप्तम् / तथाहि जम्बूद्वीपपरिधिः प्राग-निर्दिष्टयोजनानि तिस्रो लक्षाः, षोडश सहस्राणि, द्वे शते सप्तविंशन्त्यधिके (316227) क्रोशत्रयम् (3) अष्ट- विंशधनुःशतं | (128) त्रयोदशाङ्गुलानि (13) एकमर्धाङ्गुलमिति / अस्माद् द्वारचतुष्कविस्तारोऽष्टादश योजनरूपोऽपनीयते यत एकैकस्य द्वारस्य विस्तारो योजनानि चत्वारि चत्वारि (4) प्रतिद्वारम् / द्वार - शाखाद्वयविस्तारश्च क्रोशद्वयं कोशद्वयम् / अस्मिंश्च द्वारस्य शाखयोश्च परिमाणे चतुर्गुणे जातान्यष्टादश योजनानि (18) ततस्तदपनयने शेषपरिधिसत्कस्यास्य योजनरूपस्य (316206) चतुर्भागलब्धानि योजनानि एकोनाशीतिः सहस्राणि द्विपञ्चाशदधिकानि (76052) क्रोशश्चैकः / तथा परिधिसत्कस्य क्रोशत्रयस्य धनुष्करणे जातानि धनुषां षट् सहास्राणि (6000) एष च परिधिसत्कः अष्टाविंशत्यधिक धनुःशतकस्य क्षेपे जातानि धनुषामेकषष्टिशतान्यष्टाविंशत्यधिकानि (६१२८)ततोऽस्य चतुभिर्भागे लब्धानि पञ्चदशशतानिद्वात्रिंशदधिकानि (1532) यानि च परिधिसत्कत्रयोदश अङ्गुलानि (13) तेषामपि चतुर्भिर्भागे लब्धानि त्रीण्यङ्गुलानि (3) शेषे चैकस्मिन्नङ्गुले यवाः अष्टौ (8) एषु परिधिसत्कयवपञ्चक (5) क्षेपे जातात्रयोदश यवाः (13) एषां च चतुर्भिागे लब्धास्त्रयो यवाः (3) शेषे चैकस्मिन्ये यूकाः अष्टौ (8) आसुपरिधि सत्कैकयूकाक्षेपे जाता नव () आसां चतुर्भिर्भागे लब्धे द्वे यूके (2) शेषस्याल्पत्वान्न विवक्षा। एतच्च सर्व देशोनमेकं गव्यूतमिति जातं पूर्वलब्धगव्यूतेन सह देशोनमर्द्धयोजनमिति। जं०१ वक्षा"इममेवा) द्विर्बद्धं सुबद्धमिति" अबद्धसूत्रतो बद्धसूत्रं लाघवरुचिसत्त्वानुग्राहकमिति वा गाध्याऽऽह / "कटुदुवारपमाणं, अट्ठारस जोयणाई परिहाए / सोहियचउहि विभत्ते, इणमो दारंतरंहोइ।।१।।अउणासीइसहस्सा, बावण्णा अद्ध जोयणं तूणं / दारस्य यदारस्स य, अंतरमेयं विणि-ट्ठि' // 2 // जी०३ प्रति० स०) (6) जम्बूद्वीपस्य पौरस्त्यचरमान्ताद् गोस्तूभस्य पाश्चात्यचरमान्ते अन्तरमाहजंबूदीवस्स णं दीवस्स पुरथिमिल्लाओ चरमंताओ, गोथूभस्स णं आवासपव्वयस्स पचच्छिमिल्ले चरमंते एस णं बायालीसं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते / एवं चउद्दिसिंपि दगमासे संखोदयसीमे य। (पुरथिमिल्लाओ चरिमंताओ त्ति) जगतीबाह्यपरिधेरपसृत्य गोस्तूभस्यावासपर्वतस्य वेलन्धरनागराजसंबन्धिनः पाश्चात्यसीमान्तश्वरमविभागो वा यावताऽन्तरेण भवति। (एस णंति) एतदन्तरं द्विचत्वारिंशत् योजनसहस्राणि प्रज्ञप्तमन्तरशब्देन विशेषो-ऽप्यभिधीयते इत्यत आह (अबाहाएत्ति) व्यवधानापेक्षया यदन्तरं तदित्यर्थः। (7) जम्बूद्वीपस्य पौरस्त्याद्वेदिकान्तात् धातकीखण्डस्य पाश्चात्यचरमान्ते अन्तरम् - जंबूदीवस्म णं दीवस्य पुरथिमिल्लाओ वे इयंताओ धायइखंडचक्कवालस्य पञ्चच्छिमिल्ले चरमंते सत्तजोयणसयसहस्साई अबाहाइ अंतरे पण्णत्ते। तत्र लक्षं जम्बूद्वीपस्य द्वे लवणस्य चत्वारि घातकीखण्डस्येति सप्त लक्षाण्यन्तरं सूत्रोक्तम्भवतीति (700000) (8) जिनान्तराणि - जम्मा जम्मो जम्मा, सिवं सिवा जम्म मुक्खओ मुक्खा इय चउजिणंतराइं, इत्थं चउत्थं तुनायव्वं // 26 // सत्त०१६५ द्वा०। सांप्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् तत् प्रतिपाद्यत इत्यनेन संबन्धेन जिनान्तरागमनं, तत्रापि तावत् प्रसंगत एव कालतो जिनान्तराणि निर्दिश्यन्ते
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy