SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ अहुणोववन्नग 889 - अभिधानराजेन्द्रः-विभाग 1 अहुणोववन्नग देवजुइं, दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं / इच्चेएहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए संचारित्तए हव्वमागच्छित्तए ||3|| अधुनोपपन्नो देवः क्व ? इत्याह-(देवलोगेसु त्ति) इह च बहुवचनमेकस्यैकदाऽनेकेषूत्पादासम्भवादेकार्थे दृश्यम्, वचन-व्यत्ययाद् देवलोकानेकत्वोपदर्शनार्थ वा, देवलोकेषु मध्ये क्वचिदेवलोक इति, इच्छेदभिलषेत् पूर्वसङ्गतिकदर्शनाद्यर्थ मानुषाणामयं मानुषस्तम्। (हव्वं ति) शीघ्रम् (संचाए ति) शक्नोति / दिवि देवलोके भवा दिव्यास्तेषु कामौ च शब्दरूपलक्षणौ भोगाश्च गन्धरसस्पर्शाः कामभोगाः, तेषु / अथवा- काम्यन्त इति कामा मनोज्ञाः,तेच इति भुज्यन्त इति भोगाः शब्दादयः, ते च कामभोगास्तेषु, मूञ्छित एव मूच्छितो मूढः, तत्स्वरूपस्याऽनित्यत्वादेर्विबोधाऽक्षमत्वात् गृद्धः,त-दाकाशावानतृप्त इत्यर्थः / ग्रथित इव ग्रथितस्तद्विषये स्नेहरज्जुभिः संदर्भित इत्यर्थः / अध्युपपन्न आधिक्येनासक्तोऽत्यन्ततन्मना इत्यर्थः / नो आद्रियते, न तेष्वादरवान् भवति, नो परिजानाति-एतेऽपि च वस्तुभूता इत्येवं न मन्यते। तथा तेष्विति गम्यते।नो अर्थ बध्नाति। एतैरिदं प्रयोजनमिति न निश्चयं करोति / तथा- तेषु नो निदानं प्रकरोति- एते मे भूयासुरित्येवमिति / तथा- तेष्वेव नो स्थितिप्रकल्पमवस्थाने विकल्पनम्- एतेष्वहं तिष्ठेयमिति, एते वा मम तिष्ठन्तु स्थिरीभवन्त्वित्येवरूप स्थित्या वा मर्यादया विशिष्टप्रकल्प आचार आसेवेत्यर्थः / तं प्रकरोति कर्तृमारभते, प्रशब्दस्यादिकार्थत्वादिति / एवं दिव्यविषयप्रशक्ति- रित्येकं कारणम् 1 / तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूञ्छितादिविशेषणो भवति, अतस्यस्य मानुष्यकं मनुष्यविषयं, प्रेम स्नेहो, येन मनुष्यलोके आगम्यते तद्व्यवच्छिन्नम, दिवि भवं दिव्यं स्वर्गगतवस्तुविषय संक्रान्तं तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसंक्रान्तिरिति द्वितीयम् 2, तथाऽसौ देवो यतो दिव्यकामभोगेषु मूच्छितादिविशेषणो भवति, ततस्तत्-प्रतिबन्धात् (तस्स णं ति) तस्य देवस्य (एवं ति) एवंप्रकार चित्तं भवति, यथा(इयण्डिं ति) इदानीं गच्छामि (मुहत्तं ति) मुहूर्तेन गच्छामि, कृत्यसमाप्तावित्यर्थः / (तेणं कालेणं ति) येन तत्कृत्यं समाप्यते, स च कृतकृत्यत्वादागमनशक्तो भवति, तेन कालेन गतेनेति शेषः / तस्मिन् वा काले गते, 'ण' शब्दो वाक्याऽलङ्कारे। अल्पाऽऽयुषः स्वभावादेव मनुष्यमात्राऽऽदयो यदर्शनार्थमाजिगमिषति, तेन कालधर्मेण मरणेन संयुक्तो भवति / कस्याऽसौ दर्शनार्थमागच्छति ? असमाप्तकर्तव्यता नाम तृतीयमिति (इच्चेत्यादि) निगमनम् 3 / / देवः कामेषु कश्चिदमूञ्छितादिविशेषणो भवति / तस्य च मन इति | गम्यते / एवंभूतं भवति आचार्यप्रतिबोधकप्रव्राज-कादिरनुयोगाचार्यो वा / इति एवं प्रकारार्थो, वाशब्दो विकल्पार्थः / प्रयोगस्त्वेवम्- मनुष्यभवेऽयं ममाऽऽचार्योऽस्तीतिवा, उपाध्यायः सूत्रदाता, सोऽस्तीतिवा। एवं सर्वत्र, नवरं प्रवर्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती / उक्तं च- "तवसंयमयोगेसुं, जो जोगो तत्थ तं पयट्टेइ / असुहं च नियत्तेइ, गणतत्तिल्लो पवत्तीओ" ||1|| प्रवर्तिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोतीति स्थविरः / उक्तञ्च-थिरकरणा पुण थेरो, पवत्ति वावारिएसु अत्थेसु। जो जत्थ सीयइ जइ, संतबलो तं थिरं कुणइ॥१॥ गणोऽस्याऽस्तीति गणी, गणाचार्यः,गणधरो जिनशिष्यविशेषः / आर्यिकाप्रतिजागरको वा साधुविशेषः / उक्तञ्च- पियधम्मे दढधम्मे, संविग्गो उज्जओ य तेयंसी / संगहुबग्गहकुसलो, सुत्तत्थविऊ गणाहिवई / / 1 / / गणस्याऽवच्छेदो विभागोंऽशो-ऽस्यास्तीति / यो हि गणान् संगृहीत्वा गच्छोपष्टम्भायैवोपधि-मार्गणादिनिमित्तं विहरति स गणावच्छेदिकः / आह च- ओहावणापहावण- खेत्तोवहिमग्गणासु अविसाई / सुत्तत्थत-दुभयविऊ, गणावच्छो एरिसो होइ / / 1 / / (इम त्ति) इयं प्रत्यक्षा-सन्ना, एतदेव रूपं यस्याः ,नकालाऽन्तरेरूपान्तरभाक्, सा एतद् रूपा, दिव्या स्वर्गसम्भवा प्रधाना वा देवानां सुराणामृद्धिः श्रीर्विमानरत्नादिसंपद्-देवर्धिः / एवं सर्वत्र, नवरं द्युतिर्दीप्तिः शरीराभरणादिसम्भवा, युतिर्वा युक्तिरिष्टपरिवारादिसंयोग-लक्षणाऽनुभावोऽचिन्त्या वैक्रियकरणादिका शक्तिलब्ध उपार्जितो जन्मान्तरे प्राप्त इदानीमुपनतः, अभिसमन्वागतो भोग्यतां गतः / तदिति तस्मात्तान् भगवतः पूज्यमानान् वन्दे स्तुतिभिर्नमस्यामि, प्रणामेन सत्करोमि अत्यादरकरणेन वस्त्रादिना वा संमानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमिति बुद्ध्या पर्युपासे, सेवे। इत्येकम् 1 / / (एस णं ति) एषोऽवध्यादिप्रत्यक्षीकृतः मानुष्यके भये,वर्तमान इतिशेषः / मनुष्य इत्यर्थः / ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति दुष्कराणां सिंहाकायोत्सर्गकरणादीनां मध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाऽप्रकम्प-ब्रह्मचर्याऽनुपालनादिकं करोतीति अतिदुष्करकारकः, स्थूलभद्रवत्, तस्मात् / (गच्छामि त्ति) पूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षया बहुवचनमिति / तान् दुष्करदुष्करकारकान् भगवतो वन्दे इति द्वितीयम् / तथा- 'मायाइ वा पियाइ वा भजाइ वा भइणीइ वा पुत्ताइ वा धूयाइ वा" इति यावत्, शब्दाऽऽक्षेपः / स्नुषा पुत्रभार्या / तदिति तस्मात् तेषामन्तिके समीपे प्रादुर्भवामि प्रकटीभवामि / (ता मे त्ति) तावत् मे ममेति तृतीयम् 3 / स्था०३ ठा०३ उ० चउहिं ठाणेहिं अहुणोववण्णे णेरइए णिरयलोगंसि इच्छेञ्जा माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएइ हव्वमागच्छित्तए // 1 // अहुणोववन्ने णेरइए णिरयलोगंति समुभूयं वेयणं वेयमाणे इच्छेजा माणुसं लोग हव्वमागच्छित्तए, णो चेवणं संचाएइ हव्व-मागच्छित्तए।।२।। अहुणोववन्ने णेरइए णिरयलोगंसि णिरयपालेहिं भुजो भुजो अहिट्ठिजमाणे इच्छेजा माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाइए हव्वमागच्छित्तए ||3|| अहुणोववन्ने णेरइए णिरयवेयणिज्जंसि कम्मंसि अक्खीणंसि अवेइयंसि अणिजिण्णंसि इच्छेञ्जा, नो चेव णं संचाएइ, एवं निरइया ओअंसि कम्मंसि अक्खीणंसि जाव णो चेवणं संचाएइ हव्वमागच्छित्तए|४|| इथेएहिं चउहिं ठाणेहिं अहुणोववन्ने णेरइए० जाव नो चेव णं संचाएइ हव्वमागच्छित्तए।।५।। अधुना जीवसाधयन्त्रिारकजीवानाश्रित्य तदाह- (चउही-त्यादि) सुगम, केवलं (ठाणेहिं ति) कारणैः / (अहुणोववन्ने त्ति) अधुनोपपन्नोऽचिरोपपन्नो निर्गतोऽयः शुभमस्मादिति निरयो नरकः,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy