________________
केशवकृतः कल्पद्रुकोशः ३३ बाहुकण्ठो दोगडुः स्यात्खो ह्रस्वश्च वामनः। विखर्वः खट्टनः खर्वशाखा वधिर एडकः ॥११॥ कर्णपर्यायशून्यार्थः कल्लो वर्कर इत्यथ । अन्धः स्यादेडमूकोऽपि हपर्यायविनार्थकः ॥११५॥ विकलाङ्गस्तु पोगण्डः खोडखोरी तु खञ्जके । ऊर्ध्वज्ञश्चापि चोर्ध्वजुरूवंजानुक इत्यपि ॥११६॥ प्रशुस्तु प्रज्ञो विरलजानुः संयुतजानुकः। संज्ञः संज्ञोप्यथोदनदन्तो दन्तुर इत्यपि ॥११७॥ एडमूको नेडमूकः कलमूकोप्यवाक्श्रुतौ । जडकाण्डो नेडमूको मूके स्यादथ काहलः ॥११॥ लोहलोस्फुटवाचि स्याजडे नामविवर्जितः। मूर्यो मन्दोऽपि तुन्दस्य पर्यायपरिमार्जकः ॥११॥ अज्ञो जडो मातृमुखो यथाजातोऽपि बालिशः । जाल्मो विपर्णो देवानां पर्यायेभ्यः प्रियार्थकः ॥१२०॥ अनद्वापुरुषो माषो जडकाण्डोऽप्यनेडकः। शीतोलसा'प्यनुष्णः स्यादनेडो मातृशासितः ॥१२१॥ नासान्तराशब्दवृत्तिकणो निह्मणोऽपि च । श्रथापि स्याप्रलम्बाण्डो मुष्करः पुंसि मुण्डितः॥१२२॥
१ शितोलस्यो। २ चमणो