SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४५४ केशवकृतः कल्पद्रुकोशः वनमाल्यर्जुनार्थेभ्यः सखा सारथिरित्यपि । अरिष्टकेशियवनकंसचाणूरमर्दनः ॥२५॥ वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः । भूकश्यपः तित्यदितिर्देवकी दैवकी च सूः ॥२६॥ अश्वाश्च 'शैव्यसुग्रीवमेघपुष्पबलाहकाः । शुकपिच्छस्वर्णमेघपाण्डुवर्णाः क्रमादमी ॥२७॥ शैव्यस्तु दक्षिणे वामे सुग्रीव उभयोरपि । पृष्ठवाहावुभावास्तां मेघपुष्प'वलाहकौ ॥२८॥ ध्वजो भुजङ्गहा मन्त्री पवनव्याधिरुद्धवः । सैन्यमेतस्य दाशार्हा दासार्हा यादवाश्च ते ॥२६॥ गदोनुजः पाञ्चजन्यो दक्षिर्णावर्त इत्यपि । शङ्खो माला वैजयन्ती चक्रमस्त्री सुदर्शनः ॥३०॥ "सुनार पुंस्यरिः खड्गो नन्दकः कौस्तुभो मणिः । अन्यः स्यमन्तकः शार्ङ्ग धनुः कौमोदकी गदा ॥३१॥ 'एकानंशा स्वसाथ स्याहारुकश्चास्य सारथिः । श्रीवत्सोङ्कोस्य गरुडो वाहनं मथुरा पुरी ॥३२॥ द्वारकाप्यथ वैदर्भी रुक्मिण्यपि च कामसूः । भैमी सत्या सत्यभामा बलदेवो हलायुधः ॥३३॥ । शैवेति पाठः सर्वत्र २ शिवस्तुOK ३ बलाहकौB ४ सुनाभःB ५ येकानंशाB स्वसाBि
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy