________________
३३६ केशवकृतः कल्पद्रुकोशः सूचीचञ्चः पीतशीर्षः 'सुगृहश्चाथ सर्षपा। खण्डालिका हालिपुत्रा तुच्छिका स्फोटिकाप्यथ ॥१६५॥ कुमारी पोतकी श्यामा ब्रह्मपुत्री धनुर्धरी । पाण्डवी पुत्रिका मोहा चटिका विष्णुलिङ्ग्यपि ॥१६६॥ दुर्गामाप्यथ गोवत्सा पुच्छाधोरक्तवर्णका। पर्यंटिका कर्णिकिका रलालट्वापरा च सा ॥१६७॥ पुच्छाधःपीतवर्णाथ फेञ्चः पोटियकः पुनः । श्रीकर्णो नीलचटक इत्याद्या अथ तित्तिरिः ॥१६८॥ तित्तिरस्तैत्तिरोऽपि स्या द्याजुषश्चापि कञ्जुलः । लघुमांसोऽथ गौरो यः स कपिञ्जल ईरितः ॥१६६ यस्तु स्यात्पाण्डुकपिलः स कुतितिर इत्युत । चित्रवर्णस्तु ककुभो वीरोल्पकपिञ्जलः ॥१७॥ वर्तिका वर्तकावतॊ वर्तकोऽपि च शब्दितः। तस्मिंल्लघुतरे पुंसि लवी लावो लवः पुनः ॥१७१॥ तत्ररक्त रक्तवा वागुदस्तु गणाधियः । करढो व्याधनः 'कर्चुनरः कूणिः कुमारकः ॥१७२॥ वर्तिका शाकुनेयस्तु "तुडो वृक्षाश्रयी पुनः । भयंकरो विशालाक्षो बृहद्रावी ततः पुनः ॥१७३।।
१ सृगृहB २ विष्फुलिङ्ग्यपिB ३ पर्पटिकाB ४ केञ्चः पारियक:B ५ याजुयB ६ गौरेयःB ७ वत्तीरोCK = पुमान्BE कडूB १० क्षुद्रोB