SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ३३५ भोरिटः श्यामचटकः शैशिरः कणभक्षकः । गृहकर्तृतमा भीरुः कृषि विष्टः कणप्रियः ॥१५६॥ नीलग्रीवो रक्तशिराः शुक्लपक्षो वनेचरः। कुरुबाहुः कुरुकुरुः स च 'वाधीणसोऽथ च ॥१५७॥ स स्यात्कृष्णोदरशिरा वर्णतः कृष्णकर्बुरः । पन्थालकः पुंसि भवेत् स्त्रियां स्याद्यवगण्डिका ॥१५८॥ सारङ्गश्चटकाकारः कृशकण्ठोऽथ हंसका। हुंकारकारका पाण्डुरोदरापि गुरुडुका ॥१५६ ॥ नीलच्छविः कृष्णगलः स ग्रामचटकाकृतिः । ककुभः ककुभाकारः स्थलजो रक्तपर्णकः ॥१६०॥ चटहा चटघातिन्यां चिरीटी तु चिरण्टिका । *फाशब्दकारी फाकारो दुन्दुभिर्दुन्दुभिध्वनिः ॥१६१॥ गोपपुत्रस्तु लोपाको दात्यूहः कालकण्ठकः । अत्यूहोऽपि च दात्यौहो मासज्ञोऽपि च सः स्मृतः॥१६२॥ क्रतुयष्टिस्तु यज्ञा) गिरिशा गिरिशाविका । गोलेडः स्यात्तु खदिरवर्णपक्षोप्यथापरः ॥१६३॥ डिण्डिमाणो डिण्डिमवच्छब्दोथ मजुलीयकः । मञ्जुनादोऽथ त्रपुषो रञ्जकस्तु प्रियात्मजः ॥१६४॥ १ द्विष्टाCk २ वाघ्रीB ३ यथालक:Ck ४ वटहा वटB ५ काशब्दकारी काकारोB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy