________________
३१४ केशवकृतः कल्पद्रुकोशः
वैशाख्यथ च नीलान्या शैवस्तु शिवशेखरः । शिवमल्ली शिवतमः सुरेष्टो वसुकः' पुनः ॥५७६॥ अपि पाशुपतश्चाथ व्यालीपर्यायवाचिका । वृश्चिका त्वलिपत्री स्यान्नखपर्णी च पिच्छिला ॥५७७ ताली २ कुम्भा पाटली स्याद्भुवः स्याद्रक्तपुष्पिका। स्यात्पाण्डुरफली' पाण्डुधूसरा वृत्तबीजका ॥५७८॥ श्वेता' तुम्बुरिकापत्री पर्वमूलाप्यविप्रिया । अजदण्डी ब्रह्मदण्डी कण्टपत्रफलाप्यथ ॥५७६॥ द्रवन्ती शम्बरी चित्रा न्यग्रोधी शणमूलिका । प्रत्यक्श्रेणी विषा चण्डा पुत्रश्रेण्याखुपर्ण्यपि ॥५८०॥ प्रतिपर्णशिफा चापि सहस्रादपि मूलिका । द्रोणपुष्पी दीर्घदला कुम्भयोनिः कुरुम्बिका ॥५८१॥ चित्रनुपः सुपुष्पा स्यात्सैवोक्ता चित्रपत्रिका । श्रथाप्यन्या महाद्रोणा देवी देवकुरुम्बका ॥५८२॥ दिव्यपुष्पी च काञ्जिः स्यादथ हुण्डुः पुमान्स्त्रियाम् गोरक्षदुग्धा गोरक्षी ताम्रदुग्धा रसायनी ॥५८३॥ अपि स्याबहुपत्री च मृतसंजीवनी शुनी । इक्षुर्मधुगुडतृणोऽसिपत्रः कुसुमाकरः ॥५८४॥
१ वसुका २ कुम्भीB ३ द्रक्तका च पुनः पुनःB ४ फलाCk ५ तुवरिकाB 4 बकाB ७ द्रोणीB ८ कुरूवका BE काजीB १० हंडःB ११ सुकुमारकः इति स्यात् ।