SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः २०५ मायाकारः शाम्बरीस्यान्मायी च शाम्बरी'त्यपि । शैलालयस्तु शैलूषा जायाजीवाः कृशाश्विनः ॥२६॥ भरताश्च नटाश्चापि चारणाश्च कुशीलवाः । मार्दङ्गिका मौरजिकाः पाणिघाः पाणिवादकाः॥२७॥ स्याद्वेणुध्मा वैणविको वीणावादी तु वैणिकः । जीवान्तकः शाकुनिको वागुरी जालिकः समौ ॥२८॥ वैतंसिको हिंसकः स्यान्मांसिको मांसविक्रयी। भृतिभुग भृतिकः कर्मकरो वैतनिकश्च सः ॥२६॥ वार्तावहो वैवधिको भारवाहस्तु भारिकः । भारवाडथ नीचस्तु विवर्णः पामरेतरौ ॥३०॥ प्राकृतोऽपसदो जाल्मो निहीनश्च पृथग्जनः । क्षुल्लकप्रैष्यदासेयदासदासेरचेटकाः ॥३१॥ नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारकाः । पराचितपरिस्कन्न परजातपधिताः ॥३२॥ भृत्यः कडारो मन्दस्तु तुन्दोनुष्णोलसोपि च । श्रालस्यः स्यात्परिमृजः शीतो दक्षस्तु पेलवः ॥३३॥ सूत्थान उष्णश्चतुरः पेशलः पेसलः पटुः । चण्डालोऽपि च चाण्डालःश्वपाचः श्वपचः श्वपक् ॥३४॥ १ साम्बरी २ क्षुद्रक:B ३ स्तुन्नर ४ मितः ५ श्वपाB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy