SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ८० केशवकृतः कल्पद्रुकोशः तुला हिरण्यगर्भश्च ब्रह्माण्डं कल्पपादयः । गोसहस्रं स्वर्णकामधेनुः स्वर्णाश्व एव च ॥१०२॥ हेमहस्तिकरथः पञ्चलाङ्गलं स्वर्णमेदिनी । विश्वचक्रं कल्पलता सप्तसागरकं तथा ॥१०३॥ रत्नं धेनुर्महाभूतघटः षोडश उच्यते । महादानानि चान्यानि दश स्युः कनकं हयः ॥१०॥ तिला नागस्तथा दासी रथः पृथ्वी गृहा अपि । कन्या धेनुश्च कपिला दानान्येतानि वै दश ॥१०५॥ हिंसाकाभिचारः स्याद्यज्ञाह कर्म यज्ञिकम् । मृतार्थं यदह नमूर्ध्वदैहिकमित्यपि ॥१०६॥ एकादश द्वादशाहकृत्ये तु स्यात् क्रिया स्त्रियाम् । अपिनूतनपर्यायश्राद्धं कारटमस्त्रियाम् ॥१०७॥ पितृपक्तिविधानं स्यात्सपिण्डीकरणं च षण् । पितृदाने निवापः स्यान्निर्वापः श्राद्धमित्यपि ॥१०॥ स्वधाऽव्ययानव्ययं स्यापितृदानविधावथ।। देवदानेऽपि स्वाहैवमथ श्राद्धादिकं च यत् ॥१०॥ पितृयज्ञो मासि मासि तदनुश्राद्धमस्त्रियाम्।। अन्वाहार्यमष्टमेऽह्नो मुहूर्त्तः कुतपोऽस्त्रियाम् ॥११०॥ १ यज्ञियम् २ श्राद्धकर्मणि * स्ती इति स्यात्
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy