SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ अभ्युपेत्याशुश्रूषा ण्याहुरनापदि । विशेषतो गृहक्षेत्रदानधर्मान्नविक्रयाः ॥ | यथाश्रुत्येव । नोदकपूर्वाणि । भारद्वाजः भयदानलक्षणम् एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते ॥' इत्यादि । भिक्षादानमपि भर्तुरनुज्ञया विना न कार्यम् । तथा च मनु: - 'बालया वा युवत्या वा वृद्धया वाऽपि योषितां । न स्वातन्त्र्येण कर्तव्यं कार्य किञ्चिद्गृहेष्वपि ॥ ' मभा. आपस्तम्बः दानाङ्ग नियमः सर्वाण्युदकपूर्वाणि दानानि । सर्वाणीति वचनात् भिक्षाऽप्युदकपूर्वमेव देया । उ. यथाश्रुति विहारे । विहारे यज्ञकर्मणि यानि दानानि दक्षिणादीनि तानि (१) आघ. २२९/८; हिघ २४; सवि. २८४; समु. ९७. (२) आध. २/९/९; हिध. २४. आपस्तम्बः अन्तेवासिगुरुवृत्तिः तस्मिन् गुरोर्वृत्तिः । . तस्मिन्नन्तेवासिनि गुरोर्वृत्तिः । वृत्तेः प्रकारो वक्ष्यते । उ. पुत्रमिवैनमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां प्राहयेत् । एनं शिष्यं पुत्रमिव अस्याभ्युदयः स्यादिति अनुकाङ्क्षन् सर्वेषु धर्मेषु किञ्चिदप्यनपच्छादयमानः अगूहन् सुयुक्तः सुष्ठु अवहितः तत्परो भूत्वा विद्यां ग्राहयेत् । उ. नै चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु । न चैनं शिष्यमध्ययनविघ्नेन आत्मप्रयोजनेष्वनापत्सूपरुन्ध्यात् । उपरोध: अस्वतन्त्रीकरणम् । 'अनापस्विति वचनादापद्यध्ययनविघातेनाऽप्युपरोधे न दोषः । उ. (१) आघ. १।८।२४; हिध. १८. (२) आघ. १।८।२५; हिध. १८. (३) भध. १/८/२६; हिव. १८. आक्रोशादर्थहीनानां प्रतीकारं च यद्भयात् । प्रदीयते तत्कर्तृभ्यो भयदानं तदुच्यते ॥ अभ्युपेत्याशुश्रूषा स्मृत्यन्तरम् दानाङ्गनियम: प्रतिश्रुत्याप्रदाने दण्डः प्रतिश्रुत्याप्रदातारं सुवर्ण दण्डयेन्नृपः ॥ (२) समु. ९७. देद्यात्कृष्णाजिनं पुच्छे गां पुच्छे करिणं करे । केसरेषु तथैवाश्वान दास शिरसि दापयेत् ॥ अग्निपुराणम् (१) सवि. २८६. (३) अपु. २२७।१२. १९७३ उ. (१) आघ. १।८।२७; हिध. १८. (२) आघ. १।८।२८; हिध. ११८. (३) आघ. १।८।२९; हिध. ११८. अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरानैपुणमापद्यमानः । 'आपद्यमान' इत्यन्तर्भावितण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोराचार्ययोः विविधं निहितात्मा गुरावनैपुणमापादयति — न अनेन अयं प्रदेश: सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः । अपर आह-- योऽन्तेवासी वाङ्मनः कर्मभिरनैपुणमापद्यमानो गुरौ विसदृशं निहितात्मा भवति अनुरूपं न शुश्रूषते सोऽन्तेवासी न भवतीति । उ. आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः । आचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमाणः तेन तेन व्याजेन विद्याप्रदानमकुर्वन् । उ. अपराधेषु चैनं सततमुपालभेत । अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत, इदमयुक्तं त्वया कृतमिति । उ.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy