SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ स्वयम् सवि. ४६० दोषा रात्रिः । कूटशासनकर्तृश्च राजा हन्यात् । कूटलेख्यकारांश्च* । गरदाग्निदप्रसह्यतस्करान् स्त्रीबालपुरुषघातिनश्च* | ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः । धरिममेयानां शतादभ्यधिकम् * । प्रसह्यतस्करणां चावकाशभक्तप्रदांश्च '' अन्यत्र राजाशक्तेः। राज्ञश्वेच्चौरनिवारणे न शक्तिः, तदा ग्रामनिवासिनां आत्मत्राणाय चौररक्षणेऽपि न वध इत्यर्थः । वै. 'स्तनाः सर्व एवापहृतं धनिकस्य धनं दाप्याः । ततस्तेषामभिहितदण्डप्रयोगः । करशुल्कस्थापना प्रजाभ्यो बल्यर्थं संवत्सरेण धान्यतः पृष्ठमंशमादद्यात्। सर्वसस्येभ्यश्च । द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च । मांसमधुघृतौषधिगन्धपुष्पमूलफल षष्ठ रसदारुपत्राजिनमृद्भाण्डाश्मभाण्डवैद्लेभ्यः भागम् | ब्राह्मणेभ्यः करादानं न कुर्यात् । ते हि राज्ञो धर्मकरदाः । राजा च प्रजाभ्यः सुकृतदुष्कृतषष्ठांशभाक् । स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् । परदेशपण्याच्च विंशतितमम् । स्वदेशपण्ये वणिज उत्पन्ने लाभे दशमांश राजा गृह्णीयात् । परदेशपण्ये च उत्पन्ने लाभे विंशतितममंशं गृह्णीयादित्यर्थः । विर. ३०४ * स्थलनिर्देशः साहसप्रकरणे (पृ. १६०९ ) द्रष्टव्यः । (१) विस्मृ. ५।८९-९० र्व एवाप ( र्वमप ) ( धनं० ); अप. २।२७५ ( धनं० ); व्यक. ११६ ( स्तेना: ० ) एवाप ( एव वाप ) ( धनं० ); स्मृच. ३१८ ( धनं० ) : ३१९ ( स्तेनाः सर्व एवापहृतं दाप्याः ) एतावदेव विर. ३३१; बिचि. १४३ ( = ); सेतु. २४४; समु. १५० अपवत् . (२) विस्मृ. ३।२२-२८. (३) विस्मृ. ३।२९-३०; व्यक. १११ ण्याच्च ( ण्यात् ); बिर. ३०४ ण्याच्च शुल्कांश ( ण्यात् शुल्कं ); विचि. १२९ म्यकवत् ; सेतु. २९५ व्यकवत् . ब. कां. २१० १६७१ चौरहृतं चौरेऽलब्वेऽपि स्वामिने प्रत्यर्पणीयम् चौहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् । अनवाप्य च स्वकोशादेव दद्यात् । शङ्खः शङ्खलिखितौ च मानार्घस्थापन विधिः तुलामानप्रतीमानव्यवहारार्घसंस्था नं देशद्रव्यानुरूपं प्रत्ययितपुरुषाधिष्ठितम् । प्रकाशवञ्चक- कूटतुलामानव्यवहर्त्रादिदण्डविधिः कूटतुलामानप्रतिमानव्यवहारे शारीरोऽङ्गच्छेदो वा । मानं प्रस्थादि । शारीरो मुण्डनादिरूपः । अङ्गच्छेदः कर्णादिच्छेदः । अर्थगौरवागौरवाभ्यां विकल्पव्यवस्थितिः । विर. २९८ प्रतिषिद्धभाण्डनिर्हारे । शारीरोऽङ्गच्छेदो वा दण्ड इत्यनुवृत्तौ शङ्खलिखितौ - प्रतीति । निर्हारे विक्रये । नाशितभाण्डमूल्यो यदि, तदैवमित्यविरोधः । एवञ्च राज्ञा निषिद्धमपि राजयोग्यमपि विक्रीय यदि मूल्यदानाशक्त एवं कश्चित् स्यात्, विर. ३०१ तदा तत्राप्ययं दण्डो न्यायतौल्यात् । अप्रकाशतस्कराणां पशुपुरुषभाण्डाद्यपहारिणां दण्डविधिः राजपुत्रापहारेऽष्टसहस्रं शारीरो वा दण्डः तत्कुलीनेष्वर्ध स्त्रीपुरुषयोश्च । अष्टसहस्रमष्टाधिकसहस्रं, तच्च कार्षापणानाम् । तत्कुलीनेषु राजकुलीनेषु राजपुत्रव्यतिरिक्तेष्वर्ध अष्टाधिकसहस्रार्धं, स्त्रीपुरुषयोश्च राजकुलीनयोरर्ध अष्टाधिकसहस्रार्ध, शारीरो वेति विकल्पे धनवत्त्वाधनवत्त्वाभ्यां व्यवस्थां । विर. ३१८ (१) विस्मृ. ३।६६-७; व्यक ११८ चौर ( चौराप ) ( च० ); विर. ३४५ चौर मवाप्य ( चौरापहृतं द्रव्यं ) ( च० ); दवि. ८८ व्यकवत्.. (२) व्यक. १११; विर. ३०२; दवि. ९७ संस्था ( स्था ). (३) व्यक. १११; विर. ३९८; विचि. १२७ शंखः; दवि. ९०६ सेतु. २३०. (४) विर. ३०१; दवि. ९२. (५) व्यक. ११४; विर. ३१८; दवि. १२७ अर्थ... ... श्च ( पुत्रेष्वर्ध स्त्रीपुरुषयोः ).
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy