SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ युक्ति: नाभा. २।१५५ कथं दुर्बलो बलवतः शक्नोति क्षतं कर्तुम् ? बलवत्वाद् दुर्बलस्यैवमेव हन्तुं समर्थः, किमर्थ क्षतं करिष्यतीत्येवमादीनि परीक्षेत साक्ष्यभावेन । प्रमादाद्धनिनो यत्र न स्याल्लेख्यं न साक्षिणः । अर्थं चापह्नुते वादी तत्रोक्तस्त्रिविधो विधिः॥ चोदना प्रतिकालं च युक्तिलेशस्तथैव च । तृतीयः शपथः प्रोक्तस्तैरेनं साधयेत्क्रमात् * ॥ (१) तत्र चोदना - साक्षिप्रयुक्ते प्रयोजने साक्षिणा. मृणिकस्य च प्रतिकालं संस्मरणम् । युक्तिलेशः -- पूर्वदत्तस्य द्रव्यस्य पूर्वसंप्रतिपत्तिर्यस्य वा युक्त्युद्देशः । तृतीयः शपथः । दत्तशुद्धकृतंनाश तण्डुलकोशादिकैरुपानमर्थापविनं साधयेदिति । अभा. ७२ (२) प्रतिकालं चोदना प्रत्यर्पणकालो यदा यदा प्राप्तस्तदा मदीयं दीयतामिति त्रिचतुःपञ्चकृत्वो वा मध्यस्थजनसमक्ष मन्येनाप्रतिहता प्रतिदानप्रेरणा सा प्रथमोपायः । तदसंभवे युक्तिलेशः । अमुष्मिन् देशे अमुष्मिन् कालेऽमुनाऽर्थसंबन्धेन इयत्परिमाणमेतत्कर्मार्थमृणं गृहीतं त्वयेत्यादिर्द्वितीयोपायः । तस्याप्यसंभवे तृतीयोपायः शपथ इत्यर्थः । स्मृच. ५२ (३) काले काले महाजनसमक्षं चोदना देहीति, हेतुत्वावगमे । भूयो भूयोऽमुष्यामुष्य च सकाशे चोदितोऽयमिति विभाविते स परिच्छिद्यते धारयतीति । युक्तिलेशः कस्यचिदेकदेशस्य कदाचिदादानं, 'अमुना त्वया प्रेषितेन मत्सकाशाद् गृहीत्वामुत्रामुत्र च व्ययितव्यम्' (इति) । तृतीयः शपथ : मानुषो दैवश्व । एतैस्तत्त्व - मधिगच्छेत् । नाभा. २१२१२ अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान्न तद्वचः । त्रिचतुःपञ्चकृत्वो वा परतोऽर्थं स दापयेत् ॥ X व्याख्यानं स्थलादिनिर्देशश्च क्रियाप्रकरणे (पृ. २२२ ) द्रष्टव्यः । * स्थलादिनिर्देशः क्रियाप्रकरणे (पृ. २२२ ) द्रष्टव्यः । (१) नासं. २।२१३ यः (ऽपि ) त्रिच ( त्रिश्च ) स दापयेत् (समाचरेत् ); नास्मृ. ४।२ ३७त्रिच (त्रिश्च); शुनी. ४।७२४ .य: ( sपि ) पयेत् (प्यते ); अभा. ७२ हन्यात् (पद्येत) र्थं (न्यं) सदापयेत् ( समाचरेत् ); व्यक. ७५ नासंवत् स्मृच. ५२ नासंवत् ; पमा. ९१ यः (sपि ) स दापयेत् ( समाचरेत् ) क्रमेण कात्यायनः; स्मृसा.११२ चोय (देश्य) यः (sपि ) स दाप ४२७. अत्राऽभीक्ष्णं वचनं बहुशः पृच्छ्यमानोऽपि ऋणी यदा तदीयं वचः कथमपि न प्रतिपद्यते तदा चोदनायाः परत अन्यमुपाचरेत् । युक्तिलेशादिकं तथा च वक्ष्यति । अभा. ७२ (२) यदा धनिकेनाधमर्णिकस्त्रिचतुःपञ्चकृत्वो वा त्वं मे ऋणं धारयसीति पुनः पुनर्देश्यमानोऽपि न तद्वाक्यं प्रतिहन्ति तदोत्तरकालमनेनाभ्युपगतोऽयमर्थ इत्यवधार्य तमर्थमृणिकाय दापयेदित्यर्थः । व्यत. २२७ (३) परतः तदूर्ध्वम् । 'चोदनाप्रतिघाते तु युक्तिले शैस्तमन्वियात् । देशकालार्थ संबन्धपरिमाणक्रियादिभिः ॥ व्यप्र. १६८ (१) अत्र चोदनाप्रतिघाते सामान्यवचनपृच्छाया असंप्रतिपत्तौ युक्तिलेशैस्तथान्वियात् । अथ कैस्तैः देशकालार्थसंबन्धपरिमाणक्रियाभिः यथाक्रमं स्वयं स्मृतैस्तस्य स्मारितैरिति । अभा. ७२ (२) अयमर्थः यदा नाहं धारयामीति देशनाप्रतिषेधं कृतवान्, तदा अनुमानादिभिर्युक्तिभिर्निर्णयः करणीयः । तद्यथा, यस्मिन् काले यस्मिन् देशे येन वा प्रयोजनसंबन्धेन धनिकेनाधमर्णिकस्य ऋणग्रहणाभियोगः कृतः । तद्यदि तद्देशे तत्काले तेन वा प्रयोजनेन तस्य ऋणग्रहणमसंभावितमेव तदा युक्त्यैव निर्णयः । एवं यस्य शतवित्तसंभावनाऽपि नास्ति स यदि सहस्राभियोगं कुरुते तदा युक्त्यापि निर्णय इति । एवं चाधमर्णिक * नाभा, सेतु व्यतवत् । येत् (तमाहरेत् ); व्यचि . ७६ यः (sपि ) पयेत् (प्यते); स्मृचि. ५० चोद्य (वैद्य) पयेत् (प्यते); नृप्र. ८ य: ( sपि ); व्यत. २२७ यः (sपि ) चोद्य (देश्य ) स दापयेत् ( तमावहेत् ); चन्द्र. १५८ चोय (देश्य) यः ( ऽपि ) तत् ( चेत् ) पयेत् (प्यते ); व्यसौ. ७० चोथ (देश्य) शेषं व्यचिवत् ; व्यप्र. १६८ व्यचिवत्; सेतु. ११४ यः (sपि ) स दापयेत् ( तमाहरेत् ); प्रका. ९७ नासंवत् ; समु. २५-२६ यः (sपि) र्थं स दापयेत् (र्थी समाचरेत्). (१) नासं. २।२१४; नास्मृ. ४।२३८६ अभा. ७२ स्तम (स्तथा ); व्यक. ७५ घाते तु (कालं च); स्मृच. ५२ तम (सम); पमा. ९१ शैस्तम ( खैः सम ) माण (णाम) क्रमेण कात्यायनः; स्मृसा. ११३ चोदना (देशना) शैस्त (शस्त ); व्यचि . ७७; स्मृचि. ५० चोदना (देशना) तु (च); नृप्र. ८ शैस्तम (ख्यैस्तथा); व्यसौ. ७० चोदना (देशना); व्यप्र. १६९ तु (च); प्रका. ९७ स्मृचवत्; समु.२६ स्मृचवत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy