SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ केवलिनामसम्भवात् । गुणरत्नमयत्वेन जम्बूद्वीपे जम्बूरिव जम्बूः स चासौ स्वामी च जम्बूखामी ॥ १४ अथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः सम्भूतविजयस्ततः ॥ ३३ ॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । प्रभवति अस्मात् श्रुतमिति प्रभवः स चासौ प्रभुश्च प्रभवप्रभुः ॥ १ ॥ शय्याया भवतीति शय्यंभवः पृषोदरादित्वात् ॥ २ ॥ यशसा भद्रः कल्याणो यशोभद्रः ॥ ३ ॥ सम्भूतो रागादिविजयोऽस्य सम्भूतविजयः ॥ ४ ॥ ३३ ॥ भद्रौ बाहू अस्य भद्रबाहुः ॥ ५ ॥ स्थूलं उपचितं भद्रं कल्याणमस्य स्थूलभद्रः ॥ ६ ॥ एते षट् श्रुतेन केवलिनः श्रुतकेवलिनः चतुर्दशपूर्वरत्वात् ॥ महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥ ३४ ॥ परीषहाद्युपद्रवैरकम्प्यत्वात् महागिरिरिव महागिरिः कर्म मोन्मूलने सुहस्तीव सुहस्ती तावाद्यैौ येषां ते तथा । गुरुत्वाद् वज्र इव वज्रो वज्रस्वामी । सोऽन्ते येषां ते वज्रान्ताः । दशभिः पूर्विणो दशपूर्विणो दशपूर्वधराः । दशपूर्वाणि एषां सन्तीत्यर्थः । ततः परं दशपूर्वधराणामसम्भवात् ॥ ३४ ॥ इक्ष्वाकुकुलसम्भूताः स्याद्द्द्वाविंशतिरईताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भवैौ ॥ ३५ ॥ इक्ष्वाकुनामधेयं कुलं वंश इक्ष्वाकुकुलं तत्र संभूता जाता अर्हतामृषभादीनां द्वाविंशतिः । शेषं स्पष्टम् ॥ ३५ ॥ नाभिश्च जितशत्रुश्च जितारिरथ संवरः । मेघो घरः प्रतिष्ठश्च महासेननरेश्वरः ॥ ३६ ॥ सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो भानुश्च विश्वसेनरा ॥ ३७ ॥ सूरः सुदर्शन: कुम्भः सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥ ३८ ॥ मरुदेवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy