________________
९०९
न्यायकोशः। (प० मा०)। यथा संज्ञा कर्म त्वस्मविशिष्टानां लिङ्गम् (वै०२।१।१८) इत्यादौ यव वराह वेतस स्वर्ग वायु इत्यादिशब्दः (वै० उ० २।१।१८ ) (वै० वि० २।१।१८ पृ० ९३ )। यथा संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः इत्यादौ गवयादिशब्दः संज्ञा ( नील० ३ )। एवम् घटादिशब्दोपि । रूढं संकेतवन्नाम सैव संज्ञेति कीर्त्यते ( श्लो० १७) इति शब्दशक्तिप्रकाशिकायामुक्तम् । संज्ञा त्रिविधा नैमित्तिकी पारिभाषिकी औपाधिकी चेति । केचिद्दण्ड्याचार्यप्रभृतयस्तु रूढनाम्नो जातिद्रव्यगुणक्रियात्मकार्थचतुष्टयभेदेन चातुर्विध्यमङ्गीचक्रुः । तथा हि । गोगवयादीनां शब्दानां गोत्वादिजात्या पश्वान्यादीनां शब्दानां लाङ्गुलधनादिद्रव्येण धन्यपिशुनादीनां शब्दानां पुण्यद्वेषादिगुणेन चलचपलादीनां च शब्दानां कर्मणा अवच्छिन्ने शक्तिमत्त्वाच्चातुर्विध्यमेव शब्दानाम् इति । तच्च शब्दशक्तिप्रकाशिकाकृद्भिः परित्यक्तम् । तत्र कारणं तु जडमूकमूर्खादीनां शब्दानाम् अन्यशून्यादीनां शब्दानां चासंग्रहः (श० प्र० श्लो० १८ टी० पृ० १७ ) इति । अन्ये तु पूर्व विभक्तायास्त्रिविधसंज्ञाया अन्यथोदाजह्वः । संज्ञा त्रिविधा पारिभाषिकी नैमित्तिकी औपाधिकी चेति । तत्र आधुनिकसंकेतशालिनी अनुगतप्रवृत्तिनिमित्तशून्या च संज्ञा पारिभाषिकी। यथा चैत्रमैत्रादिः आकाशादिश्च । तत्तच्छरीरनिष्ठचैत्रत्वादेराकाशत्वादेश्वाननुगतस्यैवात्र प्रवृत्तिनिमित्तत्वात् इति भावः (म० प्र० ४ पृ० ४६)। अनादिसंकेतशालिनी अनुगतप्रवृत्तिनिमित्तिका च संज्ञा नैमित्तिकी । यथा पृथिवीजलादिः पशुभूतादिश्च । पशुत्वादेरुपाधित्वेपि रोमवल्लाङ्गुलवत्त्वं पशुत्वम् बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं भूतत्वम् इत्याद्यनुगतत्वात् इति भावः । यौगिकी संज्ञा औपाधिकी। यथा पाचकपाठकादिः (म० प्र० पृ० ४।४६) इति । पङ्कजादियोगरूढानां तु नैमित्तिकत्वेप्यौपाधिकत्वमविरुद्धम् । रूढ्या पद्मत्वादिमतो योगेन च पङ्कजनिकर्तुरुपस्थितौ पद्मं पङ्कजनिकर्तृ इत्येव शाब्दबोधात् इति । अत्रायं विशेषः । करणाधिकरणशब्दाश्च संकेतिता एव । पाचकपाठकादयस्तु संकेतशून्यत्वान्न संज्ञाः । तेषामपि संज्ञात्वे तु अनुगतप्रवृत्तिनिमित्तशून्यसंकेतवती पारिभाषिकी संकेतशून्यत्वे सति यौगिकी औपा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org