SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । इत्यन्यत्रोक्तम् । [ ख ] द्रवत्वसहित स्नेहकारितः संयोगविशेषः (वै० वि० ० २।१२ पृ० ७२-७३ ) ( प० मा० ) । तथा हि । सहि संग्रहः न द्रवत्वमात्रकारितः । काचकाञ्चनद्रवत्वेन संग्रहानुपपत्तेः । नापि स्नेहमात्रकारितः । स्यानैर्घतादिभिः संग्रहानुपपत्तेः । तस्मात् अन्वयव्यतिरेकाभ्यां स्नेहद्रवत्वकारितः (वै० उ० २।१।२ पृ० ७२ ) । तेन द्रुतसुवर्णादीनां न संग्रह: ( भाषाप० श्लो० १५६ मु० ) इति । २ संक्षेपेण स्वरूपकथनम् । लक्षणस्वरूपविभागप्रकारकज्ञानानुकूलः संक्षिप्तो व्यापार इत्यर्थः ( वाक्य ० ) । यथा तर्कसंग्रहः इत्यादौ संग्रहशब्दस्यार्थः ( त० दी० ) । ३ अनेकेषामेकत्र स्थापनं संग्रह इति काव्यज्ञा वदन्ति । बह्वर्थक वाक्यानामेकत्र संकलनम् । अत्रोक्तम् विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन संग्रहं तं विदुर्बुधाः ॥ इति । ५ ग्रहणम् । ६ संक्षेपः । ७ महोद्योगः । ८ व्याडिप्रणीतो व्याकरणग्रन्थविशेषः । 1 ९०८ 1 संग्रहणम् – [ क] सहासनं विविक्तेषु परस्परमुपाश्रयः । केशाकेशिग्रहं चैव सम्यक् संग्रहणं स्मृतम् ॥ स्त्रीपुंसयोर्मिथुनीभावः संग्रहणम् ( मिताक्षरा अ० २।२८२ ) । [ ख ] साहसशब्दवाच्यानां रहसि क्रियमाणानां संग्रहणशब्दवाच्यत्वम् ( मिताक्षरा अ० २ श्लो०७२ ) । संघः - १ प्रव्रजितविशेषोपग्रहेण वर्तमानपरिषत् ( न्या० वा० १|१|१४ पृ० ७९ ) । २ सजातीयप्राणिसमूहः । यथा संघे शक्तिः कलौ नृणाम् इत्यादौ संघशब्दस्यार्थः । ३ जन्तुविशेषः । संघातः — पदार्थसमुदाय संयोगः । यथा दिव्येन तेजसा संयुक्तानामाप्यानां परमाणूनां परस्परसंयोगो द्रव्यारम्भकः संघाताख्यः । स च हिमकरकादिपरमाणुद्रवत्वप्रतिबन्धकः ( प्रशस्त ० द्रवत्वनि० पृ० ५२ ) । एवमन्येषामपि संघात ऊह्यः । संज्ञः – १ संहतजानुकः । २ गन्धद्रव्यविशेषः । संज्ञा - १ बुद्धिः । २ आख्या । ३ चेतना । ४ हस्तैरर्थ सूचनम् । ५ गायत्री । ६ सूर्यपत्नी । ७ संकेतवत्प्रातिपदिकम् ( विशिष्टनाम ) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy