SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ १९० न्यायकोशः। • युक्तं कर्म यत् क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्याय कल्पते ॥ - इति । अश्रद्धाप्रयोजनं च भगवद्गीतायाम् अश्रद्धया हुतं दत्तं तपस्तप्तं - कृतं च यत् । असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह ॥ (गीता० अ० १७ श्लो० २८) इति । अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ( गीता ४।४० ) इति च । इयं श्रद्धा त्रिविधा । त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ (गीता अ० १७ श्लो० २) इति। [1] आस्तिक्यबुद्धिः श्रद्धा इति पौराणिका वदन्ति । २ आदरः । ३ शुद्धिः। ४ स्पृहा । ५ चित्तप्रसादः। श्रपणम्-रूपादिपरावृत्युपलक्षिताधःसंतापनम् । यथा कृष्णलं अपयेत् - इत्यादौ श्रपयत्यर्थः । कृष्णलो यवत्रयमितं सुवर्णम् ( म० प्र० ४ पृ० ५६)। श्रवणम्-१ श्रोत्रेन्द्रियजन्यं शब्दविषयकं ज्ञानम् । यथा श्रूयते सुपुरुष चरितं किं तद्यन्न हरन्ति काव्यालापाः इत्यादौ । २ श्रुतिवाक्योत्थं ... ज्ञानम् । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृ० २।४।५ ) इत्यादौ ( म० प्र० १) । यथा वा श्रोतव्यः .. श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तिभिः इत्यादौ । अत्र श्रवणं च श्रुतिपद पक्षिका संसर्गज्ञानानुमितिः (प० च० प० २० )। ३ अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम् ( सर्व० सं० पृ० १६६ नकु०)। ४ शब्दग्राहकमिन्द्रियम् श्रोत्रम् । ५ मौहूर्तिकास्तु अश्विन्यादिषु द्वाविंशो . (२२) नक्षत्रविशेष इत्याहुः । ६ मुण्डरिकावृक्षः ( वाच० )। श्राद्धपक्षः–अर्के नभस्यकन्यास्थे श्राद्धपक्षः प्रकीर्तितः ( देवलः) (पु० - चि० पृ० २१ )। श्राद्धम्— [क] अदनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्यागः । अत्र व्युत्पत्तिः श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते इति । : श्राद्धं द्विविधम् पार्वणम् एकोद्दिष्टं चेति । तत्र त्रिपुरुषोदेशेन यत्क्रियते - तत्पार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् । पुनश्च श्राद्धं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy