SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। बाणविशेष इत्यालंकारिका आहुः। तदुक्तम् उन्मादनः शोषणश्च तापनः स्तम्भनस्तथा । मारणश्चेति विज्ञेयाः पञ्च कामस्य सायकाः॥ (जटा०) (वाच० ) इति । ४ शोणाकवृक्षः ( भावप्र०) । ५ शुण्ठी इति भिषज आहुः। शौचम्-१ शुद्धिशब्दवदस्यार्थीनुसंधेयः । शौचं मानुषं द्विविधमुक्तं व्याघ्र पादेन । शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा। मृजलाभ्यां स्मृतं बाह्य भावशुद्धिस्तथान्तरम् ॥ ( वाच० ) इति । पश्चविधं चोक्तं बृहस्पतिना । मलशौचं मनःशौचं शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचं जलशौचं तु पश्चमम् ॥ इति । अन्यच्च अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति॥ (मनु० अ० ५ श्लो० १०९) इति । तत्र विधिमाहतुर्मनुदक्षौ । एका लिङ्गे गुदे तिस्रस्तथैकत्र करे ( वामे ) दशः । उभयोः ( करयोः ) सप्त दातव्या मृदः शुद्धिमभीप्सता ।। ( मनु० अ० ५ श्लो० १३६ ) ( विष्णुपु०) ( यम० ) (पैठीनसि०) - ( हारीत० ) (शंखस्मृ० ) इति । २ धर्मविशेषः । तत्रोक्तम् अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । स्वधर्मे च व्यवस्थानं शौचमित्यभिधीयते ( वाच० ) इति। . शौर्यम्-बलवतोपि परस्य पराजयाय प्रत्युत्साहः। स च प्रयत्नविशेष एव न तु गुणान्तरम् (न्या० कन्द० पृ० १०)। . . श्रद्धा-१ [क] फलावश्यंभावनिश्चयः (त० प्र० २ पृ० ६) (सि० च० ) । यथा केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ( अग्निपु० ) इत्यादौ श्रद्धाशब्दस्यार्थः । [ख] विश्वास्यत्वेन ज्ञानम् ( म०प्र० पृ० १६ )। यथा कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति इत्यादौ श्रद्धाशब्दस्यार्थः । [ग] वेदादिबोधितफलावश्यंभावनिश्चयः ( कि० व० पृ० ४ )। अत्रोक्तम् । प्रत्ययो धर्मकृत्येषु तथा श्रद्धेत्युदाहृता । नास्ति ह्यश्रद्दधानस्य धर्मकृत्ये प्रयोजनम् ॥ (स्मृतिः) (वाच०) इति । सत्कृतिश्चानसूया च सदा श्रद्धेति कीर्तिता ( देवलस्मृ० ) इति च । श्रद्धाफलमाह याज्ञवल्क्यः । श्रद्धाविधिसमा. १.१२ न्या० को. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy