SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ ७३८ न्यायकोशः। आहारेषु पाकाथं वह्नः समुन्नयनात्समानः । ऊर्ध्वं नयनादुदानः । नाडीमुखेषु वितननाढ्यानः (प० मा० ) ( दि० १।२ पृ० ८५) इति । क्रियाभेदाच्चान्या अपि पश्च संज्ञा यथा नागः कूर्मः कृकलः देवदत्तः धनंजयः इति ( सि० च०) (मु० १ पृ० ८५ )। तदुक्तम् उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः । कृकरः क्षुत्करो ज्ञेयो देवदत्तो विज़म्भणे ॥ न जहाति मृतं चापि सर्वव्यापी धनंजयः इति । अत्र पुस्तकान्तरे पोषणस्य हेतुर्धनंजयः इत्युक्तम् (सि० च०)। कृकरः इत्यत्र च कृकलः इत्यपि पाठान्तरम् । वायौ नव गुणास्तिष्ठन्ति स्पर्शः संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् संस्कारश्चेति (प्रशस्त०) (भा० प०) (त. भा०)। स्पर्शस्त्वत्रा'पाकजोनुष्णाशीतस्पर्शोभिप्रेतः (मु० ) ( प्रशस्त० पृ० ५)। परिमाणं परममहत्त्वातिरिक्तम् । संस्कारस्तु वेगः स्थितिस्थापकोपि इति केचिदाहुः (त० को०)। वायुर्न प्रत्यक्षः किं तु स्पर्शादिना अनुमेयः इति प्राञ्च आहुः । तत्र युक्तिः । वायुर्यदि प्रत्यक्षः, स्यात्तदा घटादिवत् तदीयसंख्यादिसामान्यगुणोपलम्भोपि तत्र स्यात् । न चैवम् । तस्मान्न प्रत्यक्षः इति ( त० व० १॥३॥४५ )। वायोरप्रत्यक्षत्वं सूत्रकारैरुक्तम् । तथा च सूत्रम् स्पर्शश्च वायोः (वै० २।१।९ ) इति । तदर्थश्च लिङ्गम् इति शेषः । चकाराच्छब्दधृतिकम्पाः समुच्चीयन्ते । तथा च योयं स्पर्शोनुभूयते स कचिदाश्रितः स्पर्शत्वात् पृथिव्यादिस्पर्शवत् इति सामान्यतो दृष्टेन स्पर्शाश्रयसिद्धौ स्पर्शाश्रयो न पृथिव्यादित्रयात्मकः नीरूपत्वात् नाकाशादिपश्चात्मकः स्पर्शवत्त्वात् इति इतरबाधग्रहसहकृतेन अनुमानेन अष्टद्रव्यातिरिक्तद्रव्यसिद्धिः । एवम् शब्दधृतिकम्पा अपि वायौ लिङ्गानि ज्ञेयानि ( वै० उ० २।१।९-१० पृ० ८१-८४ ) ( त० दी० ) (मु० १)। प्राचां मते च विषयतासंबन्धेन बहिर्द्रव्यप्रत्यक्षं प्रति समवायेन महत्त्वविशिष्टोद्भूतरूपमुद्भूतस्पर्शश्च कारणम् इति कार्यकारणभावो ज्ञेयः ( सि० च० १ पृ० ८ ) ( त० प्र०)। एवं च कारणा भावान्न प्रत्यक्षम् इति बोध्यम् ( मु० १ पृ० ११३ )। नव्यास्तु वायुः . प्रत्यक्षः इत्यङ्गीचक्रुः (त० प्र०) । एतन्मते तु बहिर्द्रव्यप्रत्यक्षं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy