________________
७३७
न्यायकोशः। स्यापि नानात्वं संमूर्छनेनानुमीयते। अत्र सूत्रम् वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् (वै० २।१।१४) इति । संमूर्छनं पुनः समान जवयोर्वाय्वोर्विरुद्धदिक्रिययोः संनिपातः । सोपि संनिपातः सावयविनोर्वाय्वोरूर्ध्वगमनेनानुमीयते । तच्च वाय्वोरूर्ध्वगमनम् प्रत्यक्षेण तृणादिगमनेन अनुमीयते ( प्रशस्त० वायुनि० पृ० ५) ( वै० उ० २।१।१४ )) इति । अत्र भाष्यकारा आहुः । कार्यलक्षणः अनित्यो वायुः चतुर्विधः शरीरम् इन्द्रियम् विषयः प्राणः इति । तत्र ( १ ) अयोनिजमेव शरीरं मरुतां लोके । पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम । (२) इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं सर्वशरीरव्यापि त्वक् । (३) विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गः तिर्यग्गमनस्वभावकः मेघादिप्रेरणधारणादिसमर्थः। (४) प्राणोन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुः एकः सन् क्रियाभेदादिभिरपानादिसंज्ञां लभते ( प्रशस्त० पृ० ५ ) (प० मा० ) इति । नव्यास्त्विथं वदन्ति । अनित्यस्त्रिविधः शरीरम् इन्द्रियम् विषयश्च । तत्र शरीरम् वायुलोके प्रसिद्धम् । पिशाचादीनामपि वायुशरीरम् अयोनिजं च (मु० १ वायुनि० पृ० ८४ ) (त. कौ० )। अत्रेदमवधेयम् । एतच्छरीरस्य पार्थिवभागोपष्टम्भादुपभोगक्षमत्वम् । तेन वायोस्ताल्बादिव्यापाराभावात् करचरणाद्यभावेन चाहरणविहरणाद्यभावात् कथं तादृशशरीरस्य भोगायतनत्वम् इत्याशङ्कानवकाशः (दि. १ पृ० ८४ ) (प० मा०) इति । इन्द्रियं स्पर्शग्राहकं पृथिव्याद्यनभिभूतैर्वाय्ववयवैरारब्धं त्वक् सर्वशरीरवृत्ति । विषयो वृक्षादिकम्पनहेतुः उपलभ्यमानस्पर्शाश्रयो महावाय्वादिः (भा०प० श्लो० ४५. ) ( त० सं० )। प्राणोपि विषयो वायुः । सोन्तःशरीरे रसमलधातुपित्तकफादीनां प्रेरणधारणादिहेतुः । स चैकोपि हृदादिस्थानरूपोपाधिभेदात् मुखनिर्गमादिक्रियाभेदाच्च पञ्च संज्ञा लभते। तत्र स्थानभेदाद्यथा प्राणोपानो व्यान उदानः समानः इति । तदुक्तम् हृदि प्राणो गुदेपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥ ( अमर, १६७ टी.) इति । तथा मुखनासिकाभ्यां निष्क्रमणप्रवेशनात्प्राणः । मलादीनामधो नयनादपानः । ३३ न्या. को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org