SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ ७०५ न्यायकोशः। ७०५ वदन्ति । ह्यस्तनत्वं लङो नार्थः । किं तु अद्यतनभिन्नत्वम् इत्यपरे दर्पणकृदादयः वदन्ति ( वै० सा० द० पृ० १२९-१३०)। अनद्यतने लङ् ( पा० सू० ३।२।१११ ) इति पाणिनिना अनुशिष्टत्वात् इति भावः । तथा च अपचदित्यादौ वर्तमानध्वंसप्रतियोगिपूर्वदिनवृत्तिपाककृतिमान् इति तादृशप्रतियोग्यनद्यतनकालवृत्तिपाककृतिमान् इति वा मतद्वये यथाक्रमं बोधः (श० प्र० श्लो० १०१ टी० पृ० १६० )। अथ वा अनद्यतनातीतत्वं विशिष्टमेव लडर्थः । तच्च शब्दप्रयोगाधिकरणदिनाद्यक्षणवृत्तिध्वंसप्रतियोगित्वम् ( ग० व्यु० लका० पृ० १३८ )। यद्वा अनद्यतनत्वम् अतीतत्वं च पृथगेव लङर्थः ( तर्का० ४ पृ०११) (सि० च०)। शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सति शब्दप्रयोगकालीनध्वंसप्रतियोगित्वम् इति कश्चिद्वक्ति। अत्र पुत्रोभवत् इत्यत्र शाब्दिकमते शाब्दबोधस्तु वर्तमानध्वंसप्रतियोग्यनद्यतनकालवृत्तिरेतत्संबन्धिपुत्र कर्तृकोत्पत्त्यनुकूलो व्यापारः इति (वै० सा० द० ल० पृ० १३०)। लट्-(तिङ्) यादृशतिङः स्मशब्दोपसंधानाभावप्रयुक्तः स्वार्थातीतत्व बोधकत्वाभावः तादृशी तिङ् लडुच्यते । यथा जानाति जानीते पचति पचते चैत्रः इत्यादौ तिबाख्यातम् । अत्र द्विरुक्तधात्वनाकाङ्कत्वेन प्रकृत्यर्थपरोक्षत्वनिराकाङ्कत्वेन वा विशेषणीयम् । नातो बुभुजे बुभुजाते इत्यादिस्थलीयलिट्यतिप्रसङ्गः । जानाति जानीते पचति पचते इत्यादौ तिबादीनामष्टादशानामपि स्मशब्दोपसंधानाभावप्रयुक्तो ज्ञानादिधर्मिकातीतत्वबोधस्योपधायकत्वाभावः स्मशब्दोपसंधाने तु जानाति स्म इत्यादितोतीतत्वबोधानुभवात् इति लक्षणसमन्वयः ( श० प्र० श्लो० ९७ टी० पृ० १४२ ) । लट् द्विविधा परस्मैपदम् आत्मनेपदं चेति । एवम् अन्या लोडाद्या अपि तिङः परम्मैपदात्मनेपदभेदेन. द्विविधा भवन्ति इति विज्ञेयम् । लटो वर्तमानकालः वर्तमानसामीप्यं चेति द्विविधोर्थः ( श० प्र० श्लो० ९७ टी० पृ० १४३-१४४ )। अत्र सूत्रम् वर्तमाने लट् (पा० सू० ३।२।१२३ ) इति । तदर्थस्तु वर्तमानार्थवृत्तेर्धातोलट्प्रत्ययो भवति ( काशिका० ) । वर्तमानकालस्तु तत्तच्छब्दप्रयोगा८९ न्या. को. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy