SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। २ स्पर्शविशेष इति केचिदाहुः (सि० च०)। ३ शीघ्राल्पोपस्थितिकत्वम् । यथा लघुनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासिद्धम् इत्यादौ लघुत्वम् । इदं लघुत्वं त्रिविधम् शरीरकृतम् उपस्थितिकृतम् संबन्धकृतं चेति (दि० १ ) (सि० च० )। तत्र प्रथमम् द्रव्यप्रत्यक्षोत्पत्ति प्रति महत्त्वस्य कारणत्वे अनेकद्रव्यत्वापेक्षया महत्त्वस्य लघुत्वम् । द्वितीयम् गन्धोत्पत्ति प्रति गन्धप्रागभावस्य कारणत्वे रूपप्रागभावापेक्षया गन्धप्रागभावस्य लघुत्वम् । गन्धात्मकप्रतियोगिज्ञानस्य सत्त्वेन शीघ्रं तदुपस्थितेः । तृतीयम् घटं प्रति दण्डस्य कारणत्वे दण्डत्वदण्डरूपाद्यपेक्षया दण्डस्य लघुत्वम् इति । दण्डत्वादेः कारणत्वे तु स्वाश्रयदण्डसंयोगादिरूपपरंपराया गुरुत्वम् इति भावः (दि. १ पृ० ५४ ) ( नील० १ पृ० १७) । ४ दोषविशेषः (प० च०)। ५ तर्कविशेषः । यथा लघुत्वकल्पनं तर्कविशेषः इत्यादौ इति प्राञ्चो नैयायिका आहुः (सर्व० पृ० २३९ अक्ष० )(गौ० वृ० १।१।३९) ६ शाब्दिकास्तु हस्वसंज्ञकवर्णवृत्तिधर्मविशेष इत्याहुः । ७ पुष्याश्विहस्ताभिजित्संज्ञकेषु नक्षत्रेषु वर्तमानो धर्मविशेषः इति मौहूर्तिका आहुः। लङ्—(तिङ्) स्मशब्दस्य योगं विना शबन्तस्य धातोरर्थे अतीतत्वस्यान्वयधीहेतुर्यादृशी तिङ् तादृशी तिङ्लङ इत्युच्यते। यथा अपचदित्यादौ लङ। यथा वा अस्य पुत्रः अभवदित्यादौ लङ् (वै० सा० ल० पृ० १३१)। तिबादिश्च स्मशब्दोपसंधानं विना धातोरर्थे नातीतत्वं बोधयति पपाचेत्यादौ लिडादिर्बोधयन्नपि न शबन्तस्य इति तिबादेलिंडादेश्च व्युदासः । अपचदित्यादौ तु विनापि स्मशब्दयोगं लङस्तथात्वम् इति लक्षणसमन्वयः । प्रकृत्यर्थे अनुमतत्वाद्यतनत्वाद्यनाकाङ्कितत्वम् इति विशेषणाच्च पचतां पचेतां पचन्ताम् इत्यादौ अपाक्ताम् अपक्षाताम् इत्यादौ अपक्ष्यतां अपक्ष्येताम् इत्यादौ च लोटो लुङो लुङस्तामाताम्प्रभृतौ नातिप्रसङ्गः। अत्र लडोतीतः काल इव तन्निष्ठं ह्यस्तनत्वमप्यर्थः । अनद्यतने लङ् ( पा० सू० ३।२।१११ ) इति सूत्रे अनद्यतनशब्दमहिना शस्तनत्वं बोध्यत इति भावः । तच्च पूर्व दिनवृत्तित्वम् इति कौमारा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy