SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । संगच्छते । अन्त्यावयविनाशाद्यकल्पनेन लाघवं च इति ( नील० १ पृ० १३ ) | घटादिकं सच्छिद्रमेव । अन्यथा तदन्तर्गततण्डुलादेः पाको न स्यात् । अतः एकदैव परमाण्वादिघटपर्यन्तेषु घटनांशं विना पाकेनैव रूपाद्युत्पत्तिः इति ज्ञेयम् ( सि० च० १ पृ० १६ ) । पिठरम् — कार्यकारणसमुदाय: ( अवयवावयविसमुदायः ) घटपटादिः । यथा पिठरपाकवादिनो नैयायिकाः इत्यादौ । ५०० पिण्डीभावः - [क] चूर्णादेर्धारणाकर्षणहेतुभूतो विलक्षणसंयोगः (न्या० बो० १ पृ० ६ ) ( नील० १ ० १४ ) । [ ख ] फूत्कारादिहेतुकदेशान्तरनिर्गमप्रतिबन्धकोवयवानां संयोगविशेषः ( वाक्य ० १ पृ० ९ ) । यथा चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ( त० सं० ) इत्यादौ पिण्डीभावः । पितृत्वम् - [क] श्राद्धोद्देश्यत्वम् । [ख] सपिण्डीकरणोत्तर श्राद्धजन्यफलभागित्वम् (कृष्ण० ) । यथा श्राद्धादौ पितृपितामहप्रपितामहाः शालङ्कायनगोत्राः वसुरुद्रादित्यान्तर्गत प्रद्युम्नसंकर्षणवासुदेवा इत्यादी । अत्रोक्तं याज्ञवल्क्येन वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ इति ( याज्ञ० स्मृ० अ० १ श्लो० २६८ ) । २ जनकपुंस्त्वम् । यथा चैत्रस्य पिता इत्यादौ पितृत्वम् ( त० कौ० ) ( त० प्र० ख० ४ पृ० ५९ ) । एवम् जनकस्त्रीत्वं मातृत्वम् इत्यादिकमूह्यम् । पीलुः परमाणुः ( बै० उ० ७|१|६ ) यथा पीलुपाकवादिनो वैशेषिका : याद | पीलुपाकवादी - ( वैशेषिकः ) पीलवः परमाणवः । त एव स्वतन्त्राः पच्यन्ते । तत्रैव पूर्वरूपनाशाग्रिमरूपाद्युत्पत्तिः । कारणगुणप्रक्रमेण चावयविनि रूपाद्युत्पद्यते इति यो मन्यते सः (वै० उ० ७|१|६ ) । यथा कणादप्रधानाः पीलुपाकवादिनः । अधिकं च पाकशब्दे दृश्यम् । एतन्मते च परमाणुष्वेव पाकः न व्यणुकादौ । आमनिक्षिप्ते घटे श्यामघटनाशे परमाणुषु रूपान्तरोत्पत्तौ पुनणुकादिक्रमेण रक्तघटोत्पत्तिः । तत्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy